Ṛgveda · Maṇḍala 3

Sūkta 7

Agni · Viśvāmitra Gāthina · 11 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (2-5, 7); triṣṭup (1, 6, 9, 10); svarāṭpaṅkti (8); bhurikpaṅkti (11)

2nd set of styles triṣṭubh

  1. Ṛk 1

    प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणीः॑ ।
    प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे॑ ॥

    प्र य आरुः शितिपृष्ठस्य धासेर् आ मातरा विविशुः सप्त वाणीः |
    परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घम् आयुः प्रयक्षे ||

    prá yá ārúḥ śitipṛṣṭhásya dhāsérā́ mātárā viviśuḥ saptá vā́ṇīḥ ǀ
    parikṣítā pitárā sám carete prá sarsrāte dīrghámā́yuḥ prayákṣe ǁ

    pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ |
    parikṣitā pitarā saṃ carete pra sarsrāte dīrgham āyuḥ prayakṣe ||

    प्र । ये । आ॒रुः । शि॒ति॒ऽपृ॒ष्ठस्य॑ । धा॒सेः । आ । मा॒तरा॑ । वि॒वि॒शुः॒ । स॒प्त । वाणीः॑ ।
    प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । सम् । च॒रे॒ते॒ इति॑ । प्र । स॒र्स्रा॒ते॒ इति॑ । दी॒र्घम् । आयुः॑ । प्र॒ऽयक्षे॑ ॥

    प्र । ये । आरुः । शितिऽपृष्ठस्य । धासेः । आ । मातरा । विविशुः । सप्त । वाणीः ।
    परिऽक्षिता । पितरा । सम् । चरेते इति । प्र । सर्स्राते इति । दीर्घम् । आयुः । प्रऽयक्षे ॥

    prá ǀ yé ǀ ārúḥ ǀ śiti-pṛṣṭhásya ǀ dhāséḥ ǀ ā́ ǀ mātárā ǀ viviśuḥ ǀ saptá ǀ vā́ṇīḥ ǀ
    pari-kṣítā ǀ pitárā ǀ sám ǀ carete íti ǀ prá ǀ sarsrāte íti ǀ dīrghám ǀ ā́yuḥ ǀ pra-yákṣe ǁ

    pra ǀ ye ǀ āruḥ ǀ śiti-pṛṣṭhasya ǀ dhāseḥ ǀ ā ǀ mātarā ǀ viviśuḥ ǀ sapta ǀ vāṇīḥ ǀ
    pari-kṣitā ǀ pitarā ǀ sam ǀ carete iti ǀ pra ǀ sarsrāte iti ǀ dīrgham ǀ āyuḥ ǀ pra-yakṣe ǁ

    3.7.1 Aṣṭaka 3.1.1.1Anuvāka 3.1.83

  2. Ṛk 2

    दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वहं॑तीः ।
    ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यंतं॒ पर्येका॑ चरति वर्त॒निं गौः ॥

    दिवक्षसो धेनवो वृष्णो अश्वा देवीर् आ तस्थौ मधुमद् वहन्तीः |
    ऋतस्य त्वा सदसि क्षेमयन्तम् पर्य् एका चरति वर्तनिं गौः ||

    divákṣaso dhenávo vṛ́ṣṇo áśvā devī́rā́ tasthau mádhumadváhantīḥ ǀ
    ṛtásya tvā sádasi kṣemayántam páryékā carati vartaním gáuḥ ǁ

    divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ |
    ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ ||

    दि॒वक्ष॑सः । धे॒नवः॑ । वृष्णः॑ । अश्वाः॑ । दे॒वीः । आ । त॒स्थौ॒ । मधु॑ऽमत् । वह॑न्तीः ।
    ऋ॒तस्य॑ । त्वा॒ । सद॑सि । क्षे॒म॒ऽयन्त॑म् । परि॑ । एका॑ । च॒र॒ति॒ । व॒र्त॒निम् । गौः ॥

