Ṛk 3.36.4
Saṃhitā
म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।
नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒ममं॑दन् ॥
महां अमत्रो वृजने विरप्श्य् उग्रं शवः पत्यते धृष्ण्व् ओजः |
नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वम् अमन्दन् ||
mahā́m̐ ámatro vṛjáne virapśyúgrám śávaḥ patyate dhṛṣṇvójaḥ ǀ
nā́ha vivyāca pṛthivī́ canáinam yátsómāso háryaśvamámandan ǁ
mahāṃ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ |
nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan ||
Padapāṭha
म॒हान् । अम॑त्रः । वृ॒जने॑ । वि॒ऽर॒प्शी । उ॒ग्रम् । शवः॑ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः॑ ।
न । अह॑ । वि॒व्या॒च॒ । पृ॒थि॒वी । च॒न । ए॒न॒म् । यत् । सोमा॑सः । हरि॑ऽअश्वम् । अम॑न्दन् ॥
महान् । अमत्रः । वृजने । विऽरप्शी । उग्रम् । शवः । पत्यते । धृष्णु । ओजः ।
न । अह । विव्याच । पृथिवी । चन । एनम् । यत् । सोमासः । हरिऽअश्वम् । अमन्दन् ॥
mahā́n ǀ ámatraḥ ǀ vṛjáne ǀ vi-rapśī́ ǀ ugrám ǀ śávaḥ ǀ patyate ǀ dhṛṣṇú ǀ ójaḥ ǀ
ná ǀ áha ǀ vivyāca ǀ pṛthivī́ ǀ caná ǀ enam ǀ yát ǀ sómāsaḥ ǀ hári-aśvam ǀ ámandan ǁ
mahān ǀ amatraḥ ǀ vṛjane ǀ vi-rapśī ǀ ugram ǀ śavaḥ ǀ patyate ǀ dhṛṣṇu ǀ ojaḥ ǀ
na ǀ aha ǀ vivyāca ǀ pṛthivī ǀ cana ǀ enam ǀ yat ǀ somāsaḥ ǀ hari-aśvam ǀ amandan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.036.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.19.04
- Maṇḍala · Anuvāka · Ṛk
- 03.03.100
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- 1-9, 11: Viśvāmitra Gāthina; 10: Ghora Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.