Sūkta 1
- Devatā देवता
- 1, 6-20: Agni; 2-5: Agni Or Agni And Varuṇa
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Aṣṭi, Atijagatī, Dhṛti
Metres by ṛk
1st set of styles virāṭtrisṭup (7, 9, 15, 17, 19); nicṛttriṣṭup (8, 10-12, 16); svarāṭpaṅkti (5, 18, 20); bhurikpaṅkti (4, 6); triṣṭup (13, 14); svarāḍatiśakvarī (1); atijagatī (2); aṣṭiḥ (3)
2nd set of styles triṣṭubh (4-20); aṣṭi (1); atijagatī (2); dhṛti (3)
-
Ṛk 1
त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे ।
अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसं ॥त्वां ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिं न्येरिर इति क्रत्वा न्येरिरे |
अमर्त्यं यजत मर्त्येष्व् आ देवम् आदेवं जनत प्रचेतसं विश्वम् आदेवं जनत प्रचेतसम् ||tvā́m hyágne sádamítsamanyávo devā́so devámaratím nyerirá íti krátvā nyeriré ǀ
ámartyam yajata mártyeṣvā́ devámā́devam janata prácetasam víśvamā́devam janata prácetasam ǁtvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire |
amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam ||त्वाम् । हि । अ॒ग्ने॒ । सद॑म् । इत् । स॒ऽम॒न्यवः॑ । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे । इति॑ । क्रत्वा॑ । नि॒ऽए॒रि॒रे ।
अम॑र्त्यम् । य॒ज॒त॒ । मर्त्ये॑षु । आ । दे॒वम् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् । विश्व॑म् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् ॥त्वाम् । हि । अग्ने । सदम् । इत् । सऽमन्यवः । देवासः । देवम् । अरतिम् । निऽएरिरे । इति । क्रत्वा । निऽएरिरे ।
अमर्त्यम् । यजत । मर्त्येषु । आ । देवम् । आऽदेवम् । जनत । प्रऽचेतसम् । विश्वम् । आऽदेवम् । जनत । प्रऽचेतसम् ॥tvā́m ǀ hí ǀ agne ǀ sádam ǀ ít ǀ sa-manyávaḥ ǀ devā́saḥ ǀ devám ǀ aratím ǀ ni-eriré ǀ íti ǀ krátvā ǀ ni-eriré ǀ
ámartyam ǀ yajata ǀ mártyeṣu ǀ ā́ ǀ devám ǀ ā́-devam ǀ janata ǀ prá-cetasam ǀ víśvam ǀ ā́-devam ǀ janata ǀ prá-cetasam ǁtvām ǀ hi ǀ agne ǀ sadam ǀ it ǀ sa-manyavaḥ ǀ devāsaḥ ǀ devam ǀ aratim ǀ ni-erire ǀ iti ǀ kratvā ǀ ni-erire ǀ
amartyam ǀ yajata ǀ martyeṣu ǀ ā ǀ devam ǀ ā-devam ǀ janata ǀ pra-cetasam ǀ viśvam ǀ ā-devam ǀ janata ǀ pra-cetasam ǁ4.1.1 Aṣṭaka 3.4.12.1Anuvāka 4.1.1
-
Ṛk 2
स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसं ।
ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृतं॑ ॥स भ्रातरं वरुणम् अग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् |
ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ||sá bhrā́taram váruṇamagna ā́ vavṛtsva devā́m̐ ácchā sumatī́ yajñávanasam jyéṣṭham yajñávanasam ǀ
ṛtā́vānamādityám carṣaṇīdhṛ́tam rā́jānam carṣaṇīdhṛ́tam ǁsa bhrātaraṃ varuṇam agna ā vavṛtsva devāṃ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam |
ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam ||सः । भ्रात॑रम् । वरु॑णम् । अ॒ग्ने॒ । आ । व॒वृ॒त्स्व॒ । दे॒वान् । अच्छ॑ । सु॒ऽम॒ती । य॒ज्ञऽव॑नसम् । ज्येष्ठ॑म् । य॒ज्ञऽव॑नसम् ।
ऋ॒तऽवा॑नम् । आ॒दि॒त्यम् । च॒र्ष॒णि॒ऽधृत॑म् । राजा॑नम् । च॒र्ष॒णि॒ऽधृत॑म् ॥सः । भ्रातरम् । वरुणम् । अग्ने । आ । ववृत्स्व । देवान् । अच्छ । सुऽमती । यज्ञऽवनसम् । ज्येष्ठम् । यज्ञऽवनसम् ।
ऋतऽवानम् । आदित्यम् । चर्षणिऽधृतम् । राजानम् । चर्षणिऽधृतम् ॥sáḥ ǀ bhrā́taram ǀ váruṇam ǀ agne ǀ ā́ ǀ vavṛtsva ǀ devā́n ǀ áccha ǀ su-matī́ ǀ yajñá-vanasam ǀ jyéṣṭham ǀ yajñá-vanasam ǀ
ṛtá-vānam ǀ ādityám ǀ carṣaṇi-dhṛ́tam ǀ rā́jānam ǀ carṣaṇi-dhṛ́tam ǁsaḥ ǀ bhrātaram ǀ varuṇam ǀ agne ǀ ā ǀ vavṛtsva ǀ devān ǀ accha ǀ su-matī ǀ yajña-vanasam ǀ jyeṣṭham ǀ yajña-vanasam ǀ