    दिवक्षसः । धेनवः । वृष्णः । अश्वाः । देवीः । आ । तस्थौ । मधुऽमत् । वहन्तीः ।
    ऋतस्य । त्वा । सदसि । क्षेमऽयन्तम् । परि । एका । चरति । वर्तनिम् । गौः ॥

    divákṣasaḥ ǀ dhenávaḥ ǀ vṛ́ṣṇaḥ ǀ áśvāḥ ǀ devī́ḥ ǀ ā́ ǀ tasthau ǀ mádhu-mat ǀ váhantīḥ ǀ
    ṛtásya ǀ tvā ǀ sádasi ǀ kṣema-yántam ǀ pári ǀ ékā ǀ carati ǀ vartaním ǀ gáuḥ ǁ

    divakṣasaḥ ǀ dhenavaḥ ǀ vṛṣṇaḥ ǀ aśvāḥ ǀ devīḥ ǀ ā ǀ tasthau ǀ madhu-mat ǀ vahantīḥ ǀ
    ṛtasya ǀ tvā ǀ sadasi ǀ kṣema-yantam ǀ pari ǀ ekā ǀ carati ǀ vartanim ǀ gauḥ ǁ

    3.7.2 Aṣṭaka 3.1.1.2Anuvāka 3.1.84

  3. Ṛk 3

    आ सी॑मरोहत्सु॒यमा॒ भवं॑तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णां ।
    प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥

    आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद् रयीणाम् |
    प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत् पुरुधप्रतीकः ||

    ā́ sīmarohatsuyámā bhávantīḥ pátiścikitvā́nrayivídrayīṇā́m ǀ
    prá nī́lapṛṣṭho atasásya dhāséstā́ avāsayatpurudhápratīkaḥ ǁ

    ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām |
    pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ ||

    आ । सी॒म् । अ॒रो॒ह॒त् । सु॒ऽयमाः॑ । भव॑न्तीः । पतिः॑ । चि॒कि॒त्वान् । र॒यि॒ऽवित् । र॒यी॒णाम् ।
    प्र । नील॑ऽपृष्ठः । अ॒त॒सस्य॑ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒धऽप्र॑तीकः ॥

    आ । सीम् । अरोहत् । सुऽयमाः । भवन्तीः । पतिः । चिकित्वान् । रयिऽवित् । रयीणाम् ।
    प्र । नीलऽपृष्ठः । अतसस्य । धासेः । ताः । अवासयत् । पुरुधऽप्रतीकः ॥

    ā́ ǀ sīm ǀ arohat ǀ su-yámāḥ ǀ bhávantīḥ ǀ pátiḥ ǀ cikitvā́n ǀ rayi-vít ǀ rayīṇā́m ǀ
    prá ǀ nī́la-pṛṣṭhaḥ ǀ atasásya ǀ dhāséḥ ǀ tā́ḥ ǀ avāsayat ǀ purudhá-pratīkaḥ ǁ

    ā ǀ sīm ǀ arohat ǀ su-yamāḥ ǀ bhavantīḥ ǀ patiḥ ǀ cikitvān ǀ rayi-vit ǀ rayīṇām ǀ
    pra ǀ nīla-pṛṣṭhaḥ ǀ atasasya ǀ dhāseḥ ǀ tāḥ ǀ avāsayat ǀ purudha-pratīkaḥ ǁ

    3.7.3 Aṣṭaka 3.1.1.3Anuvāka 3.1.85

  4. Ṛk 4

    महि॑ त्वा॒ष्ट्रमू॒र्जयं॑तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहंति ।
    व्यंगे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥

    महि त्वाष्ट्रम् ऊर्जयन्तीर् अजुर्यं स्तभूयमानं वहतो वहन्ति |
    व्य् अङ्गेभिर् दिद्युतानः सधस्थ एकाम् इव रोदसी आ विवेश ||

    máhi tvāṣṭrámūrjáyantīrajuryám stabhūyámānam vaháto vahanti ǀ
    vyáṅgebhirdidyutānáḥ sadhástha ékāmiva ródasī ā́ viveśa ǁ

    mahi tvāṣṭram ūrjayantīr ajuryaṃ stabhūyamānaṃ vahato vahanti |
    vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa ||

    महि॑ । त्वा॒ष्ट्रम् । ऊ॒र्जय॑न्तीः । अ॒जु॒र्यम् । स्त॒भु॒ऽयमा॑नम् । व॒हतः॑ । व॒ह॒न्ति॒ ।
    वि । अङ्गे॑भिः । दि॒द्यु॒ता॒नः । स॒धऽस्थे॑ । एका॑म्ऽइव । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ॥

