Ṛgveda · Maṇḍala 3

Sūkta 36

Indra · 1-9, 11: Viśvāmitra Gāthina; 10: Ghora Āṅgirasa · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
1-9, 11: Viśvāmitra Gāthina; 10: Ghora Āṅgirasa
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1, 7, 10, 11); nicṛttriṣṭup (2, 3, 6, 8); bhurikpaṅkti (4); svarāṭpaṅkti (5); virāṭtrisṭup (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः ।
    सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ॥

    इमाम् ऊ षु प्रभृतिं सातये धाः शश्वच्-छश्वद् ऊतिभिर् यादमानः |
    सुते-सुते वावृधे वर्धनेभिर् यः कर्मभिर् महद्भिः सुश्रुतो भूत् ||

    imā́mū ṣú prábhṛtim sātáye dhāḥ śáśvacchaśvadūtíbhiryā́damānaḥ ǀ
    sutésute vāvṛdhe várdhanebhiryáḥ kármabhirmahádbhiḥ súśruto bhū́t ǁ

    imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvac-chaśvad ūtibhir yādamānaḥ |
    sute-sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt ||

    इ॒माम् । ऊं॒ इति॑ । सु । प्रऽभृ॑तिम् । सा॒तये॑ । धाः॒ । शश्व॑त्ऽशश्वत् । ऊ॒तिऽभिः॑ । याद॑मानः ।
    सु॒तेऽसु॑ते । व॒वृ॒धे॒ । वर्ध॑नेभिः । यः । कर्म॑ऽभिः । म॒हत्ऽभिः॑ । सुऽश्रु॑तः । भूत् ॥

    इमाम् । ऊं इति । सु । प्रऽभृतिम् । सातये । धाः । शश्वत्ऽशश्वत् । ऊतिऽभिः । यादमानः ।
    सुतेऽसुते । ववृधे । वर्धनेभिः । यः । कर्मऽभिः । महत्ऽभिः । सुऽश्रुतः । भूत् ॥

    imā́m ǀ ūṃ íti ǀ sú ǀ prá-bhṛtim ǀ sātáye ǀ dhāḥ ǀ śáśvat-śaśvat ǀ ūtí-bhiḥ ǀ yā́damānaḥ ǀ
    suté-sute ǀ vavṛdhe ǀ várdhanebhiḥ ǀ yáḥ ǀ kárma-bhiḥ ǀ mahát-bhiḥ ǀ sú-śrutaḥ ǀ bhū́t ǁ

    imām ǀ ūṃ iti ǀ su ǀ pra-bhṛtim ǀ sātaye ǀ dhāḥ ǀ śaśvat-śaśvat ǀ ūti-bhiḥ ǀ yādamānaḥ ǀ
    sute-sute ǀ vavṛdhe ǀ vardhanebhiḥ ǀ yaḥ ǀ karma-bhiḥ ǀ mahat-bhiḥ ǀ su-śrutaḥ ǀ bhūt ǁ

    3.36.1 Aṣṭaka 3.2.19.1Anuvāka 3.3.97

  2. Ṛk 2

    इंद्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
    प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येंद्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ॥

    इन्द्राय सोमाः प्रदिवो विदाना ऋभुर् येभिर् वृषपर्वा विहायाः |
    प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ||

    índrāya sómāḥ pradívo vídānā ṛbhúryébhirvṛ́ṣaparvā víhāyāḥ ǀ
    prayamyámānānpráti ṣū́ gṛbhāyéndra píba vṛ́ṣadhūtasya vṛ́ṣṇaḥ ǁ

    indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ |
    prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ ||

    इन्द्रा॑य । सोमाः॑ । प्र॒ऽदिवः॑ । विदा॑नाः । ऋ॒भुः । येभिः॑ । वृष॑ऽपर्वा । विऽहा॑याः ।
    प्र॒ऽय॒म्यमा॑नान् । प्रति॑ । सु । गृ॒भा॒य॒ । इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ ॥

    इन्द्राय । सोमाः । प्रऽदिवः । विदानाः । ऋभुः । येभिः । वृषऽपर्वा । विऽहायाः ।
    प्रऽयम्यमानान् । प्रति । सु । गृभाय । इन्द्र । पिब । वृषऽधूतस्य । वृष्णः ॥

