Sūkta 19
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (3, 5, 8); nicṛttriṣṭup (2, 9); bhurikpaṅkti (4, 6); paṅktiḥ (7, 10); virāṭtrisṭup (1); nicṛtpaṅkti (11)
2nd set of styles triṣṭubh
-
Ṛk 1
ए॒वा त्वामिं॑द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वासः॑ सु॒हवा॑स॒ ऊमाः॑ ।
म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये॑ ॥एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः |
महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते वृत्रहत्ये ||evā́ tvā́mindra vajrinnátra víśve devā́saḥ suhávāsa ū́māḥ ǀ
mahā́mubhé ródasī vṛddhámṛṣvám nírékamídvṛṇate vṛtrahátye ǁevā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ |
mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye ||ए॒व । त्वाम् । इ॒न्द्र॒ । व॒ज्रि॒न् । अत्र॑ । विश्वे॑ । दे॒वासः॑ । सु॒ऽहवा॑सः । ऊमाः॑ ।
म॒हाम् । उ॒भे इति॑ । रोद॑सी॒ इति॑ । वृ॒द्धम् । ऋ॒ष्वम् । निः । एक॑म् । इत् । गृ॒ण॒ते॒ । वृ॒त्र॒ऽहत्ये॑ ॥एव । त्वाम् । इन्द्र । वज्रिन् । अत्र । विश्वे । देवासः । सुऽहवासः । ऊमाः ।
महाम् । उभे इति । रोदसी इति । वृद्धम् । ऋष्वम् । निः । एकम् । इत् । गृणते । वृत्रऽहत्ये ॥evá ǀ tvā́m ǀ indra ǀ vajrin ǀ átra ǀ víśve ǀ devā́saḥ ǀ su-hávāsaḥ ǀ ū́māḥ ǀ
mahā́m ǀ ubhé íti ǀ ródasī íti ǀ vṛddhám ǀ ṛṣvám ǀ níḥ ǀ ékam ǀ ít ǀ gṛṇate ǀ vṛtra-hátye ǁeva ǀ tvām ǀ indra ǀ vajrin ǀ atra ǀ viśve ǀ devāsaḥ ǀ su-havāsaḥ ǀ ūmāḥ ǀ
mahām ǀ ubhe iti ǀ rodasī iti ǀ vṛddham ǀ ṛṣvam ǀ niḥ ǀ ekam ǀ it ǀ gṛṇate ǀ vṛtra-hatye ǁ4.19.1 Aṣṭaka 3.6.1.1Anuvāka 4.2.88
-
Ṛk 2
अवा॑सृजंत॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळिं॑द्र स॒त्ययो॑निः ।
अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥अवासृजन्त जिव्रयो न देवा भुवः सम्राऌ इन्द्र सत्ययोनिः |
अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः ||ávāsṛjanta jívrayo ná devā́ bhúvaḥ samrā́ḷindra satyáyoniḥ ǀ
áhannáhim pariśáyānamárṇaḥ prá vartanī́rarado viśvádhenāḥ ǁavāsṛjanta jivrayo na devā bhuvaḥ samrāḷ indra satyayoniḥ |
ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ ||अव॑ । अ॒सृ॒ज॒न्त॒ । जिव्र॑यः । न । दे॒वाः । भुवः॑ । स॒म्ऽराट् । इ॒न्द्र॒ । स॒त्यऽयो॑निः ।
अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । प्र । व॒र्त॒नीः । अ॒र॒दः॒ । वि॒श्वऽधे॑नाः ॥अव । असृजन्त । जिव्रयः । न । देवाः । भुवः । सम्ऽराट् । इन्द्र । सत्यऽयोनिः ।
अहन् । अहिम् । परिऽशयानम् । अर्णः । प्र । वर्तनीः । अरदः । विश्वऽधेनाः ॥áva ǀ asṛjanta ǀ jívrayaḥ ǀ ná ǀ devā́ḥ ǀ bhúvaḥ ǀ sam-rā́ṭ ǀ indra ǀ satyá-yoniḥ ǀ
áhan ǀ áhim ǀ pari-śáyānam ǀ árṇaḥ ǀ prá ǀ vartanī́ḥ ǀ aradaḥ ǀ viśvá-dhenāḥ ǁava ǀ asṛjanta ǀ jivrayaḥ ǀ na ǀ devāḥ ǀ bhuvaḥ ǀ sam-rāṭ ǀ indra ǀ satya-yoniḥ ǀ
