Sūkta 42
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 4-7); nicṛdgāyatrī (2, 3, 8, 9)
2nd set of styles gāyatrī
-
Ṛk 1
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिंद्र॒ गवा॑शिरं ।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् |
हरिभ्यां यस् ते अस्मयुः ||úpa naḥ sutámā́ gahi sómamindra gávāśiram ǀ
háribhyām yáste asmayúḥ ǁupa naḥ sutam ā gahi somam indra gavāśiram |
haribhyāṃ yas te asmayuḥ ||उप॑ । नः॒ । सु॒तम् । आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् ।
हरि॑ऽभ्याम् । यः । ते॒ । अ॒स्म॒ऽयुः ॥उप । नः । सुतम् । आ । गहि । सोमम् । इन्द्र । गोऽआशिरम् ।
हरिऽभ्याम् । यः । ते । अस्मऽयुः ॥úpa ǀ naḥ ǀ sutám ǀ ā́ ǀ gahi ǀ sómam ǀ indra ǀ gó-āśiram ǀ
hári-bhyām ǀ yáḥ ǀ te ǀ asma-yúḥ ǁupa ǀ naḥ ǀ sutam ǀ ā ǀ gahi ǀ somam ǀ indra ǀ go-āśiram ǀ
hari-bhyām ǀ yaḥ ǀ te ǀ asma-yuḥ ǁ3.42.1 Aṣṭaka 3.3.5.1Anuvāka 3.4.28
-
Ṛk 2
तमिं॑द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तं ।
कु॒विन्न्व॑स्य तृ॒प्णवः॑ ॥तम् इन्द्र मदम् आ गहि बर्हिष्ठां ग्रावभिः सुतम् |
कुविन् न्व् अस्य तृप्णवः ||támindra mádamā́ gahi barhiḥṣṭhā́m grā́vabhiḥ sutám ǀ
kuvínnvásya tṛpṇávaḥ ǁtam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam |
kuvin nv asya tṛpṇavaḥ ||तम् । इ॒न्द्र॒ । मद॑म् । आ । ग॒हि॒ । ब॒र्हिः॒ऽस्थाम् । ग्राव॑ऽभिः । सु॒तम् ।
कु॒वित् । नु । अ॒स्य॒ । तृ॒प्णवः॑ ॥तम् । इन्द्र । मदम् । आ । गहि । बर्हिःऽस्थाम् । ग्रावऽभिः । सुतम् ।
कुवित् । नु । अस्य । तृप्णवः ॥tám ǀ indra ǀ mádam ǀ ā́ ǀ gahi ǀ barhiḥ-sthā́m ǀ grā́va-bhiḥ ǀ sutám ǀ
kuvít ǀ nú ǀ asya ǀ tṛpṇávaḥ ǁtam ǀ indra ǀ madam ǀ ā ǀ gahi ǀ barhiḥ-sthām ǀ grāva-bhiḥ ǀ sutam ǀ
kuvit ǀ nu ǀ asya ǀ tṛpṇavaḥ ǁ3.42.2 Aṣṭaka 3.3.5.2Anuvāka 3.4.29
-
Ṛk 3
इंद्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।
आ॒वृते॒ सोम॑पीतये ॥इन्द्रम् इत्था गिरो ममाच्छागुर् इषिता इतः |
आवृते सोमपीतये ||índramitthā́ gíro mámā́cchāguriṣitā́ itáḥ ǀ
āvṛ́te sómapītaye ǁindram itthā giro mamācchāgur iṣitā itaḥ |
āvṛte somapītaye ||इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छ॑ । अ॒गुः॒ । इ॒षि॒ताः । इ॒तः ।
आ॒ऽवृते॑ । सोम॑ऽपीतये ॥इन्द्रम् । इत्था । गिरः । मम । अच्छ । अगुः । इषिताः । इतः ।
आऽवृते । सोमऽपीतये ॥índram ǀ itthā́ ǀ gíraḥ ǀ máma ǀ áccha ǀ aguḥ ǀ iṣitā́ḥ ǀ itáḥ ǀ
ā-vṛ́te ǀ sóma-pītaye ǁindram ǀ itthā ǀ giraḥ ǀ mama ǀ accha ǀ aguḥ ǀ iṣitāḥ ǀ itaḥ ǀ
ā-vṛte ǀ soma-pītaye ǁ3.42.3 Aṣṭaka 3.3.5.3Anuvāka 3.4.30
-
Ṛk 4
इंद्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।
उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे |
उक्थेभिः कुविद् आगमत् ||índram sómasya pītáye stómairihá havāmahe ǀ
ukthébhiḥ kuvídāgámat ǁindraṃ somasya pītaye stomair iha havāmahe |
ukthebhiḥ kuvid āgamat ||इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः॑ । इ॒ह । ह॒वा॒म॒हे॒ ।
उ॒क्थेभिः॑ । कु॒वित् । आ॒ऽगम॑त् ॥इन्द्रम् । सोमस्य । पीतये । स्तोमैः । इह । हवामहे ।
उक्थेभिः । कुवित् । आऽगमत् ॥índram ǀ sómasya ǀ pītáye ǀ stómaiḥ ǀ ihá ǀ havāmahe ǀ
ukthébhiḥ ǀ kuvít ǀ ā-gámat ǁindram ǀ somasya ǀ pītaye ǀ stomaiḥ ǀ iha ǀ havāmahe ǀ
ukthebhiḥ ǀ kuvit ǀ ā-gamat ǁ3.42.4 Aṣṭaka 3.3.5.4Anuvāka 3.4.31
-
Ṛk 5
इंद्र॒ सोमाः॑ सु॒ता इ॒मे तांद॑धिष्व शतक्रतो ।
ज॒ठरे॑ वाजिनीवसो ॥इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो |
जठरे वाजिनीवसो ||índra sómāḥ sutā́ imé tā́ndadhiṣva śatakrato ǀ
jaṭháre vājinīvaso ǁindra somāḥ sutā ime tān dadhiṣva śatakrato |
