Sūkta 15
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Utkīla Kātya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 4); bhurikpaṅkti (3, 7); paṅktiḥ (2); virāṭtrisṭup (5); nicṛttriṣṭup (6)
2nd set of styles triṣṭubh
-
Ṛk 1
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ ॥वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः |
सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ||ví pā́jasā pṛthúnā śóśucāno bā́dhasva dviṣó rakṣáso ámīvāḥ ǀ
suśármaṇo bṛhatáḥ śármaṇi syāmagnérahám suhávasya práṇītau ǁvi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ |
suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau ||वि । पाज॑सा । पृ॒थुना॑ । शोशु॑चानः । बाध॑स्व । द्वि॒षः । र॒क्षसः॑ । अमी॑वाः ।
सु॒ऽशर्म॑णः । बृ॒ह॒तः । शर्म॑णि । स्या॒म् । अ॒ग्नेः । अ॒हम् । सु॒ऽहव॑स्य । प्रऽनी॑तौ ॥वि । पाजसा । पृथुना । शोशुचानः । बाधस्व । द्विषः । रक्षसः । अमीवाः ।
सुऽशर्मणः । बृहतः । शर्मणि । स्याम् । अग्नेः । अहम् । सुऽहवस्य । प्रऽनीतौ ॥ví ǀ pā́jasā ǀ pṛthúnā ǀ śóśucānaḥ ǀ bā́dhasva ǀ dviṣáḥ ǀ rakṣásaḥ ǀ ámīvāḥ ǀ
su-śármaṇaḥ ǀ bṛhatáḥ ǀ śármaṇi ǀ syām ǀ agnéḥ ǀ ahám ǀ su-hávasya ǀ prá-nītau ǁvi ǀ pājasā ǀ pṛthunā ǀ śośucānaḥ ǀ bādhasva ǀ dviṣaḥ ǀ rakṣasaḥ ǀ amīvāḥ ǀ
su-śarmaṇaḥ ǀ bṛhataḥ ǀ śarmaṇi ǀ syām ǀ agneḥ ǀ aham ǀ su-havasya ǀ pra-nītau ǁ3.15.1 Aṣṭaka 3.1.15.1Anuvāka 3.2.15
-
Ṛk 2
त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः ।
जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात ॥त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः |
जन्मेव नित्यं तनयं जुषस्व स्तोमम् मे अग्ने तन्वा सुजात ||tvám no asyā́ uṣáso vyúṣṭau tvám sū́ra údite bodhi gopā́ḥ ǀ
jánmeva nítyam tánayam juṣasva stómam me agne tanvā́ sujāta ǁtvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ |
janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta ||त्वम् । नः॒ । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । त्वम् । सूरे॑ । उत्ऽइ॑ते । बो॒धि॒ । गो॒पाः ।
जन्म॑ऽइव । नित्य॑म् । तन॑यम् । जु॒ष॒स्व॒ । स्तोम॑म् । मे॒ । अ॒ग्ने॒ । त॒न्वा॑ । सु॒ऽजा॒त॒ ॥त्वम् । नः । अस्याः । उषसः । विऽउष्टौ । त्वम् । सूरे । उत्ऽइते । बोधि । गोपाः ।
जन्मऽइव । नित्यम् । तनयम् । जुषस्व । स्तोमम् । मे । अग्ने । तन्वा । सुऽजात ॥tvám ǀ naḥ ǀ asyā́ḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ tvám ǀ sū́re ǀ út-ite ǀ bodhi ǀ gopā́ḥ ǀ
jánma-iva ǀ nítyam ǀ tánayam ǀ juṣasva ǀ stómam ǀ me ǀ agne ǀ tanvā́ ǀ su-jāta ǁtvam ǀ naḥ ǀ asyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ tvam ǀ sūre ǀ ut-ite ǀ bodhi ǀ gopāḥ ǀ
janma-iva ǀ nityam ǀ tanayam ǀ juṣasva ǀ stomam ǀ me ǀ agne ǀ tanvā ǀ su-jāta ǁ3.15.2 Aṣṭaka 3.1.15.2Anuvāka 3.2.16
-
Ṛk 3
त्वं नृ॒चक्षा॑ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा॑हि ।
वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो॑ रा॒य उ॒शिजो॑ यविष्ठ ॥त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो वि भाहि |