    índrāya ǀ sómāḥ ǀ pra-dívaḥ ǀ vídānāḥ ǀ ṛbhúḥ ǀ yébhiḥ ǀ vṛ́ṣa-parvā ǀ ví-hāyāḥ ǀ
    pra-yamyámānān ǀ práti ǀ sú ǀ gṛbhāya ǀ índra ǀ píba ǀ vṛ́ṣa-dhūtasya ǀ vṛ́ṣṇaḥ ǁ

    indrāya ǀ somāḥ ǀ pra-divaḥ ǀ vidānāḥ ǀ ṛbhuḥ ǀ yebhiḥ ǀ vṛṣa-parvā ǀ vi-hāyāḥ ǀ
    pra-yamyamānān ǀ prati ǀ su ǀ gṛbhāya ǀ indra ǀ piba ǀ vṛṣa-dhūtasya ǀ vṛṣṇaḥ ǁ

    3.36.2 Aṣṭaka 3.2.19.2Anuvāka 3.3.98

  3. Ṛk 3

    पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इंद्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।
    यथापि॑बः पू॒र्व्याँ इं॑द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥

    पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे |
    यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ||

    píbā várdhasva táva ghā sutā́sa índra sómāsaḥ prathamā́ utémé ǀ
    yáthā́pibaḥ pūrvyā́m̐ indra sómām̐ evā́ pāhi pányo adyā́ návīyān ǁ

    pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme |
    yathāpibaḥ pūrvyāṃ indra somāṃ evā pāhi panyo adyā navīyān ||

    पिब॑ । वर्ध॑स्व । तव॑ । घ॒ । सु॒तासः॑ । इन्द्र॑ । सोमा॑सः । प्र॒थ॒माः । उ॒त । इ॒मे ।
    यथा॑ । अपि॑बः । पू॒र्व्यान् । इ॒न्द्र॒ । सोमा॑न् । ए॒व । पा॒हि॒ । पन्यः॑ । अ॒द्य । नवी॑यान् ॥

    पिब । वर्धस्व । तव । घ । सुतासः । इन्द्र । सोमासः । प्रथमाः । उत । इमे ।
    यथा । अपिबः । पूर्व्यान् । इन्द्र । सोमान् । एव । पाहि । पन्यः । अद्य । नवीयान् ॥

    píba ǀ várdhasva ǀ táva ǀ gha ǀ sutā́saḥ ǀ índra ǀ sómāsaḥ ǀ prathamā́ḥ ǀ utá ǀ imé ǀ
    yáthā ǀ ápibaḥ ǀ pūrvyā́n ǀ indra ǀ sómān ǀ evá ǀ pāhi ǀ pányaḥ ǀ adyá ǀ návīyān ǁ

    piba ǀ vardhasva ǀ tava ǀ gha ǀ sutāsaḥ ǀ indra ǀ somāsaḥ ǀ prathamāḥ ǀ uta ǀ ime ǀ
    yathā ǀ apibaḥ ǀ pūrvyān ǀ indra ǀ somān ǀ eva ǀ pāhi ǀ panyaḥ ǀ adya ǀ navīyān ǁ

    3.36.3 Aṣṭaka 3.2.19.3Anuvāka 3.3.99

  4. Ṛk 4

    म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।
    नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒ममं॑दन् ॥

    महां अमत्रो वृजने विरप्श्य् उग्रं शवः पत्यते धृष्ण्व् ओजः |
    नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वम् अमन्दन् ||

    mahā́m̐ ámatro vṛjáne virapśyúgrám śávaḥ patyate dhṛṣṇvójaḥ ǀ
    nā́ha vivyāca pṛthivī́ canáinam yátsómāso háryaśvamámandan ǁ

    mahāṃ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ |
    nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan ||

    म॒हान् । अम॑त्रः । वृ॒जने॑ । वि॒ऽर॒प्शी । उ॒ग्रम् । शवः॑ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः॑ ।
    न । अह॑ । वि॒व्या॒च॒ । पृ॒थि॒वी । च॒न । ए॒न॒म् । यत् । सोमा॑सः । हरि॑ऽअश्वम् । अम॑न्दन् ॥