    महि । त्वाष्ट्रम् । ऊर्जयन्तीः । अजुर्यम् । स्तभुऽयमानम् । वहतः । वहन्ति ।
    वि । अङ्गेभिः । दिद्युतानः । सधऽस्थे । एकाम्ऽइव । रोदसी इति । आ । विवेश ॥

    máhi ǀ tvāṣṭrám ǀ ūrjáyantīḥ ǀ ajuryám ǀ stabhu-yámānam ǀ vahátaḥ ǀ vahanti ǀ
    ví ǀ áṅgebhiḥ ǀ didyutānáḥ ǀ sadhá-sthe ǀ ékām-iva ǀ ródasī íti ǀ ā́ ǀ viveśa ǁ

    mahi ǀ tvāṣṭram ǀ ūrjayantīḥ ǀ ajuryam ǀ stabhu-yamānam ǀ vahataḥ ǀ vahanti ǀ
    vi ǀ aṅgebhiḥ ǀ didyutānaḥ ǀ sadha-sthe ǀ ekām-iva ǀ rodasī iti ǀ ā ǀ viveśa ǁ

    3.7.4 Aṣṭaka 3.1.1.4Anuvāka 3.1.86

  5. Ṛk 5

    जा॒नंति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणंति ।
    दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥

    जानन्ति वृष्णो अरुषस्य शेवम् उत ब्रध्नस्य शासने रणन्ति |
    दिवोरुचः सुरुचो रोचमाना इऌआ येषां गण्या माहिना गीः ||

    jānánti vṛ́ṣṇo aruṣásya śévamutá bradhnásya śā́sane raṇanti ǀ
    divorúcaḥ surúco rócamānā íḷā yéṣām gáṇyā mā́hinā gī́ḥ ǁ

    jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti |
    divorucaḥ suruco rocamānā iḷā yeṣāṃ gaṇyā māhinā gīḥ ||

    जा॒नन्ति॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । शेव॑म् । उ॒त । ब्र॒ध्नस्य॑ । शास॑ने । र॒ण॒न्ति॒ ।
    दि॒वः॒ऽरुचः॑ । सु॒ऽरुचः॑ । रोच॑मानाः । इळा॑ । येषा॑म् । गण्या॑ । माहि॑ना । गीः ॥

    जानन्ति । वृष्णः । अरुषस्य । शेवम् । उत । ब्रध्नस्य । शासने । रणन्ति ।
    दिवःऽरुचः । सुऽरुचः । रोचमानाः । इळा । येषाम् । गण्या । माहिना । गीः ॥

    jānánti ǀ vṛ́ṣṇaḥ ǀ aruṣásya ǀ śévam ǀ utá ǀ bradhnásya ǀ śā́sane ǀ raṇanti ǀ
    divaḥ-rúcaḥ ǀ su-rúcaḥ ǀ rócamānāḥ ǀ íḷā ǀ yéṣām ǀ gáṇyā ǀ mā́hinā ǀ gī́ḥ ǁ

    jānanti ǀ vṛṣṇaḥ ǀ aruṣasya ǀ śevam ǀ uta ǀ bradhnasya ǀ śāsane ǀ raṇanti ǀ
    divaḥ-rucaḥ ǀ su-rucaḥ ǀ rocamānāḥ ǀ iḷā ǀ yeṣām ǀ gaṇyā ǀ māhinā ǀ gīḥ ǁ

    3.7.5 Aṣṭaka 3.1.1.5Anuvāka 3.1.87

  6. Ṛk 6

    उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयंत शू॒षं ।
    उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥

    उतो पितृभ्याम् प्रविदानु घोषम् महो महद्भ्याम् अनयन्त शूषम् |
    उक्षा ह यत्र परि धानम् अक्तोर् अनु स्वं धाम जरितुर् ववक्ष ||

    utó pitṛ́bhyām pravídā́nu ghóṣam mahó mahádbhyāmanayanta śūṣám ǀ
    ukṣā́ ha yátra pári dhā́namaktóránu svám dhā́ma jaritúrvavákṣa ǁ

    uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam |
    ukṣā ha yatra pari dhānam aktor anu svaṃ dhāma jaritur vavakṣa ||