ahan ǀ ahim ǀ pari-śayānam ǀ arṇaḥ ǀ pra ǀ vartanīḥ ǀ aradaḥ ǀ viśva-dhenāḥ ǁ4.19.2 Aṣṭaka 3.6.1.2Anuvāka 4.2.89
-
Ṛk 3
अतृ॑प्णुवंतं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमिं॑द्र ।
स॒प्त प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण॒ वि रि॑णा अप॒र्वन् ॥अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम् इन्द्र |
सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन् ||átṛpṇuvantam víyatamabudhyámábudhyamānam suṣupāṇámindra ǀ
saptá práti praváta āśáyānamáhim vájreṇa ví riṇā aparván ǁatṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra |
sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan ||अतृ॑प्णुवन्तम् । विऽय॑तम् । अ॒बु॒ध्यम् । अबु॑ध्यमानम् । सु॒सु॒पा॒नम् । इ॒न्द्र॒ ।
स॒प्त । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । वि । रि॒णाः॒ । अ॒प॒र्वन् ॥अतृप्णुवन्तम् । विऽयतम् । अबुध्यम् । अबुध्यमानम् । सुसुपानम् । इन्द्र ।
सप्त । प्रति । प्रऽवतः । आऽशयानम् । अहिम् । वज्रेण । वि । रिणाः । अपर्वन् ॥átṛpṇuvantam ǀ ví-yatam ǀ abudhyám ǀ ábudhyamānam ǀ susupānám ǀ indra ǀ
saptá ǀ práti ǀ pra-vátaḥ ǀ ā-śáyānam ǀ áhim ǀ vájreṇa ǀ ví ǀ riṇāḥ ǀ aparván ǁatṛpṇuvantam ǀ vi-yatam ǀ abudhyam ǀ abudhyamānam ǀ susupānam ǀ indra ǀ
sapta ǀ prati ǀ pra-vataḥ ǀ ā-śayānam ǀ ahim ǀ vajreṇa ǀ vi ǀ riṇāḥ ǀ aparvan ǁ4.19.3 Aṣṭaka 3.6.1.3Anuvāka 4.2.90
-
Ṛk 4
अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिंद्रः॑ ।
दृ॒ळ्हान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत्क॒कुभः॒ पर्व॑तानां ॥अक्षोदयच् छवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर् इन्द्रः |
दृऌहान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम् ||ákṣodayacchávasā kṣā́ma budhnám vā́rṇá vā́tastáviṣībhiríndraḥ ǀ
dṛḷhā́nyaubhnāduśámāna ójó’vābhinatkakúbhaḥ párvatānām ǁakṣodayac chavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ |
dṛḷhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām ||अक्षो॑दयत् । शव॑सा । क्षाम॑ । बु॒ध्नम् । वाः । न । वातः॑ । तवि॑षीभिः । इन्द्रः॑ ।
दृ॒ळ्हानि॑ । औ॒भ्ना॒त् । उ॒शमा॑नः । ओजः॑ । अव॑ । अ॒भि॒न॒त् । क॒कुभः॑ । पर्व॑तानाम् ॥अक्षोदयत् । शवसा । क्षाम । बुध्नम् । वाः । न । वातः । तविषीभिः । इन्द्रः ।
दृळ्हानि । औभ्नात् । उशमानः । ओजः । अव । अभिनत् । ककुभः । पर्वतानाम् ॥ákṣodayat ǀ śávasā ǀ kṣā́ma ǀ budhnám ǀ vā́ḥ ǀ ná ǀ vā́taḥ ǀ táviṣībhiḥ ǀ índraḥ ǀ
dṛḷhā́ni ǀ aubhnāt ǀ uśámānaḥ ǀ ójaḥ ǀ áva ǀ abhinat ǀ kakúbhaḥ ǀ párvatānām ǁakṣodayat ǀ śavasā ǀ kṣāma ǀ budhnam ǀ vāḥ ǀ na ǀ vātaḥ ǀ taviṣībhiḥ ǀ indraḥ ǀ
dṛḷhāni ǀ aubhnāt ǀ uśamānaḥ ǀ ojaḥ ǀ ava ǀ abhinat ǀ kakubhaḥ ǀ parvatānām ǁ4.19.4 Aṣṭaka 3.6.1.4Anuvāka 4.2.91
-
Ṛk 5
अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः ।
अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मींत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम् अद्रयः |
अतर्पयो विसृत उब्ज ऊर्मीन् त्वं वृतां अरिणा इन्द्र सिन्धून् ||abhí prá dadrurjánayo ná gárbham ráthā iva prá yayuḥ sākámádrayaḥ ǀ
átarpayo visṛ́ta ubjá ūrmī́ntvám vṛtā́m̐ ariṇā indra síndhūn ǁabhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ |
atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṃ ariṇā indra sindhūn ||अ॒भि । प्र । द॒द्रुः॒ । जन॑यः । न । गर्भ॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒कम् । अद्र॑यः ।
अत॑र्पयः । वि॒ऽसृतः॑ । उ॒ब्जः । ऊ॒र्मीन् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥अभि । प्र । दद्रुः । जनयः । न । गर्भम् । रथाःऽइव । प्र । ययुः । साकम् । अद्रयः ।
अतर्पयः । विऽसृतः । उब्जः । ऊर्मीन् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥abhí ǀ prá ǀ dadruḥ ǀ jánayaḥ ǀ ná ǀ gárbham ǀ ráthāḥ-iva ǀ prá ǀ yayuḥ ǀ sākám ǀ ádrayaḥ ǀ
átarpayaḥ ǀ vi-sṛ́taḥ ǀ ubjáḥ ǀ ūrmī́n ǀ tvám ǀ vṛtā́n ǀ ariṇāḥ ǀ indra ǀ síndhūn ǁabhi ǀ pra ǀ dadruḥ ǀ janayaḥ ǀ na ǀ garbham ǀ rathāḥ-iva ǀ pra ǀ yayuḥ ǀ sākam ǀ adrayaḥ ǀ
atarpayaḥ ǀ vi-sṛtaḥ ǀ ubjaḥ ǀ ūrmīn ǀ tvam ǀ vṛtān ǀ ariṇāḥ ǀ indra ǀ sindhūn ǁ4.19.5 Aṣṭaka 3.6.1.5Anuvāka 4.2.92
-
Ṛk 6
त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षरं॑तीं ।
अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिंद्र॒ सिंधू॑न् ॥त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् |
अरमयो नमसैजद् अर्णः सुतरणां अकृणोर् इन्द्र सिन्धून् ||tvám mahī́mavánim viśvádhenām turvī́taye vayyā́ya kṣárantīm ǀ
áramayo námasáijadárṇaḥ sutaraṇā́m̐ akṛṇorindra síndhūn ǁtvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm |
aramayo namasaijad arṇaḥ sutaraṇāṃ akṛṇor indra sindhūn ||त्वम् । म॒हीम् । अ॒वनि॑म् । वि॒श्वऽधे॑नाम् । तु॒र्वीत॑ये । व॒य्या॑य । क्षर॑न्तीम् ।
अर॑मयः । नम॑सा । एज॑त् । अर्णः॑ । सु॒ऽत॒र॒णान् । अ॒कृ॒णोः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥त्वम् । महीम् । अवनिम् । विश्वऽधेनाम् । तुर्वीतये । वय्याय । क्षरन्तीम् ।
अरमयः । नमसा । एजत् । अर्णः । सुऽतरणान् । अकृणोः । इन्द्र । सिन्धून् ॥tvám ǀ mahī́m ǀ avánim ǀ viśvá-dhenām ǀ turvī́taye ǀ vayyā́ya ǀ kṣárantīm ǀ
áramayaḥ ǀ námasā ǀ éjat ǀ árṇaḥ ǀ su-taraṇā́n ǀ akṛṇoḥ ǀ indra ǀ síndhūn ǁtvam ǀ mahīm ǀ avanim ǀ viśva-dhenām ǀ turvītaye ǀ vayyāya ǀ kṣarantīm ǀ
aramayaḥ ǀ namasā ǀ ejat ǀ arṇaḥ ǀ su-taraṇān ǀ akṛṇoḥ ǀ indra ǀ sindhūn ǁ4.19.6 Aṣṭaka 3.6.2.1Anuvāka 4.2.93
-
Ṛk 7
प्राग्रुवो॑ नभ॒न्वो॒३॒॑ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद्युव॒तीर्ऋ॑त॒ज्ञाः ।