    महान् । अमत्रः । वृजने । विऽरप्शी । उग्रम् । शवः । पत्यते । धृष्णु । ओजः ।
    न । अह । विव्याच । पृथिवी । चन । एनम् । यत् । सोमासः । हरिऽअश्वम् । अमन्दन् ॥

    mahā́n ǀ ámatraḥ ǀ vṛjáne ǀ vi-rapśī́ ǀ ugrám ǀ śávaḥ ǀ patyate ǀ dhṛṣṇú ǀ ójaḥ ǀ
    ná ǀ áha ǀ vivyāca ǀ pṛthivī́ ǀ caná ǀ enam ǀ yát ǀ sómāsaḥ ǀ hári-aśvam ǀ ámandan ǁ

    mahān ǀ amatraḥ ǀ vṛjane ǀ vi-rapśī ǀ ugram ǀ śavaḥ ǀ patyate ǀ dhṛṣṇu ǀ ojaḥ ǀ
    na ǀ aha ǀ vivyāca ǀ pṛthivī ǀ cana ǀ enam ǀ yat ǀ somāsaḥ ǀ hari-aśvam ǀ amandan ǁ

    3.36.4 Aṣṭaka 3.2.19.4Anuvāka 3.3.100

  5. Ṛk 5

    म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न ।
    इंद्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः॒ प्र जा॑यंते॒ दक्षि॑णा अस्य पू॒र्वीः ॥

    महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन |
    इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ||

    mahā́m̐ ugró vāvṛdhe vīryā́ya samā́cakre vṛṣabháḥ kā́vyena ǀ
    índro bhágo vājadā́ asya gā́vaḥ prá jāyante dákṣiṇā asya pūrvī́ḥ ǁ

    mahāṃ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena |
    indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ ||

    म॒हान् । उ॒ग्रः । व॒वृ॒धे॒ । वी॒र्या॑य । स॒म्ऽआच॑क्रे । वृ॒ष॒भः । काव्ये॑न ।
    इन्द्रः॑ । भगः॑ । वा॒ज॒ऽदाः । अ॒स्य॒ । गावः॑ । प्र । जा॒य॒न्ते॒ । दक्षि॑णाः । अ॒स्य॒ । पू॒र्वीः ॥

    महान् । उग्रः । ववृधे । वीर्याय । सम्ऽआचक्रे । वृषभः । काव्येन ।
    इन्द्रः । भगः । वाजऽदाः । अस्य । गावः । प्र । जायन्ते । दक्षिणाः । अस्य । पूर्वीः ॥

    mahā́n ǀ ugráḥ ǀ vavṛdhe ǀ vīryā́ya ǀ sam-ā́cakre ǀ vṛṣabháḥ ǀ kā́vyena ǀ
    índraḥ ǀ bhágaḥ ǀ vāja-dā́ḥ ǀ asya ǀ gā́vaḥ ǀ prá ǀ jāyante ǀ dákṣiṇāḥ ǀ asya ǀ pūrvī́ḥ ǁ

    mahān ǀ ugraḥ ǀ vavṛdhe ǀ vīryāya ǀ sam-ācakre ǀ vṛṣabhaḥ ǀ kāvyena ǀ
    indraḥ ǀ bhagaḥ ǀ vāja-dāḥ ǀ asya ǀ gāvaḥ ǀ pra ǀ jāyante ǀ dakṣiṇāḥ ǀ asya ǀ pūrvīḥ ǁ

    3.36.5 Aṣṭaka 3.2.19.5Anuvāka 3.3.101

  6. Ṛk 6

    प्र यत्सिंध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।
    अत॑श्चि॒दिंद्रः॒ सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ॥

    प्र यत् सिन्धवः प्रसवं यथायन्न् आपः समुद्रं रथ्येव जग्मुः |
    अतश् चिद् इन्द्रः सदसो वरीयान् यद् ईं सोमः पृणति दुग्धो अंशुः ||

    prá yátsíndhavaḥ prasavám yáthā́yannā́paḥ samudrám rathyéva jagmuḥ ǀ
    átaścidíndraḥ sádaso várīyānyádīm sómaḥ pṛṇáti dugdhó aṃśúḥ ǁ

    pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ |
    ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ ||

    प्र । यत् । सिन्ध॑वः । प्र॒ऽस॒वम् । यथा॑ । आय॑न् । आपः॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । ज॒ग्मुः॒ ।
    अतः॑ । चि॒त् । इन्द्रः॑ । सद॑सः । वरी॑यान् । यत् । ई॒म् । सोमः॑ । पृ॒णति॑ । दु॒ग्धः । अं॒शुः ॥

