Ṛk 3.15.3
Saṃhitā
त्वं नृ॒चक्षा॑ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा॑हि ।
वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो॑ रा॒य उ॒शिजो॑ यविष्ठ ॥
त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो वि भाहि |
वसो नेषि च पर्षि चात्य् अंहः कृधी नो राय उशिजो यविष्ठ ||
tvám nṛcákṣā vṛṣabhā́nu pūrvī́ḥ kṛṣṇā́svagne aruṣó ví bhāhi ǀ
váso néṣi ca párṣi cā́tyáṃhaḥ kṛdhī́ no rāyá uśíjo yaviṣṭha ǁ
tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi |
vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha ||
Padapāṭha
त्वम् । नृ॒ऽचक्षाः॑ । वृ॒ष॒भ॒ । अनु॑ । पू॒र्वीः । कृ॒ष्णासु॑ । अ॒ग्ने॒ । अ॒रु॒षः । वि । भा॒हि॒ ।
वसो॒ इति॑ । नेषि॑ । च॒ । पर्षि॑ । च॒ । अति॑ । अंहः॑ । कृ॒धि । नः॒ । रा॒ये । उ॒शिजः॑ । य॒वि॒ष्ठ॒ ॥
त्वम् । नृऽचक्षाः । वृषभ । अनु । पूर्वीः । कृष्णासु । अग्ने । अरुषः । वि । भाहि ।
वसो इति । नेषि । च । पर्षि । च । अति । अंहः । कृधि । नः । राये । उशिजः । यविष्ठ ॥
tvám ǀ nṛ-cákṣāḥ ǀ vṛṣabha ǀ ánu ǀ pūrvī́ḥ ǀ kṛṣṇā́su ǀ agne ǀ aruṣáḥ ǀ ví ǀ bhāhi ǀ
váso íti ǀ néṣi ǀ ca ǀ párṣi ǀ ca ǀ áti ǀ áṃhaḥ ǀ kṛdhí ǀ naḥ ǀ rāyé ǀ uśíjaḥ ǀ yaviṣṭha ǁ
tvam ǀ nṛ-cakṣāḥ ǀ vṛṣabha ǀ anu ǀ pūrvīḥ ǀ kṛṣṇāsu ǀ agne ǀ aruṣaḥ ǀ vi ǀ bhāhi ǀ
vaso iti ǀ neṣi ǀ ca ǀ parṣi ǀ ca ǀ ati ǀ aṃhaḥ ǀ kṛdhi ǀ naḥ ǀ rāye ǀ uśijaḥ ǀ yaviṣṭha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.015.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.15.03
- Maṇḍala · Anuvāka · Ṛk
- 03.02.017
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Utkīla Kātya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.