    उ॒तो इति॑ । पि॒तृऽभ्या॑म् । प्र॒ऽविदा॑ । अनु॑ । घोष॑म् । म॒हः । म॒हत्ऽभ्या॑म् । अ॒न॒य॒न्त॒ । शू॒षम् ।
    उ॒क्षा । ह॒ । यत्र॑ । परि॑ । धान॑म् । अ॒क्तोः । अनु॑ । स्वम् । धाम॑ । ज॒रि॒तुः । व॒वक्ष॑ ॥

    उतो इति । पितृऽभ्याम् । प्रऽविदा । अनु । घोषम् । महः । महत्ऽभ्याम् । अनयन्त । शूषम् ।
    उक्षा । ह । यत्र । परि । धानम् । अक्तोः । अनु । स्वम् । धाम । जरितुः । ववक्ष ॥

    utó íti ǀ pitṛ́-bhyām ǀ pra-vídā ǀ ánu ǀ ghóṣam ǀ maháḥ ǀ mahát-bhyām ǀ anayanta ǀ śūṣám ǀ
    ukṣā́ ǀ ha ǀ yátra ǀ pári ǀ dhā́nam ǀ aktóḥ ǀ ánu ǀ svám ǀ dhā́ma ǀ jaritúḥ ǀ vavákṣa ǁ

    uto iti ǀ pitṛ-bhyām ǀ pra-vidā ǀ anu ǀ ghoṣam ǀ mahaḥ ǀ mahat-bhyām ǀ anayanta ǀ śūṣam ǀ
    ukṣā ǀ ha ǀ yatra ǀ pari ǀ dhānam ǀ aktoḥ ǀ anu ǀ svam ǀ dhāma ǀ jarituḥ ǀ vavakṣa ǁ

    3.7.6 Aṣṭaka 3.1.2.1Anuvāka 3.1.88

  7. Ṛk 7

    अ॒ध्व॒र्युभिः॑ पं॒चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षंते॒ निहि॑तं प॒दं वेः ।
    प्रांचो॑ मदंत्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥

    अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितम् पदं वेः |
    प्राञ्चो मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता गुः ||

    adhvaryúbhiḥ pañcábhiḥ saptá víprāḥ priyám rakṣante níhitam padám véḥ ǀ
    prā́ñco madantyukṣáṇo ajuryā́ devā́ devā́nāmánu hí vratā́ gúḥ ǁ

    adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ |
    prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ ||

    अ॒ध्व॒र्युऽभिः॑ । प॒ञ्चऽभिः॑ । स॒प्त । विप्राः॑ । प्रि॒यम् । र॒क्ष॒न्ते॒ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ।
    प्राञ्चः॑ । म॒द॒न्ति॒ । उ॒क्षणः॑ । अ॒जु॒र्याः । दे॒वाः । दे॒वाना॑म् । अनु॑ । हि । व्र॒ता । गुरिति॒ गुः ॥

    अध्वर्युऽभिः । पञ्चऽभिः । सप्त । विप्राः । प्रियम् । रक्षन्ते । निऽहितम् । पदम् । वेरिति वेः ।
    प्राञ्चः । मदन्ति । उक्षणः । अजुर्याः । देवाः । देवानाम् । अनु । हि । व्रता । गुरिति गुः ॥

    adhvaryú-bhiḥ ǀ pañcá-bhiḥ ǀ saptá ǀ víprāḥ ǀ priyám ǀ rakṣante ǀ ní-hitam ǀ padám ǀ véríti véḥ ǀ
    prā́ñcaḥ ǀ madanti ǀ ukṣáṇaḥ ǀ ajuryā́ḥ ǀ devā́ḥ ǀ devā́nām ǀ ánu ǀ hí ǀ vratā́ ǀ gúríti gúḥ ǁ

    adhvaryu-bhiḥ ǀ pañca-bhiḥ ǀ sapta ǀ viprāḥ ǀ priyam ǀ rakṣante ǀ ni-hitam ǀ padam ǀ veriti veḥ ǀ
    prāñcaḥ ǀ madanti ǀ ukṣaṇaḥ ǀ ajuryāḥ ǀ devāḥ ǀ devānām ǀ anu ǀ hi ǀ vratā ǀ guriti guḥ ǁ