    प्र । यत् । सिन्धवः । प्रऽसवम् । यथा । आयन् । आपः । समुद्रम् । रथ्याऽइव । जग्मुः ।
    अतः । चित् । इन्द्रः । सदसः । वरीयान् । यत् । ईम् । सोमः । पृणति । दुग्धः । अंशुः ॥

    prá ǀ yát ǀ síndhavaḥ ǀ pra-savám ǀ yáthā ǀ ā́yan ǀ ā́paḥ ǀ samudrám ǀ rathyā́-iva ǀ jagmuḥ ǀ
    átaḥ ǀ cit ǀ índraḥ ǀ sádasaḥ ǀ várīyān ǀ yát ǀ īm ǀ sómaḥ ǀ pṛṇáti ǀ dugdháḥ ǀ aṃśúḥ ǁ

    pra ǀ yat ǀ sindhavaḥ ǀ pra-savam ǀ yathā ǀ āyan ǀ āpaḥ ǀ samudram ǀ rathyā-iva ǀ jagmuḥ ǀ
    ataḥ ǀ cit ǀ indraḥ ǀ sadasaḥ ǀ varīyān ǀ yat ǀ īm ǀ somaḥ ǀ pṛṇati ǀ dugdhaḥ ǀ aṃśuḥ ǁ

    3.36.6 Aṣṭaka 3.2.20.1Anuvāka 3.3.102

  7. Ṛk 7

    स॒मु॒द्रेण॒ सिंध॑वो॒ याद॑माना॒ इंद्रा॑य॒ सोमं॒ सुषु॑तं॒ भरं॑तः ।
    अं॒शुं दु॑हंति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्वः॑ पुनंति॒ धार॑या प॒वित्रैः॑ ॥

    समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतम् भरन्तः |
    अंशुं दुहन्ति हस्तिनो भरित्रैर् मध्वः पुनन्ति धारया पवित्रैः ||

    samudréṇa síndhavo yā́damānā índrāya sómam súṣutam bhárantaḥ ǀ
    aṃśúm duhanti hastíno bharítrairmádhvaḥ punanti dhā́rayā pavítraiḥ ǁ

    samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ |
    aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ ||

    स॒मु॒द्रेण॑ । सिन्ध॑वः । याद॑मानाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तः ।
    अं॒शुम् । दु॒ह॒न्ति॒ । ह॒स्तिनः॑ । भ॒रित्रैः॑ । मध्वः॑ । पु॒न॒न्ति॒ । धार॑या । प॒वित्रैः॑ ॥

    समुद्रेण । सिन्धवः । यादमानाः । इन्द्राय । सोमम् । सुऽसुतम् । भरन्तः ।
    अंशुम् । दुहन्ति । हस्तिनः । भरित्रैः । मध्वः । पुनन्ति । धारया । पवित्रैः ॥

    samudréṇa ǀ síndhavaḥ ǀ yā́damānāḥ ǀ índrāya ǀ sómam ǀ sú-sutam ǀ bhárantaḥ ǀ
    aṃśúm ǀ duhanti ǀ hastínaḥ ǀ bharítraiḥ ǀ mádhvaḥ ǀ punanti ǀ dhā́rayā ǀ pavítraiḥ ǁ

    samudreṇa ǀ sindhavaḥ ǀ yādamānāḥ ǀ indrāya ǀ somam ǀ su-sutam ǀ bharantaḥ ǀ
    aṃśum ǀ duhanti ǀ hastinaḥ ǀ bharitraiḥ ǀ madhvaḥ ǀ punanti ǀ dhārayā ǀ pavitraiḥ ǁ

    3.36.7 Aṣṭaka 3.2.20.2Anuvāka 3.3.103

  8. Ṛk 8

    ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।
    अन्ना॒ यदिंद्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोमं॑ ॥

    ह्रदा इव कुक्षयः सोमधानाः सम् ई विव्याच सवना पुरूणि |
    अन्ना यद् इन्द्रः प्रथमा व्य् आश वृत्रं जघन्वां अवृणीत सोमम् ||

    hradā́ iva kukṣáyaḥ somadhā́nāḥ sámī vivyāca sávanā purū́ṇi ǀ
    ánnā yádíndraḥ prathamā́ vyā́śa vṛtrám jaghanvā́m̐ avṛṇīta sómam ǁ

    hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi |
    annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṃ avṛṇīta somam ||

