Ṛk 3.7.3
Saṃhitā
आ सी॑मरोहत्सु॒यमा॒ भवं॑तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णां ।
प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥
आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद् रयीणाम् |
प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत् पुरुधप्रतीकः ||
ā́ sīmarohatsuyámā bhávantīḥ pátiścikitvā́nrayivídrayīṇā́m ǀ
prá nī́lapṛṣṭho atasásya dhāséstā́ avāsayatpurudhápratīkaḥ ǁ
ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām |
pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ ||
Padapāṭha
आ । सी॒म् । अ॒रो॒ह॒त् । सु॒ऽयमाः॑ । भव॑न्तीः । पतिः॑ । चि॒कि॒त्वान् । र॒यि॒ऽवित् । र॒यी॒णाम् ।
प्र । नील॑ऽपृष्ठः । अ॒त॒सस्य॑ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒धऽप्र॑तीकः ॥
आ । सीम् । अरोहत् । सुऽयमाः । भवन्तीः । पतिः । चिकित्वान् । रयिऽवित् । रयीणाम् ।
प्र । नीलऽपृष्ठः । अतसस्य । धासेः । ताः । अवासयत् । पुरुधऽप्रतीकः ॥
ā́ ǀ sīm ǀ arohat ǀ su-yámāḥ ǀ bhávantīḥ ǀ pátiḥ ǀ cikitvā́n ǀ rayi-vít ǀ rayīṇā́m ǀ
prá ǀ nī́la-pṛṣṭhaḥ ǀ atasásya ǀ dhāséḥ ǀ tā́ḥ ǀ avāsayat ǀ purudhá-pratīkaḥ ǁ
ā ǀ sīm ǀ arohat ǀ su-yamāḥ ǀ bhavantīḥ ǀ patiḥ ǀ cikitvān ǀ rayi-vit ǀ rayīṇām ǀ
pra ǀ nīla-pṛṣṭhaḥ ǀ atasasya ǀ dhāseḥ ǀ tāḥ ǀ avāsayat ǀ purudha-pratīkaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.007.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.01.03
- Maṇḍala · Anuvāka · Ṛk
- 03.01.085
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.