ṛta-vānam ǀ ādityam ǀ carṣaṇi-dhṛtam ǀ rājānam ǀ carṣaṇi-dhṛtam ǁ4.1.2 Aṣṭaka 3.4.12.2Anuvāka 4.1.2
-
Ṛk 3
सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ ।
अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु ।
तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥सखे सखायम् अभ्य् आ ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या |
अग्ने मृऌईकं वरुणे सचा विदो मरुत्सु विश्वभानुषु |
तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं कृधि ||sákhe sákhāyamabhyā́ vavṛtsvāśúm ná cakrám ráthyeva ráṃhyāsmábhyam dasma ráṃhyā ǀ
ágne mṛḷīkám váruṇe sácā vido marútsu viśvábhānuṣu ǀ
tokā́ya tujé śuśucāna śám kṛdhyasmábhyam dasma śám kṛdhi ǁsakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā |
agne mṛḷīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu |
tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi ||सखे॑ । सखा॑यम् । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒शुम् । न । च॒क्रम् । रथ्या॑ऽइव । रंह्या॑ । अ॒स्मभ्य॑म् । द॒स्म॒ । रंह्या॑ ।
अग्ने॑ । मृ॒ळी॒कम् । वरु॑णे । सचा॑ । वि॒दः॒ । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ।
तो॒काय॑ । तु॒जे । शु॒शु॒चा॒न॒ । शम् । कृ॒धि॒ । अ॒स्मभ्य॑म् । द॒स्म॒ । शम् । कृ॒धि॒ ॥सखे । सखायम् । अभि । आ । ववृत्स्व । आशुम् । न । चक्रम् । रथ्याऽइव । रंह्या । अस्मभ्यम् । दस्म । रंह्या ।
अग्ने । मृळीकम् । वरुणे । सचा । विदः । मरुत्ऽसु । विश्वऽभानुषु ।
तोकाय । तुजे । शुशुचान । शम् । कृधि । अस्मभ्यम् । दस्म । शम् । कृधि ॥sákhe ǀ sákhāyam ǀ abhí ǀ ā́ ǀ vavṛtsva ǀ āśúm ǀ ná ǀ cakrám ǀ ráthyā-iva ǀ ráṃhyā ǀ asmábhyam ǀ dasma ǀ ráṃhyā ǀ
ágne ǀ mṛḷīkám ǀ váruṇe ǀ sácā ǀ vidaḥ ǀ marút-su ǀ viśvá-bhānuṣu ǀ
tokā́ya ǀ tujé ǀ śuśucāna ǀ śám ǀ kṛdhi ǀ asmábhyam ǀ dasma ǀ śám ǀ kṛdhi ǁsakhe ǀ sakhāyam ǀ abhi ǀ ā ǀ vavṛtsva ǀ āśum ǀ na ǀ cakram ǀ rathyā-iva ǀ raṃhyā ǀ asmabhyam ǀ dasma ǀ raṃhyā ǀ
agne ǀ mṛḷīkam ǀ varuṇe ǀ sacā ǀ vidaḥ ǀ marut-su ǀ viśva-bhānuṣu ǀ
tokāya ǀ tuje ǀ śuśucāna ǀ śam ǀ kṛdhi ǀ asmabhyam ǀ dasma ǀ śam ǀ kṛdhi ǁ4.1.3 Aṣṭaka 3.4.12.3Anuvāka 4.1.3
-
Ṛk 4
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वांदे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेऌओ ऽव यासिसीष्ठाः |
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्य् अस्मत् ||tvám no agne váruṇasya vidvā́ndevásya héḷó’va yāsisīṣṭhāḥ ǀ
yájiṣṭho váhnitamaḥ śóśucāno víśvā dvéṣāṃsi prá mumugdhyasmát ǁtvaṃ no agne varuṇasya vidvān devasya heḷo 'va yāsisīṣṭhāḥ |
yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhy asmat ||त्वम् । नः॒ । अ॒ग्ने॒ । वरु॑णस्य । वि॒द्वान् । दे॒वस्य॑ । हेळः॑ । अव॑ । या॒सि॒सी॒ष्ठाः॒ ।
यजि॑ष्ठः । वह्नि॑ऽतमः । शोशु॑चानः । विश्वा॑ । द्वेषां॑सि । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥त्वम् । नः । अग्ने । वरुणस्य । विद्वान् । देवस्य । हेळः । अव । यासिसीष्ठाः ।
यजिष्ठः । वह्निऽतमः । शोशुचानः । विश्वा । द्वेषांसि । प्र । मुमुग्धि । अस्मत् ॥tvám ǀ naḥ ǀ agne ǀ váruṇasya ǀ vidvā́n ǀ devásya ǀ héḷaḥ ǀ áva ǀ yāsisīṣṭhāḥ ǀ
yájiṣṭhaḥ ǀ váhni-tamaḥ ǀ śóśucānaḥ ǀ víśvā ǀ dvéṣāṃsi ǀ prá ǀ mumugdhi ǀ asmát ǁtvam ǀ naḥ ǀ agne ǀ varuṇasya ǀ vidvān ǀ devasya ǀ heḷaḥ ǀ ava ǀ yāsisīṣṭhāḥ ǀ
yajiṣṭhaḥ ǀ vahni-tamaḥ ǀ śośucānaḥ ǀ viśvā ǀ dveṣāṃsi ǀ pra ǀ mumugdhi ǀ asmat ǁ4.1.4 Aṣṭaka 3.4.12.4Anuvāka 4.1.4