    ह्र॒दाःऽइ॑व । कु॒क्षयः॑ । सो॒म॒ऽधानाः॑ । सम् । ई॒मिति॑ । वि॒व्या॒च॒ । सव॑ना । पु॒रूणि॑ ।
    अन्ना॑ । यत् । इन्द्रः॑ । प्र॒थ॒मा । वि । आश॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒वृ॒णी॒त॒ । सोम॑म् ॥

    ह्रदाःऽइव । कुक्षयः । सोमऽधानाः । सम् । ईमिति । विव्याच । सवना । पुरूणि ।
    अन्ना । यत् । इन्द्रः । प्रथमा । वि । आश । वृत्रम् । जघन्वान् । अवृणीत । सोमम् ॥

    hradā́ḥ-iva ǀ kukṣáyaḥ ǀ soma-dhā́nāḥ ǀ sám ǀ īmíti ǀ vivyāca ǀ sávanā ǀ purū́ṇi ǀ
    ánnā ǀ yát ǀ índraḥ ǀ prathamā́ ǀ ví ǀ ā́śa ǀ vṛtrám ǀ jaghanvā́n ǀ avṛṇīta ǀ sómam ǁ

    hradāḥ-iva ǀ kukṣayaḥ ǀ soma-dhānāḥ ǀ sam ǀ īmiti ǀ vivyāca ǀ savanā ǀ purūṇi ǀ
    annā ǀ yat ǀ indraḥ ǀ prathamā ǀ vi ǀ āśa ǀ vṛtram ǀ jaghanvān ǀ avṛṇīta ǀ somam ǁ

    3.36.8 Aṣṭaka 3.2.20.3Anuvāka 3.3.104

  9. Ṛk 9

    आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नां ।
    इंद्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र यं॑धि ॥

    आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् |
    इन्द्र यत् ते माहिनं दत्रम् अस्त्य् अस्मभ्यं तद् धर्यश्व प्र यन्धि ||

    ā́ tū́ bhara mā́kiretátpári ṣṭhādvidmā́ hí tvā vásupatim vásūnām ǀ
    índra yátte mā́hinam dátramástyasmábhyam táddharyaśva prá yandhi ǁ

    ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām |
    indra yat te māhinaṃ datram asty asmabhyaṃ tad dharyaśva pra yandhi ||

    आ । तु । भ॒र॒ । माकिः॑ । ए॒तत् । परि॑ । स्था॒त् । वि॒द्म । हि । त्वा॒ । वसु॑ऽपतिम् । वसू॑नाम् ।
    इन्द्र॑ । यत् । ते॒ । माहि॑नम् । दत्र॑म् । अस्ति॑ । अ॒स्मभ्य॑म् । तत् । ह॒रि॒ऽअ॒श्व॒ । प्र । य॒न्धि॒ ॥

    आ । तु । भर । माकिः । एतत् । परि । स्थात् । विद्म । हि । त्वा । वसुऽपतिम् । वसूनाम् ।
    इन्द्र । यत् । ते । माहिनम् । दत्रम् । अस्ति । अस्मभ्यम् । तत् । हरिऽअश्व । प्र । यन्धि ॥

    ā́ ǀ tú ǀ bhara ǀ mā́kiḥ ǀ etát ǀ pári ǀ sthāt ǀ vidmá ǀ hí ǀ tvā ǀ vásu-patim ǀ vásūnām ǀ
    índra ǀ yát ǀ te ǀ mā́hinam ǀ dátram ǀ ásti ǀ asmábhyam ǀ tát ǀ hari-aśva ǀ prá ǀ yandhi ǁ

    ā ǀ tu ǀ bhara ǀ mākiḥ ǀ etat ǀ pari ǀ sthāt ǀ vidma ǀ hi ǀ tvā ǀ vasu-patim ǀ vasūnām ǀ
    indra ǀ yat ǀ te ǀ māhinam ǀ datram ǀ asti ǀ asmabhyam ǀ tat ǀ hari-aśva ǀ pra ǀ yandhi ǁ

    3.36.9 Aṣṭaka 3.2.20.4Anuvāka 3.3.105

  10. Ṛk 10

    अ॒स्मे प्र यं॑धि मघवन्नृजीषि॒न्निंद्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ ।
    अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒रांछश्व॑त इंद्र शिप्रिन् ॥

