Sūkta 4
- Devatā देवता
- 1-4: Agni; 5-11: Hymn Āprī
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (6, 8, 10, 11); svarāṭpaṅkti (1, 4, 7); triṣṭup (2, 3, 5); virāṭtrisṭup (9)
2nd set of styles triṣṭubh
-
Ṛk 1
स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्वः॑ ।
आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्त्सु॒मना॑ यक्ष्यग्ने ॥समित्-समित् सुमना बोध्य् अस्मे शुचा-शुचा सुमतिं रासि वस्वः |
आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्य् अग्ने ||samítsamitsumánā bodhyasmé śucā́śucā sumatím rāsi vásvaḥ ǀ
ā́ deva devā́nyajáthāya vakṣi sákhā sákhīntsumánā yakṣyagne ǁsamit-samit sumanā bodhy asme śucā-śucā sumatiṃ rāsi vasvaḥ |
ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne ||स॒मित्ऽस॑मित् । सु॒ऽमनाः॑ । बो॒धि॒ । अ॒स्मे इति॑ । शु॒चाऽशु॑चा । सु॒ऽम॒तिम् । रा॒सि॒ । वस्वः॑ ।
आ । दे॒व॒ । दे॒वान् । य॒जथा॑य । व॒क्षि॒ । सखा॑ । सखी॑न् । सु॒ऽमनाः॑ । य॒क्षि॒ । अ॒ग्ने॒ ॥समित्ऽसमित् । सुऽमनाः । बोधि । अस्मे इति । शुचाऽशुचा । सुऽमतिम् । रासि । वस्वः ।
आ । देव । देवान् । यजथाय । वक्षि । सखा । सखीन् । सुऽमनाः । यक्षि । अग्ने ॥samít-samit ǀ su-mánāḥ ǀ bodhi ǀ asmé íti ǀ śucā́-śucā ǀ su-matím ǀ rāsi ǀ vásvaḥ ǀ
ā́ ǀ deva ǀ devā́n ǀ yajáthāya ǀ vakṣi ǀ sákhā ǀ sákhīn ǀ su-mánāḥ ǀ yakṣi ǀ agne ǁsamit-samit ǀ su-manāḥ ǀ bodhi ǀ asme iti ǀ śucā-śucā ǀ su-matim ǀ rāsi ǀ vasvaḥ ǀ
ā ǀ deva ǀ devān ǀ yajathāya ǀ vakṣi ǀ sakhā ǀ sakhīn ǀ su-manāḥ ǀ yakṣi ǀ agne ǁ3.4.1 Aṣṭaka 2.8.22.1Anuvāka 3.1.50
-
Ṛk 2
यं दे॒वास॒स्त्रिरह॑न्ना॒यजं॑ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
सेमं य॒ज्ञं मधु॑मंतं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धंतं॑ ॥यं देवासस् त्रिर् अहन्न् आयजन्ते दिवे-दिवे वरुणो मित्रो अग्निः |
सेमं यज्ञम् मधुमन्तं कृधी नस् तनूनपाद् घृतयोनिं विधन्तम् ||yám devā́sastríráhannāyájante divédive váruṇo mitró agníḥ ǀ
sémám yajñám mádhumantam kṛdhī nastánūnapādghṛtáyonim vidhántam ǁyaṃ devāsas trir ahann āyajante dive-dive varuṇo mitro agniḥ |
semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam ||यम् । दे॒वासः॑ । त्रिः । अह॑न् । आ॒ऽयज॑न्ते । दि॒वेऽदि॑वे । वरु॑णः । मि॒त्रः । अ॒ग्निः ।
सः । इ॒मम् । य॒ज्ञम् । मधु॑ऽमन्तम् । कृ॒धि॒ । नः॒ । तनू॑ऽनपात् । घृ॒तऽयो॑निम् । वि॒धन्त॑म् ॥यम् । देवासः । त्रिः । अहन् । आऽयजन्ते । दिवेऽदिवे । वरुणः । मित्रः । अग्निः ।
सः । इमम् । यज्ञम् । मधुऽमन्तम् । कृधि । नः । तनूऽनपात् । घृतऽयोनिम् । विधन्तम् ॥yám ǀ devā́saḥ ǀ tríḥ ǀ áhan ǀ ā-yájante ǀ divé-dive ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ
sáḥ ǀ imám ǀ yajñám ǀ mádhu-mantam ǀ kṛdhi ǀ naḥ ǀ tánū-napāt ǀ ghṛtá-yonim ǀ vidhántam ǁyam ǀ devāsaḥ ǀ triḥ ǀ ahan ǀ ā-yajante ǀ dive-dive ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ
saḥ ǀ imam ǀ yajñam ǀ madhu-mantam ǀ kṛdhi ǀ naḥ ǀ tanū-napāt ǀ ghṛta-yonim ǀ vidhantam ǁ3.4.2 Aṣṭaka 2.8.22.2Anuvāka 3.1.51
-
Ṛk 3
प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै ।
अच्छा॒ नमो॑भिर्वृष॒भं वं॒दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥प्र दीधितिर् विश्ववारा जिगाति होतारम् इऌअः प्रथमं यजध्यै |
अच्छा नमोभिर् वृषभं वन्दध्यै स देवान् यक्षद् इषितो यजीयान् ||prá dī́dhitirviśvávārā jigāti hótāramiḷáḥ prathamám yájadhyai ǀ
ácchā námobhirvṛṣabhám vandádhyai sá devā́nyakṣadiṣitó yájīyān ǁpra dīdhitir viśvavārā jigāti hotāram iḷaḥ prathamaṃ yajadhyai |
acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān ||प्र । दीधि॑तिः । वि॒श्वऽवा॑रा । जि॒गा॒ति॒ । होता॑रम् । इ॒ळः । प्र॒थ॒मम् । यज॑ध्यै ।
अच्छ॑ । नमः॑ऽभिः । वृ॒ष॒भम् । व॒न्दध्यै॑ । सः । दे॒वान् । य॒क्ष॒त् । इ॒षि॒तः । यजी॑यान् ॥प्र । दीधितिः । विश्वऽवारा । जिगाति । होतारम् । इळः । प्रथमम् । यजध्यै ।
अच्छ । नमःऽभिः । वृषभम् । वन्दध्यै । सः । देवान् । यक्षत् । इषितः । यजीयान् ॥prá ǀ dī́dhitiḥ ǀ viśvá-vārā ǀ jigāti ǀ hótāram ǀ iḷáḥ ǀ prathamám ǀ yájadhyai ǀ
áccha ǀ námaḥ-bhiḥ ǀ vṛṣabhám ǀ vandádhyai ǀ sáḥ ǀ devā́n ǀ yakṣat ǀ iṣitáḥ ǀ yájīyān ǁpra ǀ dīdhitiḥ ǀ viśva-vārā ǀ jigāti ǀ hotāram ǀ iḷaḥ ǀ prathamam ǀ yajadhyai ǀ
accha ǀ namaḥ-bhiḥ ǀ vṛṣabham ǀ vandadhyai ǀ saḥ ǀ devān ǀ yakṣat ǀ iṣitaḥ ǀ yajīyān ǁ3.4.3 Aṣṭaka 2.8.22.3Anuvāka 3.1.52
-
Ṛk 4
ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि ।
दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥ऊर्ध्वो वां गातुर् अध्वरे अकार्य् ऊर्ध्वा शोचींषि प्रस्थिता रजांसि |
दिवो वा नाभा न्य् असादि होता स्तृणीमहि देवव्यचा वि बर्हिः ||ūrdhvó vām gātúradhvaré akāryūrdhvā́ śocī́ṃṣi prásthitā rájāṃsi ǀ
divó vā nā́bhā nyásādi hótā stṛṇīmáhi devávyacā ví barhíḥ ǁūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi |
divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ ||ऊ॒र्ध्वः । वा॒म् । गा॒तुः । अ॒ध्व॒रे । अ॒का॒रि॒ । ऊ॒र्ध्वा । शो॒चींषि॑ । प्रऽस्थि॑ता । रजां॑सि ।
दि॒वः । वा॒ । नाभा॑ । नि । अ॒सा॒दि॒ । होता॑ । स्तृ॒णी॒महि॑ । दे॒वऽव्य॑चाः । वि । ब॒र्हिः ॥ऊर्ध्वः । वाम् । गातुः । अध्वरे । अकारि । ऊर्ध्वा । शोचींषि । प्रऽस्थिता । रजांसि ।
दिवः । वा । नाभा । नि । असादि । होता । स्तृणीमहि । देवऽव्यचाः । वि । बर्हिः ॥ūrdhváḥ ǀ vām ǀ gātúḥ ǀ adhvaré ǀ akāri ǀ ūrdhvā́ ǀ śocī́ṃṣi ǀ prá-sthitā ǀ rájāṃsi ǀ
diváḥ ǀ vā ǀ nā́bhā ǀ ní ǀ asādi ǀ hótā ǀ stṛṇīmáhi ǀ devá-vyacāḥ ǀ ví ǀ barhíḥ ǁūrdhvaḥ ǀ vām ǀ gātuḥ ǀ adhvare ǀ akāri ǀ ūrdhvā ǀ śocīṃṣi ǀ pra-sthitā ǀ rajāṃsi ǀ
divaḥ ǀ vā ǀ nābhā ǀ ni ǀ asādi ǀ hotā ǀ stṛṇīmahi ǀ deva-vyacāḥ ǀ vi ǀ barhiḥ ǁ3.4.4 Aṣṭaka 2.8.22.4Anuvāka 3.1.53
-
Ṛk 5
स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्वं॑तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ ।
नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रंत पू॒र्वीः ॥सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न् ऋतेन |
नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ||saptá hotrā́ṇi mánasā vṛṇānā́ ínvanto víśvam práti yannṛténa ǀ
nṛpéśaso vidátheṣu prá jātā́ abhī́mám yajñám ví caranta pūrvī́ḥ ǁsapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena |
nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ ||स॒प्त । हो॒त्राणि॑ । मन॑सा । वृ॒णा॒नाः । इन्व॑न्तः । विश्व॑म् । प्रति॑ । य॒न् । ऋ॒तेन॑ ।
नृ॒ऽपेश॑सः । वि॒दथे॑षु । प्र । जा॒ताः । अ॒भि । इ॒मम् । य॒ज्ञम् । वि । च॒र॒न्त॒ । पू॒र्वीः ॥सप्त । होत्राणि । मनसा । वृणानाः । इन्वन्तः । विश्वम् । प्रति । यन् । ऋतेन ।
नृऽपेशसः । विदथेषु । प्र । जाताः । अभि । इमम् । यज्ञम् । वि । चरन्त । पूर्वीः ॥saptá ǀ hotrā́ṇi ǀ mánasā ǀ vṛṇānā́ḥ ǀ ínvantaḥ ǀ víśvam ǀ práti ǀ yan ǀ ṛténa ǀ
nṛ-péśasaḥ ǀ vidátheṣu ǀ prá ǀ jātā́ḥ ǀ abhí ǀ imám ǀ yajñám ǀ ví ǀ caranta ǀ pūrvī́ḥ ǁsapta ǀ hotrāṇi ǀ manasā ǀ vṛṇānāḥ ǀ invantaḥ ǀ viśvam ǀ prati ǀ yan ǀ ṛtena ǀ
nṛ-peśasaḥ ǀ vidatheṣu ǀ pra ǀ jātāḥ ǀ abhi ǀ imam ǀ yajñam ǀ vi ǀ caranta ǀ pūrvīḥ ǁ3.4.5 Aṣṭaka 2.8.22.5Anuvāka 3.1.54
-
Ṛk 6
आ भंद॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे ।
यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिंद्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे |
यथा नो मित्रो वरुणो जुजोषद् इन्द्रो मरुत्वां उत वा महोभिः ||ā́ bhándamāne uṣásā úpāke utá smayete tanvā́ vírūpe ǀ
yáthā no mitró váruṇo jújoṣadíndro marútvām̐ utá vā máhobhiḥ ǁā bhandamāne uṣasā upāke uta smayete tanvā virūpe |
yathā no mitro varuṇo jujoṣad indro marutvāṃ uta vā mahobhiḥ ||आ । भन्द॑माने॒ इति॑ । उ॒षसौ॑ । उपा॑के॒ इति॑ । उ॒त । स्म॒ये॒ते॒ इति॑ । त॒न्वा॑ । विरू॑पे॒ इति॒ विऽरू॑पे ।
यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । जुजो॑षत् । इन्द्रः॑ । म॒रुत्वा॑न् । उ॒त । वा॒ । महः॑ऽभिः ॥आ । भन्दमाने इति । उषसौ । उपाके इति । उत । स्मयेते इति । तन्वा । विरूपे इति विऽरूपे ।
यथा । नः । मित्रः । वरुणः । जुजोषत् । इन्द्रः । मरुत्वान् । उत । वा । महःऽभिः ॥ā́ ǀ bhándamāne íti ǀ uṣásau ǀ úpāke íti ǀ utá ǀ smayete íti ǀ tanvā́ ǀ vírūpe íti ví-rūpe ǀ
yáthā ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ jújoṣat ǀ índraḥ ǀ marútvān ǀ utá ǀ vā ǀ máhaḥ-bhiḥ ǁā ǀ bhandamāne iti ǀ uṣasau ǀ upāke iti ǀ uta ǀ smayete iti ǀ tanvā ǀ virūpe iti vi-rūpe ǀ
yathā ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ jujoṣat ǀ indraḥ ǀ marutvān ǀ uta ǀ vā ǀ mahaḥ-bhiḥ ǁ3.4.6 Aṣṭaka 2.8.23.1Anuvāka 3.1.55
-
Ṛk 7
दैव्या॒ होता॑रा प्रथ॒मा न्यृं॑जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदंति ।
ऋ॒तं शंसं॑त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति |
ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ||dáivyā hótārā prathamā́ nyṛ́ñje saptá pṛkṣā́saḥ svadháyā madanti ǀ