-
Ṛk 5
स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि ॥स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ |
अव यक्ष्व नो वरुणं रराणो वीहि मृऌईकं सुहवो न एधि ||sá tvám no agne’vamó bhavotī́ nédiṣṭho asyā́ uṣáso vyúṣṭau ǀ
áva yakṣva no váruṇam rárāṇo vīhí mṛḷīkám suhávo na edhi ǁsa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau |
ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḷīkaṃ suhavo na edhi ||सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒व॒मः । भ॒व॒ । ऊ॒ती । नेदि॑ष्ठः । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ ।
अव॑ । य॒क्ष्व॒ । नः॒ । वरु॑णम् । ररा॑णः । वी॒हि । मृ॒ळी॒कम् । सु॒ऽहवः॑ । नः॒ । ए॒धि॒ ॥सः । त्वम् । नः । अग्ने । अवमः । भव । ऊती । नेदिष्ठः । अस्याः । उषसः । विऽउष्टौ ।
अव । यक्ष्व । नः । वरुणम् । रराणः । वीहि । मृळीकम् । सुऽहवः । नः । एधि ॥sáḥ ǀ tvám ǀ naḥ ǀ agne ǀ avamáḥ ǀ bhava ǀ ūtī́ ǀ nédiṣṭhaḥ ǀ asyā́ḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ
áva ǀ yakṣva ǀ naḥ ǀ váruṇam ǀ rárāṇaḥ ǀ vīhí ǀ mṛḷīkám ǀ su-hávaḥ ǀ naḥ ǀ edhi ǁsaḥ ǀ tvam ǀ naḥ ǀ agne ǀ avamaḥ ǀ bhava ǀ ūtī ǀ nediṣṭhaḥ ǀ asyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ
ava ǀ yakṣva ǀ naḥ ǀ varuṇam ǀ rarāṇaḥ ǀ vīhi ǀ mṛḷīkam ǀ su-havaḥ ǀ naḥ ǀ edhi ǁ4.1.5 Aṣṭaka 3.4.12.5Anuvāka 4.1.5
-
Ṛk 6
अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु ।
शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु |
शुचि घृतं न तप्तम् अघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ||asyá śréṣṭhā subhágasya saṃdṛ́gdevásya citrátamā mártyeṣu ǀ
śúci ghṛtám ná taptámághnyāyāḥ spārhā́ devásya maṃháneva dhenóḥ ǁasya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu |
śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ ||अ॒स्य । श्रेष्ठा॑ । सु॒ऽभग॑स्य । स॒म्ऽदृक् । दे॒वस्य॑ । चि॒त्रऽत॑मा । मर्त्ये॑षु ।
शुचि॑ । घृ॒तम् । न । त॒प्तम् । अघ्न्या॑याः । स्पा॒र्हा । दे॒वस्य॑ । मं॒हना॑ऽइव । धे॒नोः ॥अस्य । श्रेष्ठा । सुऽभगस्य । सम्ऽदृक् । देवस्य । चित्रऽतमा । मर्त्येषु ।
शुचि । घृतम् । न । तप्तम् । अघ्न्यायाः । स्पार्हा । देवस्य । मंहनाऽइव । धेनोः ॥asyá ǀ śréṣṭhā ǀ su-bhágasya ǀ sam-dṛ́k ǀ devásya ǀ citrá-tamā ǀ mártyeṣu ǀ
śúci ǀ ghṛtám ǀ ná ǀ taptám ǀ ághnyāyāḥ ǀ spārhā́ ǀ devásya ǀ maṃhánā-iva ǀ dhenóḥ ǁasya ǀ śreṣṭhā ǀ su-bhagasya ǀ sam-dṛk ǀ devasya ǀ citra-tamā ǀ martyeṣu ǀ
śuci ǀ ghṛtam ǀ na ǀ taptam ǀ aghnyāyāḥ ǀ spārhā ǀ devasya ǀ maṃhanā-iva ǀ dhenoḥ ǁ4.1.6 Aṣṭaka 3.4.13.1Anuvāka 4.1.6
-
Ṛk 7
त्रिर॑स्य॒ ता प॑र॒मा सं॑ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः ।
अ॒नं॒ते अं॒तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो अ॒र्यो रोरु॑चानः ॥त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः |
अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः ||trírasya tā́ paramā́ santi satyā́ spārhā́ devásya jánimānyagnéḥ ǀ
ananté antáḥ párivīta ā́gācchúciḥ śukró aryó rórucānaḥ ǁtrir asya tā paramā santi satyā spārhā devasya janimāny agneḥ |
anante antaḥ parivīta āgāc chuciḥ śukro aryo rorucānaḥ ||त्रिः । अ॒स्य॒ । ता । प॒र॒मा । स॒न्ति॒ । स॒त्या । स्पा॒र्हा । दे॒वस्य॑ । जनि॑मानि । अ॒ग्नेः ।
अ॒न॒न्ते । अ॒न्तरिति॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । शुचिः॑ । शु॒क्रः । अ॒र्यः । रोरु॑चानः ॥त्रिः । अस्य । ता । परमा । सन्ति । सत्या । स्पार्हा । देवस्य । जनिमानि । अग्नेः ।