वसो नेषि च पर्षि चात्य् अंहः कृधी नो राय उशिजो यविष्ठ ||tvám nṛcákṣā vṛṣabhā́nu pūrvī́ḥ kṛṣṇā́svagne aruṣó ví bhāhi ǀ
váso néṣi ca párṣi cā́tyáṃhaḥ kṛdhī́ no rāyá uśíjo yaviṣṭha ǁtvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi |
vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha ||त्वम् । नृ॒ऽचक्षाः॑ । वृ॒ष॒भ॒ । अनु॑ । पू॒र्वीः । कृ॒ष्णासु॑ । अ॒ग्ने॒ । अ॒रु॒षः । वि । भा॒हि॒ ।
वसो॒ इति॑ । नेषि॑ । च॒ । पर्षि॑ । च॒ । अति॑ । अंहः॑ । कृ॒धि । नः॒ । रा॒ये । उ॒शिजः॑ । य॒वि॒ष्ठ॒ ॥त्वम् । नृऽचक्षाः । वृषभ । अनु । पूर्वीः । कृष्णासु । अग्ने । अरुषः । वि । भाहि ।
वसो इति । नेषि । च । पर्षि । च । अति । अंहः । कृधि । नः । राये । उशिजः । यविष्ठ ॥tvám ǀ nṛ-cákṣāḥ ǀ vṛṣabha ǀ ánu ǀ pūrvī́ḥ ǀ kṛṣṇā́su ǀ agne ǀ aruṣáḥ ǀ ví ǀ bhāhi ǀ
váso íti ǀ néṣi ǀ ca ǀ párṣi ǀ ca ǀ áti ǀ áṃhaḥ ǀ kṛdhí ǀ naḥ ǀ rāyé ǀ uśíjaḥ ǀ yaviṣṭha ǁtvam ǀ nṛ-cakṣāḥ ǀ vṛṣabha ǀ anu ǀ pūrvīḥ ǀ kṛṣṇāsu ǀ agne ǀ aruṣaḥ ǀ vi ǀ bhāhi ǀ
vaso iti ǀ neṣi ǀ ca ǀ parṣi ǀ ca ǀ ati ǀ aṃhaḥ ǀ kṛdhi ǀ naḥ ǀ rāye ǀ uśijaḥ ǀ yaviṣṭha ǁ3.15.3 Aṣṭaka 3.1.15.3Anuvāka 3.2.17
-
Ṛk 4
अषा॑ळ्हो अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् ।
य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ॥अषाऌहो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् |
यज्ञस्य नेता प्रथमस्य पायोर् जातवेदो बृहतः सुप्रणीते ||áṣāḷho agne vṛṣabhó didīhi púro víśvāḥ sáubhagā saṃjigīvā́n ǀ
yajñásya netā́ prathamásya pāyórjā́tavedo bṛhatáḥ supraṇīte ǁaṣāḷho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān |
yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte ||अषा॑ळ्हः । अ॒ग्ने॒ । वृ॒ष॒भः । दि॒दी॒हि॒ । पुरः॑ । विश्वाः॑ । सौभ॑गा । स॒म्ऽजि॒गी॒वान् ।
य॒ज्ञस्य॑ । ने॒ता । प्र॒थ॒मस्य॑ । पा॒योः । जात॑ऽवेदः । बृ॒ह॒तः । सु॒ऽप्र॒नी॒ते॒ ॥अषाळ्हः । अग्ने । वृषभः । दिदीहि । पुरः । विश्वाः । सौभगा । सम्ऽजिगीवान् ।
यज्ञस्य । नेता । प्रथमस्य । पायोः । जातऽवेदः । बृहतः । सुऽप्रनीते ॥áṣāḷhaḥ ǀ agne ǀ vṛṣabháḥ ǀ didīhi ǀ púraḥ ǀ víśvāḥ ǀ sáubhagā ǀ sam-jigīvā́n ǀ
yajñásya ǀ netā́ ǀ prathamásya ǀ pāyóḥ ǀ jā́ta-vedaḥ ǀ bṛhatáḥ ǀ su-pranīte ǁaṣāḷhaḥ ǀ agne ǀ vṛṣabhaḥ ǀ didīhi ǀ puraḥ ǀ viśvāḥ ǀ saubhagā ǀ sam-jigīvān ǀ
yajñasya ǀ netā ǀ prathamasya ǀ pāyoḥ ǀ jāta-vedaḥ ǀ bṛhataḥ ǀ su-pranīte ǁ3.15.4 Aṣṭaka 3.1.15.4Anuvāka 3.2.18
-
Ṛk 5
अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या॑नः सुमे॒धाः ।
रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके॑ ॥अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः |
रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वं रोदसी नः सुमेके ||ácchidrā śárma jaritaḥ purū́ṇi devā́m̐ ácchā dī́dyānaḥ sumedhā́ḥ ǀ
rátho ná sásnirabhí vakṣi vā́jamágne tvám ródasī naḥ suméke ǁacchidrā śarma jaritaḥ purūṇi devāṃ acchā dīdyānaḥ sumedhāḥ |
ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke ||अच्छि॑द्रा । शर्म॑ । ज॒रि॒त॒रिति॑ । पु॒रूणि॑ । दे॒वान् । अच्छ॑ । दीद्या॑नः । सु॒ऽमे॒धाः ।
रथः॑ । न । सस्निः॑ । अ॒भि । व॒क्षि॒ । वाज॑म् । अ॒ग्ने॒ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ॥अच्छिद्रा । शर्म । जरितरिति । पुरूणि । देवान् । अच्छ । दीद्यानः । सुऽमेधाः ।
रथः । न । सस्निः । अभि । वक्षि । वाजम् । अग्ने । त्वम् । रोदसी इति । नः । सुमेके इति सुऽमेके ॥ácchidrā ǀ śárma ǀ jaritaríti ǀ purū́ṇi ǀ devā́n ǀ áccha ǀ dī́dyānaḥ ǀ su-medhā́ḥ ǀ
ráthaḥ ǀ ná ǀ sásniḥ ǀ abhí ǀ vakṣi ǀ vā́jam ǀ agne ǀ tvám ǀ ródasī íti ǀ naḥ ǀ suméke íti su-méke ǁacchidrā ǀ śarma ǀ jaritariti ǀ purūṇi ǀ devān ǀ accha ǀ dīdyānaḥ ǀ su-medhāḥ ǀ
rathaḥ ǀ na ǀ sasniḥ ǀ abhi ǀ vakṣi ǀ vājam ǀ agne ǀ tvam ǀ rodasī iti ǀ naḥ ǀ sumeke iti su-meke ǁ3.15.5 Aṣṭaka 3.1.15.5Anuvāka 3.2.19
-
Ṛk 6
प्र पी॑पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे॑ ।
दे॒वेभि॑र्देव सु॒रुचा॑ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ॥प्र पीपय वृषभ जिन्व वाजान् अग्ने त्वं रोदसी नः सुदोघे |
देवेभिर् देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ||prá pīpaya vṛṣabha jínva vā́jānágne tvám ródasī naḥ sudóghe ǀ
devébhirdeva surúcā rucānó mā́ no mártasya durmatíḥ pári ṣṭhāt ǁpra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe |
devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt ||प्र । पी॒प॒य॒ । वृ॒ष॒भ॒ । जिन्व॑ । वाजा॑न् । अग्ने॑ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒दोघे॒ इति॑ सु॒ऽदोघे॑ ।
दे॒वेभिः॑ । दे॒व॒ । सु॒ऽरुचा॑ । रु॒चा॒नः । मा । नः॒ । मर्त॑स्य । दुः॒ऽम॒तिः । परि॑ । स्था॒त् ॥प्र । पीपय । वृषभ । जिन्व । वाजान् । अग्ने । त्वम् । रोदसी इति । नः । सुदोघे इति सुऽदोघे ।
देवेभिः । देव । सुऽरुचा । रुचानः । मा । नः । मर्तस्य । दुःऽमतिः । परि । स्थात् ॥prá ǀ pīpaya ǀ vṛṣabha ǀ jínva ǀ vā́jān ǀ ágne ǀ tvám ǀ ródasī íti ǀ naḥ ǀ sudóghe íti su-dóghe ǀ
devébhiḥ ǀ deva ǀ su-rúcā ǀ rucānáḥ ǀ mā́ ǀ naḥ ǀ mártasya ǀ duḥ-matíḥ ǀ pári ǀ sthāt ǁpra ǀ pīpaya ǀ vṛṣabha ǀ jinva ǀ vājān ǀ agne ǀ tvam ǀ rodasī iti ǀ naḥ ǀ sudoghe iti su-doghe ǀ
devebhiḥ ǀ deva ǀ su-rucā ǀ rucānaḥ ǀ mā ǀ naḥ ǀ martasya ǀ duḥ-matiḥ ǀ pari ǀ sthāt ǁ3.15.6 Aṣṭaka 3.1.15.6Anuvāka 3.2.20
-
Ṛk 7
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥इऌआम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध |
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ||íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁiḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।
स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ
syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁiḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ
syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ3.15.7 Aṣṭaka 3.1.15.7Anuvāka 3.2.21
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.