ṛtám śáṃsanta ṛtámíttá āhuránu vratám vratapā́ dī́dhyānāḥ ǁdaivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti |
ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ ||दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।
ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥दैव्या । होतारा । प्रथमा । नि । ऋञ्जे । सप्त । पृक्षासः । स्वधया । मदन्ति ।
ऋतम् । शंसन्तः । ऋतम् । इत् । ते । आहुः । अनु । व्रतम् । व्रतऽपाः । दीध्यानाः ॥dáivyā ǀ hótārā ǀ prathamā́ ǀ ní ǀ ṛñje ǀ saptá ǀ pṛkṣā́saḥ ǀ svadháyā ǀ madanti ǀ
ṛtám ǀ śáṃsantaḥ ǀ ṛtám ǀ ít ǀ té ǀ āhuḥ ǀ ánu ǀ vratám ǀ vrata-pā́ḥ ǀ dī́dhyānāḥ ǁdaivyā ǀ hotārā ǀ prathamā ǀ ni ǀ ṛñje ǀ sapta ǀ pṛkṣāsaḥ ǀ svadhayā ǀ madanti ǀ
ṛtam ǀ śaṃsantaḥ ǀ ṛtam ǀ it ǀ te ǀ āhuḥ ǀ anu ǀ vratam ǀ vrata-pāḥ ǀ dīdhyānāḥ ǁ3.4.7 Aṣṭaka 2.8.23.2Anuvāka 3.1.56
-
Ṛk 8
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।
सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दंतु ॥आ भारती भारतीभिः सजोषा इऌआ देवैर् मनुष्येभिर् अग्निः |
सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ||ā́ bhā́ratī bhā́ratībhiḥ sajóṣā íḷā deváirmanuṣyébhiragníḥ ǀ
sárasvatī sārasvatébhirarvā́k tisró devī́rbarhírédám sadantu ǁā bhāratī bhāratībhiḥ sajoṣā iḷā devair manuṣyebhir agniḥ |
sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu ||आ । भार॑ती । भार॑तीभिः । स॒ऽजोषाः॑ । इळा॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ।
सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥आ । भारती । भारतीभिः । सऽजोषाः । इळा । देवैः । मनुष्येभिः । अग्निः ।
सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु ॥ā́ ǀ bhā́ratī ǀ bhā́ratībhiḥ ǀ sa-jóṣāḥ ǀ íḷā ǀ deváiḥ ǀ manuṣyébhiḥ ǀ agníḥ ǀ
sárasvatī ǀ sārasvatébhiḥ ǀ arvā́k ǀ tisráḥ ǀ devī́ḥ ǀ barhíḥ ǀ ā́ ǀ idám ǀ sadantu ǁā ǀ bhāratī ǀ bhāratībhiḥ ǀ sa-joṣāḥ ǀ iḷā ǀ devaiḥ ǀ manuṣyebhiḥ ǀ agniḥ ǀ
sarasvatī ǀ sārasvatebhiḥ ǀ arvāk ǀ tisraḥ ǀ devīḥ ǀ barhiḥ ǀ ā ǀ idam ǀ sadantu ǁ3.4.8 Aṣṭaka 2.8.23.3Anuvāka 3.1.57
-
Ṛk 9
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।
यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व |
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ||tánnasturī́pamádha poṣayitnú déva tvaṣṭarví rarāṇáḥ syasva ǀ
yáto vīráḥ karmaṇyáḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ ǁtan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva |
yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ||तत् । नः॒ । तु॒रीप॑म् । अध॑ । पो॒ष॒यि॒त्नु । देव॑ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति॑ स्यस्व ।
यतः॑ । वी॒रः । क॒र्म॒ण्यः॑ । सु॒ऽदक्षः॑ । यु॒क्तऽग्रा॑वा । जाय॑ते । दे॒वऽका॑मः ॥तत् । नः । तुरीपम् । अध । पोषयित्नु । देव । त्वष्टः । वि । रराणः । स्यस्वेति स्यस्व ।