अनन्ते । अन्तरिति । परिऽवीतः । आ । अगात् । शुचिः । शुक्रः । अर्यः । रोरुचानः ॥tríḥ ǀ asya ǀ tā́ ǀ paramā́ ǀ santi ǀ satyā́ ǀ spārhā́ ǀ devásya ǀ jánimāni ǀ agnéḥ ǀ
ananté ǀ antáríti ǀ pári-vītaḥ ǀ ā́ ǀ agāt ǀ śúciḥ ǀ śukráḥ ǀ aryáḥ ǀ rórucānaḥ ǁtriḥ ǀ asya ǀ tā ǀ paramā ǀ santi ǀ satyā ǀ spārhā ǀ devasya ǀ janimāni ǀ agneḥ ǀ
anante ǀ antariti ǀ pari-vītaḥ ǀ ā ǀ agāt ǀ śuciḥ ǀ śukraḥ ǀ aryaḥ ǀ rorucānaḥ ǁ4.1.7 Aṣṭaka 3.4.13.2Anuvāka 4.1.7
-
Ṛk 8
स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः ।
रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः |
रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ||sá dūtó víśvédabhí vaṣṭi sádmā hótā híraṇyaratho ráṃsujihvaḥ ǀ
rohídaśvo vapuṣyo vibhā́vā sádā raṇváḥ pitumátīva saṃsát ǁsa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ |
rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat ||सः । दू॒तः । विश्वा॑ । इत् । अ॒भि । व॒ष्टि॒ । सद्म॑ । होता॑ । हिर॑ण्यऽरथः । रम्ऽसु॑जिह्वः ।
रो॒हित्ऽअ॑श्वः । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । सदा॑ । र॒ण्वः । पि॒तु॒मती॑ऽइव । स॒म्ऽसत् ॥सः । दूतः । विश्वा । इत् । अभि । वष्टि । सद्म । होता । हिरण्यऽरथः । रम्ऽसुजिह्वः ।
रोहित्ऽअश्वः । वपुष्यः । विभाऽवा । सदा । रण्वः । पितुमतीऽइव । सम्ऽसत् ॥sáḥ ǀ dūtáḥ ǀ víśvā ǀ ít ǀ abhí ǀ vaṣṭi ǀ sádma ǀ hótā ǀ híraṇya-rathaḥ ǀ rám-sujihvaḥ ǀ
rohít-aśvaḥ ǀ vapuṣyáḥ ǀ vibhā́-vā ǀ sádā ǀ raṇváḥ ǀ pitumátī-iva ǀ sam-sát ǁsaḥ ǀ dūtaḥ ǀ viśvā ǀ it ǀ abhi ǀ vaṣṭi ǀ sadma ǀ hotā ǀ hiraṇya-rathaḥ ǀ ram-sujihvaḥ ǀ
rohit-aśvaḥ ǀ vapuṣyaḥ ǀ vibhā-vā ǀ sadā ǀ raṇvaḥ ǀ pitumatī-iva ǀ sam-sat ǁ4.1.8 Aṣṭaka 3.4.13.3Anuvāka 4.1.8
-
Ṛk 9
स चे॑तय॒न्मनु॑षो य॒ज्ञबं॑धुः॒ प्र तं म॒ह्या र॑श॒नया॑ नयंति ।
स क्षे॑त्यस्य॒ दुर्या॑सु॒ साधं॑दे॒वो मर्त॑स्य सधनि॒त्वमा॑प ॥स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति |
स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप ||sá cetayanmánuṣo yajñábandhuḥ prá tám mahyā́ raśanáyā nayanti ǀ
sá kṣetyasya dúryāsu sā́dhandevó martasya sadhanitvámāpa ǁsa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti |
sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa ||सः । चे॒त॒य॒त् । मनु॑षः । य॒ज्ञऽब॑न्धुः । प्र । तम् । म॒ह्या । र॒श॒नया॑ । न॒य॒न्ति॒ ।
सः । क्षे॒ति॒ । अ॒स्य॒ । दुर्या॑सु । साध॑न् । दे॒वः । मर्त॑स्य । स॒ध॒नि॒ऽत्वम् । आ॒प॒ ॥सः । चेतयत् । मनुषः । यज्ञऽबन्धुः । प्र । तम् । मह्या । रशनया । नयन्ति ।
सः । क्षेति । अस्य । दुर्यासु । साधन् । देवः । मर्तस्य । सधनिऽत्वम् । आप ॥sáḥ ǀ cetayat ǀ mánuṣaḥ ǀ yajñá-bandhuḥ ǀ prá ǀ tám ǀ mahyā́ ǀ raśanáyā ǀ nayanti ǀ
sáḥ ǀ kṣeti ǀ asya ǀ dúryāsu ǀ sā́dhan ǀ deváḥ ǀ mártasya ǀ sadhani-tvám ǀ āpa ǁsaḥ ǀ cetayat ǀ manuṣaḥ ǀ yajña-bandhuḥ ǀ pra ǀ tam ǀ mahyā ǀ raśanayā ǀ nayanti ǀ
saḥ ǀ kṣeti ǀ asya ǀ duryāsu ǀ sādhan ǀ devaḥ ǀ martasya ǀ sadhani-tvam ǀ āpa ǁ4.1.9 Aṣṭaka 3.4.13.4Anuvāka 4.1.9
-
Ṛk 10
स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य ।
धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्वं॒द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥स तू नो अग्निर् नयतु प्रजानन्न् अच्छा रत्नं देवभक्तं यद् अस्य |
धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन् ||sá tū́ no agnírnayatu prajānánnácchā rátnam devábhaktam yádasya ǀ