धन्वा॒न्यज्राँ॑ अपृणक्तृषा॒णाँ अधो॒गिंद्रः॑ स्त॒र्यो॒३॒॑ दंसु॑पत्नीः ॥प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः |
धन्वान्य् अज्रां अपृणक् तृषाणां अधोग् इन्द्र स्तर्यो दंसुपत्नीः ||prā́grúvo nabhanvó ná vákvā dhvasrā́ apinvadyuvatī́rṛtajñā́ḥ ǀ
dhánvānyájrām̐ apṛṇaktṛṣāṇā́m̐ ádhogíndraḥ staryó dáṃsupatnīḥ ǁprāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ |
dhanvāny ajrāṃ apṛṇak tṛṣāṇāṃ adhog indra staryo daṃsupatnīḥ ||प्र । अ॒ग्रुवः॑ । न॒भ॒न्वः॑ । न । वक्वाः॑ । ध्व॒स्राः । अ॒पि॒न्व॒त् । यु॒व॒तीः । ऋ॒त॒ऽज्ञाः ।
धन्वा॑नि । अज्रा॑न् । अ॒पृ॒ण॒क् । तृ॒षा॒णान् । अधो॑क् । इन्द्रः॑ । स्त॒र्यः॑ । दंऽसु॑पत्नीः ॥प्र । अग्रुवः । नभन्वः । न । वक्वाः । ध्वस्राः । अपिन्वत् । युवतीः । ऋतऽज्ञाः ।
धन्वानि । अज्रान् । अपृणक् । तृषाणान् । अधोक् । इन्द्रः । स्तर्यः । दंऽसुपत्नीः ॥prá ǀ agrúvaḥ ǀ nabhanváḥ ǀ ná ǀ vákvāḥ ǀ dhvasrā́ḥ ǀ apinvat ǀ yuvatī́ḥ ǀ ṛta-jñā́ḥ ǀ
dhánvāni ǀ ájrān ǀ apṛṇak ǀ tṛṣāṇā́n ǀ ádhok ǀ índraḥ ǀ staryáḥ ǀ dáṃ-supatnīḥ ǁpra ǀ agruvaḥ ǀ nabhanvaḥ ǀ na ǀ vakvāḥ ǀ dhvasrāḥ ǀ apinvat ǀ yuvatīḥ ǀ ṛta-jñāḥ ǀ
dhanvāni ǀ ajrān ǀ apṛṇak ǀ tṛṣāṇān ǀ adhok ǀ indraḥ ǀ staryaḥ ǀ daṃ-supatnīḥ ǁ4.19.7 Aṣṭaka 3.6.2.2Anuvāka 4.2.94
-
Ṛk 8
पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् ।
परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इंद्रः॒ स्रवि॑तवे पृथि॒व्या ॥पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं जघन्वां असृजद् वि सिन्धून् |
परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ||pūrvī́ruṣásaḥ śarádaśca gūrtā́ vṛtrám jaghanvā́m̐ asṛjadví síndhūn ǀ
páriṣṭhitā atṛṇadbadbadhānā́ḥ sīrā́ índraḥ srávitave pṛthivyā́ ǁpūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṃ asṛjad vi sindhūn |
pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā ||पू॒र्वीः । उ॒षसः॑ । श॒रदः॑ । च॒ । गू॒र्ताः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ।
परि॑ऽस्थिताः । अ॒तृ॒ण॒त् । ब॒द्ब॒धा॒नाः । सी॒राः । इन्द्रः॑ । स्रवि॑तवे । पृ॒थि॒व्या ॥पूर्वीः । उषसः । शरदः । च । गूर्ताः । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् ।
परिऽस्थिताः । अतृणत् । बद्बधानाः । सीराः । इन्द्रः । स्रवितवे । पृथिव्या ॥pūrvī́ḥ ǀ uṣásaḥ ǀ śarádaḥ ǀ ca ǀ gūrtā́ḥ ǀ vṛtrám ǀ jaghanvā́n ǀ asṛjat ǀ ví ǀ síndhūn ǀ
pári-sthitāḥ ǀ atṛṇat ǀ badbadhānā́ḥ ǀ sīrā́ḥ ǀ índraḥ ǀ srávitave ǀ pṛthivyā́ ǁpūrvīḥ ǀ uṣasaḥ ǀ śaradaḥ ǀ ca ǀ gūrtāḥ ǀ vṛtram ǀ jaghanvān ǀ asṛjat ǀ vi ǀ sindhūn ǀ
pari-sthitāḥ ǀ atṛṇat ǀ badbadhānāḥ ǀ sīrāḥ ǀ indraḥ ǀ sravitave ǀ pṛthivyā ǁ4.19.8 Aṣṭaka 3.6.2.3Anuvāka 4.2.95
-
Ṛk 9
व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ ।
व्यं१॒॑धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रंत॒ पर्व॑ ॥वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव आ जभर्थ |