यतः । वीरः । कर्मण्यः । सुऽदक्षः । युक्तऽग्रावा । जायते । देवऽकामः ॥tát ǀ naḥ ǀ turī́pam ǀ ádha ǀ poṣayitnú ǀ déva ǀ tvaṣṭaḥ ǀ ví ǀ rarāṇáḥ ǀ syasvéti syasva ǀ
yátaḥ ǀ vīráḥ ǀ karmaṇyáḥ ǀ su-dákṣaḥ ǀ yuktá-grāvā ǀ jā́yate ǀ devá-kāmaḥ ǁtat ǀ naḥ ǀ turīpam ǀ adha ǀ poṣayitnu ǀ deva ǀ tvaṣṭaḥ ǀ vi ǀ rarāṇaḥ ǀ syasveti syasva ǀ
yataḥ ǀ vīraḥ ǀ karmaṇyaḥ ǀ su-dakṣaḥ ǀ yukta-grāvā ǀ jāyate ǀ deva-kāmaḥ ǁ3.4.9 Aṣṭaka 2.8.23.4Anuvāka 3.1.58
-
Ṛk 10
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।
सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति |
सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ||vánaspaté’va sṛjópa devā́nagnírhavíḥ śamitā́ sūdayāti ǀ
sédu hótā satyátaro yajāti yáthā devā́nām jánimāni véda ǁvanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti |
sed u hotā satyataro yajāti yathā devānāṃ janimāni veda ||वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।
सः । इत् । ऊं॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥वनस्पते । अव । सृज । उप । देवान् । अग्निः । हविः । शमिता । सूदयाति ।
सः । इत् । ऊं इति । होता । सत्यऽतरः । यजाति । यथा । देवानाम् । जनिमानि । वेद ॥vánaspate ǀ áva ǀ sṛja ǀ úpa ǀ devā́n ǀ agníḥ ǀ havíḥ ǀ śamitā́ ǀ sūdayāti ǀ
sáḥ ǀ ít ǀ ūṃ íti ǀ hótā ǀ satyá-taraḥ ǀ yajāti ǀ yáthā ǀ devā́nām ǀ jánimāni ǀ véda ǁvanaspate ǀ ava ǀ sṛja ǀ upa ǀ devān ǀ agniḥ ǀ haviḥ ǀ śamitā ǀ sūdayāti ǀ
saḥ ǀ it ǀ ūṃ iti ǀ hotā ǀ satya-taraḥ ǀ yajāti ǀ yathā ǀ devānām ǀ janimāni ǀ veda ǁ3.4.10 Aṣṭaka 2.8.23.5Anuvāka 3.1.59
-
Ṛk 11
आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिंद्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।
ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः |
बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ||ā́ yāhyagne samidhānó arvā́ṅíndreṇa deváiḥ sarátham turébhiḥ ǀ
barhírna āstāmáditiḥ suputrā́ svā́hā devā́ amṛ́tā mādayantām ǁā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ |
barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām ||आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ ।
ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥आ । याहि । अग्ने । सम्ऽइधानः । अर्वाङ् । इन्द्रेण । देवैः । सऽरथम् । तुरेभिः ।
बर्हिः । नः । आस्ताम् । अदितिः । सुऽपुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥ā́ ǀ yāhi ǀ agne ǀ sam-idhānáḥ ǀ arvā́ṅ ǀ índreṇa ǀ deváiḥ ǀ sa-rátham ǀ turébhiḥ ǀ
barhíḥ ǀ naḥ ǀ āstām ǀ áditiḥ ǀ su-putrā́ ǀ svā́hā ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayantām ǁā ǀ yāhi ǀ agne ǀ sam-idhānaḥ ǀ arvāṅ ǀ indreṇa ǀ devaiḥ ǀ sa-ratham ǀ turebhiḥ ǀ
barhiḥ ǀ naḥ ǀ āstām ǀ aditiḥ ǀ su-putrā ǀ svāhā ǀ devāḥ ǀ amṛtāḥ ǀ mādayantām ǁ3.4.11 Aṣṭaka 2.8.23.6Anuvāka 3.1.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.