dhiyā́ yádvíśve amṛ́tā ákṛṇvandyáuṣpitā́ janitā́ satyámukṣan ǁsa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya |
dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan ||सः । तु । नः॒ । अ॒ग्निः । न॒य॒तु॒ । प्र॒ऽजा॒नन् । अच्छ॑ । रत्न॑म् । दे॒वऽभ॑क्तम् । यत् । अ॒स्य॒ ।
धि॒या । यत् । विश्वे॑ । अ॒मृताः॑ । अकृ॑ण्वन् । द्यौः । पि॒ता । ज॒नि॒ता । स॒त्यम् । उ॒क्ष॒न् ॥सः । तु । नः । अग्निः । नयतु । प्रऽजानन् । अच्छ । रत्नम् । देवऽभक्तम् । यत् । अस्य ।
धिया । यत् । विश्वे । अमृताः । अकृण्वन् । द्यौः । पिता । जनिता । सत्यम् । उक्षन् ॥sáḥ ǀ tú ǀ naḥ ǀ agníḥ ǀ nayatu ǀ pra-jānán ǀ áccha ǀ rátnam ǀ devá-bhaktam ǀ yát ǀ asya ǀ
dhiyā́ ǀ yát ǀ víśve ǀ amṛ́tāḥ ǀ ákṛṇvan ǀ dyáuḥ ǀ pitā́ ǀ janitā́ ǀ satyám ǀ ukṣan ǁsaḥ ǀ tu ǀ naḥ ǀ agniḥ ǀ nayatu ǀ pra-jānan ǀ accha ǀ ratnam ǀ deva-bhaktam ǀ yat ǀ asya ǀ
dhiyā ǀ yat ǀ viśve ǀ amṛtāḥ ǀ akṛṇvan ǀ dyauḥ ǀ pitā ǀ janitā ǀ satyam ǀ ukṣan ǁ4.1.10 Aṣṭaka 3.4.13.5Anuvāka 4.1.10
-
Ṛk 11
स जा॑यत प्रथ॒मः प॒स्त्या॑सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ।
अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अंता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ |
अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ||sá jāyata prathamáḥ pastyā́su mahó budhné rájaso asyá yónau ǀ
apā́daśīrṣā́ guhámāno ántāyóyuvāno vṛṣabhásya nīḷé ǁsa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau |
apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīḷe ||सः । जा॒य॒त॒ । प्र॒थ॒मः । प॒स्त्या॑सु । म॒हः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ ।
अ॒पात् । अ॒शी॒र्षा । गु॒हमा॑नः । अन्ता॑ । आ॒ऽयोयु॑वानः । वृ॒ष॒भस्य॑ । नी॒ळे ॥सः । जायत । प्रथमः । पस्त्यासु । महः । बुध्ने । रजसः । अस्य । योनौ ।
अपात् । अशीर्षा । गुहमानः । अन्ता । आऽयोयुवानः । वृषभस्य । नीळे ॥sáḥ ǀ jāyata ǀ prathamáḥ ǀ pastyā́su ǀ maháḥ ǀ budhné ǀ rájasaḥ ǀ asyá ǀ yónau ǀ
apā́t ǀ aśīrṣā́ ǀ guhámānaḥ ǀ ántā ǀ ā-yóyuvānaḥ ǀ vṛṣabhásya ǀ nīḷé ǁsaḥ ǀ jāyata ǀ prathamaḥ ǀ pastyāsu ǀ mahaḥ ǀ budhne ǀ rajasaḥ ǀ asya ǀ yonau ǀ
apāt ǀ aśīrṣā ǀ guhamānaḥ ǀ antā ǀ ā-yoyuvānaḥ ǀ vṛṣabhasya ǀ nīḷe ǁ4.1.11 Aṣṭaka 3.4.14.1Anuvāka 4.1.11
-
Ṛk 12
प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्यँ ऋ॒तस्य॒ योना॑ वृष॒भस्य॑ नी॒ळे ।
स्पा॒र्हो युवा॑ वपु॒ष्यो॑ वि॒भावा॑ स॒प्त प्रि॒यासो॑ऽजनयंत॒ वृष्णे॑ ॥प्र शर्ध आर्त प्रथमं विपन्यां ऋतस्य योना वृषभस्य नीळे |
स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे ||prá śárdha ārta prathamám vipanyám̐ ṛtásya yónā vṛṣabhásya nīḷé ǀ
spārhó yúvā vapuṣyó vibhā́vā saptá priyā́so’janayanta vṛ́ṣṇe ǁpra śardha ārta prathamaṃ vipanyāṃ ṛtasya yonā vṛṣabhasya nīḷe |
spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe ||प्र । शर्धः॑ । आ॒र्त॒ । प्र॒थ॒मम् । वि॒प॒न्या । ऋ॒तस्य॑ । योना॑ । वृ॒ष॒भस्य॑ । नी॒ळे ।
स्पा॒र्हः । युवा॑ । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । स॒प्त । प्रि॒यासः॑ । अ॒ज॒न॒य॒न्त॒ । वृष्णे॑ ॥प्र । शर्धः । आर्त । प्रथमम् । विपन्या । ऋतस्य । योना । वृषभस्य । नीळे ।
स्पार्हः । युवा । वपुष्यः । विभाऽवा । सप्त । प्रियासः । अजनयन्त । वृष्णे ॥prá ǀ śárdhaḥ ǀ ārta ǀ prathamám ǀ vipanyā́ ǀ ṛtásya ǀ yónā ǀ vṛṣabhásya ǀ nīḷé ǀ
spārháḥ ǀ yúvā ǀ vapuṣyáḥ ǀ vibhā́-vā ǀ saptá ǀ priyā́saḥ ǀ ajanayanta ǀ vṛ́ṣṇe ǁpra ǀ śardhaḥ ǀ ārta ǀ prathamam ǀ vipanyā ǀ ṛtasya ǀ yonā ǀ vṛṣabhasya ǀ nīḷe ǀ