    3.7.7 Aṣṭaka 3.1.2.2Anuvāka 3.1.89

  8. Ṛk 8

    दैव्या॒ होता॑रा प्रथ॒मा न्यृं॑जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदंति ।
    ऋ॒तं शंसं॑त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥

    दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति |
    ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ||

    dáivyā hótārā prathamā́ nyṛ́ñje saptá pṛkṣā́saḥ svadháyā madanti ǀ
    ṛtám śáṃsanta ṛtámíttá āhuránu vratám vratapā́ dī́dhyānāḥ ǁ

    daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti |
    ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ ||

    दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।
    ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥

    दैव्या । होतारा । प्रथमा । नि । ऋञ्जे । सप्त । पृक्षासः । स्वधया । मदन्ति ।
    ऋतम् । शंसन्तः । ऋतम् । इत् । ते । आहुः । अनु । व्रतम् । व्रतऽपाः । दीध्यानाः ॥

    dáivyā ǀ hótārā ǀ prathamā́ ǀ ní ǀ ṛñje ǀ saptá ǀ pṛkṣā́saḥ ǀ svadháyā ǀ madanti ǀ
    ṛtám ǀ śáṃsantaḥ ǀ ṛtám ǀ ít ǀ té ǀ āhuḥ ǀ ánu ǀ vratám ǀ vrata-pā́ḥ ǀ dī́dhyānāḥ ǁ

    daivyā ǀ hotārā ǀ prathamā ǀ ni ǀ ṛñje ǀ sapta ǀ pṛkṣāsaḥ ǀ svadhayā ǀ madanti ǀ
    ṛtam ǀ śaṃsantaḥ ǀ ṛtam ǀ it ǀ te ǀ āhuḥ ǀ anu ǀ vratam ǀ vrata-pāḥ ǀ dīdhyānāḥ ǁ

    3.7.8 Aṣṭaka 3.1.2.3Anuvāka 3.1.90

  9. Ṛk 9

    वृ॒षा॒यंते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।
    देव॑ होतर्मं॒द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥

    वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः सुयामाः |
    देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह वक्षि ||

    vṛṣāyánte mahé átyāya pūrvī́rvṛ́ṣṇe citrā́ya raśmáyaḥ suyāmā́ḥ ǀ
    déva hotarmandrátaraścikitvā́nmahó devā́nródasī éhá vakṣi ǁ

    vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ |
    deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi ||

    वृ॒ष॒ऽयन्ते॑ । म॒हे । अत्या॑य । पू॒र्वीः । वृष्णे॑ । चि॒त्राय॑ । र॒श्मयः॑ । सु॒ऽया॒माः ।
    देव॑ । हो॒तः॒ । म॒न्द्रऽत॑रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद॑सी॒ इति॑ । आ । इ॒ह । व॒क्षि॒ ॥

    वृषऽयन्ते । महे । अत्याय । पूर्वीः । वृष्णे । चित्राय । रश्मयः । सुऽयामाः ।
    देव । होतः । मन्द्रऽतरः । चिकित्वान् । महः । देवान् । रोदसी इति । आ । इह । वक्षि ॥

    vṛṣa-yánte ǀ mahé ǀ átyāya ǀ pūrvī́ḥ ǀ vṛ́ṣṇe ǀ citrā́ya ǀ raśmáyaḥ ǀ su-yāmā́ḥ ǀ
    déva ǀ hotaḥ ǀ mandrá-taraḥ ǀ cikitvā́n ǀ maháḥ ǀ devā́n ǀ ródasī íti ǀ ā́ ǀ ihá ǀ vakṣi ǁ

    vṛṣa-yante ǀ mahe ǀ atyāya ǀ pūrvīḥ ǀ vṛṣṇe ǀ citrāya ǀ raśmayaḥ ǀ su-yāmāḥ ǀ
    deva ǀ hotaḥ ǀ mandra-taraḥ ǀ cikitvān ǀ mahaḥ ǀ devān ǀ rodasī iti ǀ ā ǀ iha ǀ vakṣi ǁ

    3.7.9 Aṣṭaka 3.1.2.4Anuvāka 3.1.91

  10. Ṛk 10

    पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।
    उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ॥

    पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद् ऊषुः |
    उतो चिद् अग्ने महिना पृथिव्याः कृतं चिद् एनः सम् महे दशस्य ||

    pṛkṣáprayajo draviṇaḥ suvā́caḥ suketáva uṣáso revádūṣuḥ ǀ
    utó cidagne mahinā́ pṛthivyā́ḥ kṛtám cidénaḥ sám mahé daśasya ǁ

    pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ |
    uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya ||

    पृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ ।
    उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥

    पृक्षऽप्रयजः । द्रविणः । सुऽवाचः । सुऽकेतवः । उषसः । रेवत् । ऊषुः ।
    उतो इति । चित् । अग्ने । महिना । पृथिव्याः । कृतम् । चित् । एनः । सम् । महे । दशस्य ॥

    pṛkṣá-prayajaḥ ǀ draviṇaḥ ǀ su-vā́caḥ ǀ su-ketávaḥ ǀ uṣásaḥ ǀ revát ǀ ūṣuḥ ǀ
    utó íti ǀ cit ǀ agne ǀ mahinā́ ǀ pṛthivyā́ḥ ǀ kṛtám ǀ cit ǀ énaḥ ǀ sám ǀ mahé ǀ daśasya ǁ

    pṛkṣa-prayajaḥ ǀ draviṇaḥ ǀ su-vācaḥ ǀ su-ketavaḥ ǀ uṣasaḥ ǀ revat ǀ ūṣuḥ ǀ
    uto iti ǀ cit ǀ agne ǀ mahinā ǀ pṛthivyāḥ ǀ kṛtam ǀ cit ǀ enaḥ ǀ sam ǀ mahe ǀ daśasya ǁ

    3.7.10 Aṣṭaka 3.1.2.5Anuvāka 3.1.92

  11. Ṛk 11

    इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
    स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

    इऌआम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध |
    स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ||

    íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ
    syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

    iḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
    syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||

    इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
    स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

    इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।
    स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

    íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ
    syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

    iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ
    syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ

    3.7.11 Aṣṭaka 3.1.2.6Anuvāka 3.1.93

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.7 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

They who have climbed from the dark-backed foundation have entered the Father and Mother, have entered into the seven voices. The Father and Mother who dwell encompassing all move abroad and go forward to give by sacrifice long-extended the Life. (176)

Ṛk 2

He reached the milch-cows that dwell in heaven, the Mares of the male, the divine rivers that carry in their flow the sweetness. The one Light moves on the way around thee when thou seekest thy dwelling in the house of the Truth. (176)

Ṛk 3

On every side he ascends them and they become easy to control, he awakes to knowledge and is the lord and discoverer of the riches. Fire with his blue back and many diverse faces brings them from the ever-moving foundation to a settled dwelling. (176)

Ṛk 4

The rivers energies and bear his mighty force of formation firmly fixed and undecaying; he shines out wide with his limbs in the world of his session and has entered earth and heaven as if they were one.(176)

Ṛk 5

They know the bliss of the ruddy-shining bull and they rejoice in the rule of the Great One; they are the lights of heaven luminously blazing and the Word of Revelation is their mighty common speech. (177)

Ṛk 6

And great by the knowledge of the great father and mother they led his strength in the wake of its proclaiming call, where the bull bears his worshipper round the hold of night towards its own seat. (177)

Ṛk 7

Seven illumined seers guard by the five priests of the pilgrim rite the beloved32 seat of the being that is set within: moving forward the imperishable bulls take joy; the gods move according to the law of the workings of the gods. (177)

Ṛk 8

I crown the two supreme Priests of the invocation. The seven pleasures take their rapture by the self-law of their nature; the Truth they express, the Truth only they speak, guardians of the law of its action according to that law they shine. (177)

Ṛk 9

The many Rays well governed in their course, grow passionate for the great Horse, the many-hued Bull. O divine priest of the call, rapturous, awaking to knowledge, bring here the great gods and earth and heaven. (178)

Ṛk 10

The swift-running dawns have shone opulently bringing us our satisfactions, with their true speech, their rays of intuition. And do thou, O Fire, by the greatness of the earth cut away for the Vast even the sin that has been done. (178)

Ṛk 11

O Fire, achieve at my call the Revealing Speech, the many actioned, the lasting conquest of the Light. May there be for us a Son of our begetting pervading in his birth;33 O Fire, may there be created in us that true thinking of thine. (178)