Ṛk 3.7.7
Saṃhitā
अ॒ध्व॒र्युभिः॑ पं॒चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षंते॒ निहि॑तं प॒दं वेः ।
प्रांचो॑ मदंत्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥
अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितम् पदं वेः |
प्राञ्चो मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता गुः ||
adhvaryúbhiḥ pañcábhiḥ saptá víprāḥ priyám rakṣante níhitam padám véḥ ǀ
prā́ñco madantyukṣáṇo ajuryā́ devā́ devā́nāmánu hí vratā́ gúḥ ǁ
adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ |
prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ ||
Padapāṭha
अ॒ध्व॒र्युऽभिः॑ । प॒ञ्चऽभिः॑ । स॒प्त । विप्राः॑ । प्रि॒यम् । र॒क्ष॒न्ते॒ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ।
प्राञ्चः॑ । म॒द॒न्ति॒ । उ॒क्षणः॑ । अ॒जु॒र्याः । दे॒वाः । दे॒वाना॑म् । अनु॑ । हि । व्र॒ता । गुरिति॒ गुः ॥
अध्वर्युऽभिः । पञ्चऽभिः । सप्त । विप्राः । प्रियम् । रक्षन्ते । निऽहितम् । पदम् । वेरिति वेः ।
प्राञ्चः । मदन्ति । उक्षणः । अजुर्याः । देवाः । देवानाम् । अनु । हि । व्रता । गुरिति गुः ॥
adhvaryú-bhiḥ ǀ pañcá-bhiḥ ǀ saptá ǀ víprāḥ ǀ priyám ǀ rakṣante ǀ ní-hitam ǀ padám ǀ véríti véḥ ǀ
prā́ñcaḥ ǀ madanti ǀ ukṣáṇaḥ ǀ ajuryā́ḥ ǀ devā́ḥ ǀ devā́nām ǀ ánu ǀ hí ǀ vratā́ ǀ gúríti gúḥ ǁ
adhvaryu-bhiḥ ǀ pañca-bhiḥ ǀ sapta ǀ viprāḥ ǀ priyam ǀ rakṣante ǀ ni-hitam ǀ padam ǀ veriti veḥ ǀ
prāñcaḥ ǀ madanti ǀ ukṣaṇaḥ ǀ ajuryāḥ ǀ devāḥ ǀ devānām ǀ anu ǀ hi ǀ vratā ǀ guriti guḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.007.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.02.02
- Maṇḍala · Anuvāka · Ṛk
- 03.01.089
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.