spārhaḥ ǀ yuvā ǀ vapuṣyaḥ ǀ vibhā-vā ǀ sapta ǀ priyāsaḥ ǀ ajanayanta ǀ vṛṣṇe ǁ4.1.12 Aṣṭaka 3.4.14.2Anuvāka 4.1.12
-
Ṛk 13
अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुर्ऋ॒तमा॑शुषा॒णाः ।
अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अं॒तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः |
अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः ||asmā́kamátra pitáro manuṣyā́ abhí prá sedurṛtámāśuṣāṇā́ḥ ǀ
áśmavrajāḥ sudúghā vavré antárúdusrā́ ājannuṣáso huvānā́ḥ ǁasmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ |
aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ ||अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । म॒नु॒ष्याः॑ । अ॒भि । प्र । से॒दुः॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।
अश्म॑ऽव्रजाः । सु॒ऽदुघाः॑ । व॒व्रे । अ॒न्तः । उत् । उ॒स्राः । आ॒ज॒न् । उ॒षसः॑ । हु॒वा॒नाः ॥अस्माकम् । अत्र । पितरः । मनुष्याः । अभि । प्र । सेदुः । ऋतम् । आशुषाणाः ।
अश्मऽव्रजाः । सुऽदुघाः । वव्रे । अन्तः । उत् । उस्राः । आजन् । उषसः । हुवानाः ॥asmā́kam ǀ átra ǀ pitáraḥ ǀ manuṣyā́ḥ ǀ abhí ǀ prá ǀ seduḥ ǀ ṛtám ǀ āśuṣāṇā́ḥ ǀ
áśma-vrajāḥ ǀ su-dúghāḥ ǀ vavré ǀ antáḥ ǀ út ǀ usrā́ḥ ǀ ājan ǀ uṣásaḥ ǀ huvānā́ḥ ǁasmākam ǀ atra ǀ pitaraḥ ǀ manuṣyāḥ ǀ abhi ǀ pra ǀ seduḥ ǀ ṛtam ǀ āśuṣāṇāḥ ǀ
aśma-vrajāḥ ǀ su-dughāḥ ǀ vavre ǀ antaḥ ǀ ut ǀ usrāḥ ǀ ājan ǀ uṣasaḥ ǀ huvānāḥ ǁ4.1.13 Aṣṭaka 3.4.14.3Anuvāka 4.1.13
-
Ṛk 14
ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् ।
प॒श्वयं॑त्रासो अ॒भि का॒रम॑र्चन्वि॒दंत॒ ज्योति॑श्चकृ॒पंत॑ धी॒भिः ॥ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि वोचन् |
पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः ||té marmṛjata dadṛvā́ṃso ádrim tádeṣāmanyé abhíto ví vocan ǀ
paśváyantrāso abhí kārámarcanvidánta jyótiścakṛpánta dhībhíḥ ǁte marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan |
paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ ||ते । म॒र्मृ॒ज॒त॒ । द॒दृ॒ऽवांसः॑ । अद्रि॑म् । तत् । ए॒षा॒म् । अ॒न्ये । अ॒भितः॑ । वि । वो॒च॒न् ।
प॒श्वऽय॑न्त्रासः । अ॒भि । का॒रम् । अ॒र्च॒न् । वि॒दन्त॑ । ज्योतिः॑ । च॒कृ॒पन्त॑ । धी॒भिः ॥ते । मर्मृजत । ददृऽवांसः । अद्रिम् । तत् । एषाम् । अन्ये । अभितः । वि । वोचन् ।
पश्वऽयन्त्रासः । अभि । कारम् । अर्चन् । विदन्त । ज्योतिः । चकृपन्त । धीभिः ॥té ǀ marmṛjata ǀ dadṛ-vā́ṃsaḥ ǀ ádrim ǀ tát ǀ eṣām ǀ anyé ǀ abhítaḥ ǀ ví ǀ vocan ǀ
paśvá-yantrāsaḥ ǀ abhí ǀ kārám ǀ arcan ǀ vidánta ǀ jyótiḥ ǀ cakṛpánta ǀ dhībhíḥ ǁte ǀ marmṛjata ǀ dadṛ-vāṃsaḥ ǀ adrim ǀ tat ǀ eṣām ǀ anye ǀ abhitaḥ ǀ vi ǀ vocan ǀ
paśva-yantrāsaḥ ǀ abhi ǀ kāram ǀ arcan ǀ vidanta ǀ jyotiḥ ǀ cakṛpanta ǀ dhībhiḥ ǁ4.1.14 Aṣṭaka 3.4.14.4Anuvāka 4.1.14
-
Ṛk 15
ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षंत॒मद्रिं॑ ।
दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम् अद्रिम् |
दृऌहं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि वव्रुः ||té gavyatā́ mánasā dṛdhrámubdhám gā́ yemānám pári ṣántamádrim ǀ
dṛḷhám náro vácasā dáivyena vrajám gómantamuśíjo ví vavruḥ ǁte gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim |
dṛḷhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ ||ते । ग॒व्य॒ता । मन॑सा । दृ॒ध्रम् । उ॒ब्धम् । गाः । ये॒मा॒नम् । परि॑ । सन्त॑म् । अद्रि॑म् ।
दृ॒ळ्हम् । नरः॑ । वच॑सा । दैव्ये॑न । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥ते । गव्यता । मनसा । दृध्रम् । उब्धम् । गाः । येमानम् । परि । सन्तम् । अद्रिम् ।