jaṭhare vājinīvaso ||इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ॥इन्द्र । सोमाः । सुताः । इमे । तान् । दधिष्व । शतक्रतो इति शतऽक्रतो ।
जठरे । वाजिनीवसो इति वाजिनीऽवसो ॥índra ǀ sómāḥ ǀ sutā́ḥ ǀ imé ǀ tā́n ǀ dadhiṣva ǀ śatakrato íti śata-krato ǀ
jaṭháre ǀ vājinīvaso íti vājinī-vaso ǁindra ǀ somāḥ ǀ sutāḥ ǀ ime ǀ tān ǀ dadhiṣva ǀ śatakrato iti śata-krato ǀ
jaṭhare ǀ vājinīvaso iti vājinī-vaso ǁ3.42.5 Aṣṭaka 3.3.5.5Anuvāka 3.4.32
-
Ṛk 6
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे ।
अधा॑ ते सु॒म्नमी॑महे ॥विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे |
अधा ते सुम्नम् ईमहे ||vidmā́ hí tvā dhanaṃjayám vā́jeṣu dadhṛṣám kave ǀ
ádhā te sumnámīmahe ǁvidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave |
adhā te sumnam īmahe ||वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । वाजे॑षु । द॒धृ॒षम् । क॒वे॒ ।
अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥विद्म । हि । त्वा । धनम्ऽजयम् । वाजेषु । दधृषम् । कवे ।
अध । ते । सुम्नम् । ईमहे ॥vidmá ǀ hí ǀ tvā ǀ dhanam-jayám ǀ vā́jeṣu ǀ dadhṛṣám ǀ kave ǀ
ádha ǀ te ǀ sumnám ǀ īmahe ǁvidma ǀ hi ǀ tvā ǀ dhanam-jayam ǀ vājeṣu ǀ dadhṛṣam ǀ kave ǀ
adha ǀ te ǀ sumnam ǀ īmahe ǁ3.42.6 Aṣṭaka 3.3.6.1Anuvāka 3.4.33
-
Ṛk 7
इ॒ममिं॑द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।
आ॒गत्या॒ वृष॑भिः सु॒तं ॥इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब |
आगत्या वृषभिः सुतम् ||imámindra gávāśiram yávāśiram ca naḥ piba ǀ
āgátyā vṛ́ṣabhiḥ sutám ǁimam indra gavāśiraṃ yavāśiraṃ ca naḥ piba |
āgatyā vṛṣabhiḥ sutam ||इ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ ।
आ॒ऽगत्य॑ । वृष॑ऽभिः । सु॒तम् ॥इमम् । इन्द्र । गोऽआशिरम् । यवऽआशिरम् । च । नः । पिब ।
आऽगत्य । वृषऽभिः । सुतम् ॥imám ǀ indra ǀ gó-āśiram ǀ yáva-āśiram ǀ ca ǀ naḥ ǀ piba ǀ
ā-gátya ǀ vṛ́ṣa-bhiḥ ǀ sutám ǁimam ǀ indra ǀ go-āśiram ǀ yava-āśiram ǀ ca ǀ naḥ ǀ piba ǀ
ā-gatya ǀ vṛṣa-bhiḥ ǀ sutam ǁ3.42.7 Aṣṭaka 3.3.6.2Anuvāka 3.4.34
-
Ṛk 8
तुभ्येदिं॑द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ।
ए॒ष रा॑रंतु ते हृ॒दि ॥तुभ्येद् इन्द्र स्व ओक्ये सोमं चोदामि पीतये |
एष रारन्तु ते हृदि ||túbhyédindra svá okyé sómam codāmi pītáye ǀ
eṣá rārantu te hṛdí ǁtubhyed indra sva okye somaṃ codāmi pītaye |
eṣa rārantu te hṛdi ||तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।
ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥तुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये ।
एषः । ररन्तु । ते । हृदि ॥túbhya ǀ ít ǀ indra ǀ své ǀ okyé ǀ sómam ǀ codāmi ǀ pītáye ǀ
eṣáḥ ǀ rarantu ǀ te ǀ hṛdí ǁtubhya ǀ it ǀ indra ǀ sve ǀ okye ǀ somam ǀ codāmi ǀ pītaye ǀ
eṣaḥ ǀ rarantu ǀ te ǀ hṛdi ǁ3.42.8 Aṣṭaka 3.3.6.3Anuvāka 3.4.35
-
Ṛk 9
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमिं॑द्र हवामहे ।
कु॒शि॒कासो॑ अव॒स्यवः॑ ॥त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे |
कुशिकासो अवस्यवः ||tvā́m sutásya pītáye pratnámindra havāmahe ǀ
kuśikā́so avasyávaḥ ǁtvāṃ sutasya pītaye pratnam indra havāmahe |
kuśikāso avasyavaḥ ||त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ।
कु॒शि॒कासः॑ । अ॒व॒स्यवः॑ ॥त्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ।
कुशिकासः । अवस्यवः ॥tvā́m ǀ sutásya ǀ pītáye ǀ pratnám ǀ indra ǀ havāmahe ǀ
kuśikā́saḥ ǀ avasyávaḥ ǁtvām ǀ sutasya ǀ pītaye ǀ pratnam ǀ indra ǀ havāmahe ǀ
kuśikāsaḥ ǀ avasyavaḥ ǁ3.42.9 Aṣṭaka 3.3.6.4Anuvāka 3.4.36
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.