    अस्मे प्र यन्धि मघवन्न् ऋजीषिन्न् इन्द्र रायो विश्ववारस्य भूरेः |
    अस्मे शतं शरदो जीवसे धा अस्मे वीराञ् छश्वत इन्द्र शिप्रिन् ||

    asmé prá yandhi maghavannṛjīṣinníndra rāyó viśvávārasya bhū́reḥ ǀ
    asmé śatám śarádo jīváse dhā asmé vīrā́ñcháśvata indra śiprin ǁ

    asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ |
    asme śataṃ śarado jīvase dhā asme vīrāñ chaśvata indra śiprin ||

    अ॒स्मे इति॑ । प्र । य॒न्धि॒ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । इन्द्र॑ । रा॒यः । वि॒श्वऽवा॑रस्य । भूरेः॑ ।
    अ॒स्मे इति॑ । श॒तम् । श॒रदः॑ । जी॒वसे॑ । धाः॒ । अ॒स्मे इति॑ । वी॒रान् । शश्व॑तः । इ॒न्द्र॒ । शि॒प्रि॒न् ॥

    अस्मे इति । प्र । यन्धि । मघऽवन् । ऋजीषिन् । इन्द्र । रायः । विश्वऽवारस्य । भूरेः ।
    अस्मे इति । शतम् । शरदः । जीवसे । धाः । अस्मे इति । वीरान् । शश्वतः । इन्द्र । शिप्रिन् ॥

    asmé íti ǀ prá ǀ yandhi ǀ magha-van ǀ ṛjīṣin ǀ índra ǀ rāyáḥ ǀ viśvá-vārasya ǀ bhū́reḥ ǀ
    asmé íti ǀ śatám ǀ śarádaḥ ǀ jīváse ǀ dhāḥ ǀ asmé íti ǀ vīrā́n ǀ śáśvataḥ ǀ indra ǀ śiprin ǁ

    asme iti ǀ pra ǀ yandhi ǀ magha-van ǀ ṛjīṣin ǀ indra ǀ rāyaḥ ǀ viśva-vārasya ǀ bhūreḥ ǀ
    asme iti ǀ śatam ǀ śaradaḥ ǀ jīvase ǀ dhāḥ ǀ asme iti ǀ vīrān ǀ śaśvataḥ ǀ indra ǀ śiprin ǁ

    3.36.10 Aṣṭaka 3.2.20.5Anuvāka 3.3.106

  11. Ṛk 11

    शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
    शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

    शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
    शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||

    śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
    śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

    śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
    śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

    शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
    शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

    शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
    शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

    śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
    śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

    śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
    śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ

    3.36.11 Aṣṭaka 3.2.20.6Anuvāka 3.3.107

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.36 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

WITH constant succours, fain thyself to share it, make this oblation which we bring effective. Grown great through strengthening gifts at each libation, he hath become renowned by mighty exploits.

Ṛk 2

For Indra were the Somas erst- discovered, whereby he grew strong-jointed, vast, and skilful. Indra , take quickly these presented juices: drink of the strong, that which the strong have shaken.

Ṛk 3

Drink and wax great. Thine are the juices, Indra, both Somas of old time and these we bring thee. Even as thou drankest, Indra, earlier Somas, so drink to-day, a new guest, meet for praises.

Ṛk 4

Great and impetuous, mighty-voiced in battle, surpassing power is his, and strength resistless. Him the broad earth hath never comprehended when Somas cheered the Lord of Tawny Coursers.

Ṛk 5

Mighty and strong he waxed for hero exploit: the Bull was furnished a Sage's wisdom. Indra is our kind Lord; his steers have vigour; his cows are many with abundant offspring.

Ṛk 6

As floods according to their stream flow onward, so to the sea, as borne on cars, the waters. Vaster is Indra even than his dwelling, what time the stalk milked out, the Soma, fills him.

Ṛk 7

Eager to mingle with the sea, the rivers carry the well-pressed Soma juice to Indra. They drain the stalk out with their arms, quick-banded, and cleanse it with a stream of mead and filters.

Ṛk 8

Like lakes appear his flanks filled full with Soma: yea, he contains libations in abundance. When Indra had consumed the first sweet viands, he, after slaying Vṛtra, claimed the Soma.

Ṛk 9

Then bring thou hither, and let none prevent it: we know thee well, the Lord of wealth and treasure. That splendid gift which is thine own, O Indra, vouchsafe to us, Lord of the Tawny Coursers.

Ṛk 10

O Indra, Maghavan, impetuous mover, grant us abundant wealth that brings all blessings. Give us a hundred autumns for our lifetime: give us, O fair-checked Indra, store of heroes.