दृळ्हम् । नरः । वचसा । दैव्येन । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥té ǀ gavyatā́ ǀ mánasā ǀ dṛdhrám ǀ ubdhám ǀ gā́ḥ ǀ yemānám ǀ pári ǀ sántam ǀ ádrim ǀ
dṛḷhám ǀ náraḥ ǀ vácasā ǀ dáivyena ǀ vrajám ǀ gó-mantam ǀ uśíjaḥ ǀ ví ǀ vavruḥ ǁte ǀ gavyatā ǀ manasā ǀ dṛdhram ǀ ubdham ǀ gāḥ ǀ yemānam ǀ pari ǀ santam ǀ adrim ǀ
dṛḷham ǀ naraḥ ǀ vacasā ǀ daivyena ǀ vrajam ǀ go-mantam ǀ uśijaḥ ǀ vi ǀ vavruḥ ǁ4.1.15 Aṣṭaka 3.4.14.5Anuvāka 4.1.15
-
Ṛk 16
ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विंदन् ।
तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् |
तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः ||té manvata prathamám nā́ma dhenóstríḥ saptá mātúḥ paramā́ṇi vindan ǀ
tájjānatī́rabhyánūṣata vrā́ āvírbhuvadaruṇī́ryaśásā góḥ ǁte manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan |
taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ ||ते । म॒न्व॒त॒ । प्र॒थ॒मम् । नाम॑ । धे॒नोः । त्रिः । स॒प्त । मा॒तुः । प॒र॒माणि॑ । वि॒न्द॒न् ।
तत् । जा॒न॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व्राः । आ॒विः । भु॒व॒त् । अ॒रु॒णीः । य॒शसा॑ । गोः ॥ते । मन्वत । प्रथमम् । नाम । धेनोः । त्रिः । सप्त । मातुः । परमाणि । विन्दन् ।
तत् । जानतीः । अभि । अनूषत । व्राः । आविः । भुवत् । अरुणीः । यशसा । गोः ॥té ǀ manvata ǀ prathamám ǀ nā́ma ǀ dhenóḥ ǀ tríḥ ǀ saptá ǀ mātúḥ ǀ paramā́ṇi ǀ vindan ǀ
tát ǀ jānatī́ḥ ǀ abhí ǀ anūṣata ǀ vrā́ḥ ǀ āvíḥ ǀ bhuvat ǀ aruṇī́ḥ ǀ yaśásā ǀ góḥ ǁte ǀ manvata ǀ prathamam ǀ nāma ǀ dhenoḥ ǀ triḥ ǀ sapta ǀ mātuḥ ǀ paramāṇi ǀ vindan ǀ
tat ǀ jānatīḥ ǀ abhi ǀ anūṣata ǀ vrāḥ ǀ āviḥ ǀ bhuvat ǀ aruṇīḥ ǀ yaśasā ǀ goḥ ǁ4.1.16 Aṣṭaka 3.4.15.1Anuvāka 4.1.16
-
Ṛk 17
नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो॑ भा॒नुर॑र्त ।
आ सूर्यो॑ बृह॒तस्ति॑ष्ठ॒दज्राँ॑ ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त |
आ सूर्यो बृहतस् तिष्ठद् अज्रां ऋजु मर्तेषु वृजिना च पश्यन् ||néśattámo dúdhitam rócata dyáurúddevyā́ uṣáso bhānúrarta ǀ
ā́ sū́ryo bṛhatástiṣṭhadájrām̐ ṛjú márteṣu vṛjinā́ ca páśyan ǁneśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta |
ā sūryo bṛhatas tiṣṭhad ajrāṃ ṛju marteṣu vṛjinā ca paśyan ||नेश॑त् । तमः॑ । दुधि॑तम् । रोच॑त । द्यौः । उत् । दे॒व्याः । उ॒षसः॑ । भा॒नुः । अ॒र्त॒ ।
आ । सूर्यः॑ । बृ॒ह॒तः । ति॒ष्ठ॒त् । अज्रा॑न् । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥नेशत् । तमः । दुधितम् । रोचत । द्यौः । उत् । देव्याः । उषसः । भानुः । अर्त ।
आ । सूर्यः । बृहतः । तिष्ठत् । अज्रान् । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥néśat ǀ támaḥ ǀ dúdhitam ǀ rócata ǀ dyáuḥ ǀ út ǀ devyā́ḥ ǀ uṣásaḥ ǀ bhānúḥ ǀ arta ǀ
ā́ ǀ sū́ryaḥ ǀ bṛhatáḥ ǀ tiṣṭhat ǀ ájrān ǀ ṛjú ǀ márteṣu ǀ vṛjinā́ ǀ ca ǀ páśyan ǁneśat ǀ tamaḥ ǀ dudhitam ǀ rocata ǀ dyauḥ ǀ ut ǀ devyāḥ ǀ uṣasaḥ ǀ bhānuḥ ǀ arta ǀ
ā ǀ sūryaḥ ǀ bṛhataḥ ǀ tiṣṭhat ǀ ajrān ǀ ṛju ǀ marteṣu ǀ vṛjinā ǀ ca ǀ paśyan ǁ4.1.17 Aṣṭaka 3.4.15.2Anuvāka 4.1.17
-
Ṛk 18
आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं॑ धारयंत॒ द्युभ॑क्तं ।
विश्वे॒ विश्वा॑सु॒ दुर्या॑सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ॥आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त द्युभक्तम् |
विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु ||ā́dítpaścā́ bubudhānā́ vyákhyannā́dídrátnam dhārayanta dyúbhaktam ǀ
víśve víśvāsu dúryāsu devā́ mítra dhiyé varuṇa satyámastu ǁād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam |
viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu ||आत् । इत् । प॒श्चा । बु॒बु॒धा॒नाः । वि । अ॒ख्य॒न् । आत् । इत् । रत्न॑म् । धा॒र॒य॒न्त॒ । द्युऽभ॑क्तम् ।
विश्वे॑ । विश्वा॑सु । दुर्या॑सु । दे॒वाः । मित्र॑ । धि॒ये । व॒रु॒ण॒ । स॒त्यम् । अ॒स्तु॒ ॥आत् । इत् । पश्चा । बुबुधानाः । वि । अख्यन् । आत् । इत् । रत्नम् । धारयन्त । द्युऽभक्तम् ।
विश्वे । विश्वासु । दुर्यासु । देवाः । मित्र । धिये । वरुण । सत्यम् । अस्तु ॥ā́t ǀ ít ǀ paścā́ ǀ bubudhānā́ḥ ǀ ví ǀ akhyan ǀ ā́t ǀ ít ǀ rátnam ǀ dhārayanta ǀ dyú-bhaktam ǀ
víśve ǀ víśvāsu ǀ dúryāsu ǀ devā́ḥ ǀ mítra ǀ dhiyé ǀ varuṇa ǀ satyám ǀ astu ǁāt ǀ it ǀ paścā ǀ bubudhānāḥ ǀ vi ǀ akhyan ǀ āt ǀ it ǀ ratnam ǀ dhārayanta ǀ dyu-bhaktam ǀ
viśve ǀ viśvāsu ǀ duryāsu ǀ devāḥ ǀ mitra ǀ dhiye ǀ varuṇa ǀ satyam ǀ astu ǁ4.1.18 Aṣṭaka 3.4.15.3Anuvāka 4.1.18
-
Ṛk 19
अच्छा॑ वोचेय शुशुचा॒नम॒ग्निं होता॑रं वि॒श्वभ॑रसं॒ यजि॑ष्ठं ।
शुच्यूधो॑ अतृण॒न्न गवा॒मंधो॒ न पू॒तं परि॑षिक्तमं॒शोः ॥अच्छा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं यजिष्ठम् |
शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अंशोः ||ácchā voceya śuśucānámagním hótāram viśvábharasam yájiṣṭham ǀ
śúcyū́dho atṛṇanná gávāmándho ná pūtám páriṣiktamaṃśóḥ ǁacchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham |
śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ ||अच्छ॑ । वो॒चे॒य॒ । शु॒शु॒चा॒नम् । अ॒ग्निम् । होता॑रम् । वि॒श्वऽभ॑रसम् । यजि॑ष्ठम् ।
शुचि॑ । ऊधः॑ । अ॒तृ॒ण॒त् । न । गवा॑म् । अन्धः॑ । न । पू॒तम् । परि॑ऽसिक्तम् । अं॒शोः ॥अच्छ । वोचेय । शुशुचानम् । अग्निम् । होतारम् । विश्वऽभरसम् । यजिष्ठम् ।
शुचि । ऊधः । अतृणत् । न । गवाम् । अन्धः । न । पूतम् । परिऽसिक्तम् । अंशोः ॥áccha ǀ voceya ǀ śuśucānám ǀ agním ǀ hótāram ǀ viśvá-bharasam ǀ yájiṣṭham ǀ
śúci ǀ ū́dhaḥ ǀ atṛṇat ǀ ná ǀ gávām ǀ ándhaḥ ǀ ná ǀ pūtám ǀ pári-siktam ǀ aṃśóḥ ǁaccha ǀ voceya ǀ śuśucānam ǀ agnim ǀ hotāram ǀ viśva-bharasam ǀ yajiṣṭham ǀ
śuci ǀ ūdhaḥ ǀ atṛṇat ǀ na ǀ gavām ǀ andhaḥ ǀ na ǀ pūtam ǀ pari-siktam ǀ aṃśoḥ ǁ4.1.19 Aṣṭaka 3.4.15.4Anuvāka 4.1.19
-
Ṛk 20
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणां ।
अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् |
अग्निर् देवानाम् अव आवृणानः सुमृऌईको भवतु जातवेदाः ||víśveṣāmáditiryajñíyānām víśveṣāmátithirmā́nuṣāṇām ǀ
agnírdevā́nāmáva āvṛṇānáḥ sumṛḷīkó bhavatu jātávedāḥ ǁviśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām |
agnir devānām ava āvṛṇānaḥ sumṛḷīko bhavatu jātavedāḥ ||विश्वे॑षाम् । अदि॑तिः । य॒ज्ञिया॑नाम् । विश्वे॑षाम् । अति॑थिः । मानु॑षाणाम् ।
अ॒ग्निः । दे॒वाना॑म् । अवः॑ । आ॒ऽवृ॒णा॒नः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । जा॒तऽवे॑दाः ॥विश्वेषाम् । अदितिः । यज्ञियानाम् । विश्वेषाम् । अतिथिः । मानुषाणाम् ।
अग्निः । देवानाम् । अवः । आऽवृणानः । सुऽमृळीकः । भवतु । जातऽवेदाः ॥víśveṣām ǀ áditiḥ ǀ yajñíyānām ǀ víśveṣām ǀ átithiḥ ǀ mā́nuṣāṇām ǀ
agníḥ ǀ devā́nām ǀ ávaḥ ǀ ā-vṛṇānáḥ ǀ su-mṛḷīkáḥ ǀ bhavatu ǀ jātá-vedāḥ ǁviśveṣām ǀ aditiḥ ǀ yajñiyānām ǀ viśveṣām ǀ atithiḥ ǀ mānuṣāṇām ǀ
agniḥ ǀ devānām ǀ avaḥ ǀ ā-vṛṇānaḥ ǀ su-mṛḷīkaḥ ǀ bhavatu ǀ jāta-vedāḥ ǁ4.1.20 Aṣṭaka 3.4.15.5Anuvāka 4.1.20
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.