व्य् अन्धो अख्यद् अहिम् आददानो निर् भूद् उखच्छित् सम् अरन्त पर्व ||vamrī́bhiḥ putrámagrúvo adānám nivéśanāddhariva ā́ jabhartha ǀ
vyándhó akhyadáhimādadānó nírbhūdukhacchítsámaranta párva ǁvamrībhiḥ putram agruvo adānaṃ niveśanād dhariva ā jabhartha |
vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva ||व॒म्रीभिः॑ । पु॒त्रम् । अ॒ग्रुवः॑ । अ॒दा॒नम् । नि॒ऽवेश॑नात् । ह॒रि॒ऽवः॒ । आ । ज॒भ॒र्थ॒ ।
वि । अ॒न्धः । अ॒ख्य॒त् । अहि॑म् । आ॒ऽद॒दा॒नः । निः । भू॒त् । उ॒ख॒ऽछित् । सम् । अ॒र॒न्त॒ । पर्व॑ ॥वम्रीभिः । पुत्रम् । अग्रुवः । अदानम् । निऽवेशनात् । हरिऽवः । आ । जभर्थ ।
वि । अन्धः । अख्यत् । अहिम् । आऽददानः । निः । भूत् । उखऽछित् । सम् । अरन्त । पर्व ॥vamrī́bhiḥ ǀ putrám ǀ agrúvaḥ ǀ adānám ǀ ni-véśanāt ǀ hari-vaḥ ǀ ā́ ǀ jabhartha ǀ
ví ǀ andháḥ ǀ akhyat ǀ áhim ǀ ā-dadānáḥ ǀ níḥ ǀ bhūt ǀ ukha-chít ǀ sám ǀ aranta ǀ párva ǁvamrībhiḥ ǀ putram ǀ agruvaḥ ǀ adānam ǀ ni-veśanāt ǀ hari-vaḥ ǀ ā ǀ jabhartha ǀ
vi ǀ andhaḥ ǀ akhyat ǀ ahim ǀ ā-dadānaḥ ǀ niḥ ǀ bhūt ǀ ukha-chit ǀ sam ǀ aranta ǀ parva ǁ4.19.9 Aṣṭaka 3.6.2.4Anuvāka 4.2.96
-
Ṛk 10
प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्रावि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि ।
यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्तापां॑सि राज॒न्नर्यावि॑वेषीः ॥प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि |
यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः ||prá te pū́rvāṇi káraṇāni viprāvidvā́m̐ āha vidúṣe kárāṃsi ǀ
yáthāyathā vṛ́ṣṇyāni svágūrtā́pāṃsi rājannáryā́viveṣīḥ ǁpra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi |
yathā-yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ ||प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वि॒प्र॒ । आ॒ऽवि॒द्वान् । आ॒ह॒ । वि॒दुषे॑ । करां॑सि ।
यथा॑ऽयथा । वृष्ण्या॑नि । स्वऽगू॑र्ता । अपां॑सि । रा॒ज॒न् । नर्या॑ । अवि॑वेषीः ॥प्र । ते । पूर्वाणि । करणानि । विप्र । आऽविद्वान् । आह । विदुषे । करांसि ।
यथाऽयथा । वृष्ण्यानि । स्वऽगूर्ता । अपांसि । राजन् । नर्या । अविवेषीः ॥prá ǀ te ǀ pū́rvāṇi ǀ káraṇāni ǀ vipra ǀ ā-vidvā́n ǀ āha ǀ vidúṣe ǀ kárāṃsi ǀ
yáthā-yathā ǀ vṛ́ṣṇyāni ǀ svá-gūrtā ǀ ápāṃsi ǀ rājan ǀ náryā ǀ áviveṣīḥ ǁpra ǀ te ǀ pūrvāṇi ǀ karaṇāni ǀ vipra ǀ ā-vidvān ǀ āha ǀ viduṣe ǀ karāṃsi ǀ
yathā-yathā ǀ vṛṣṇyāni ǀ sva-gūrtā ǀ apāṃsi ǀ rājan ǀ naryā ǀ aviveṣīḥ ǁ4.19.10 Aṣṭaka 3.6.2.5Anuvāka 4.2.97
-
Ṛk 11
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ||nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ
ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁnū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।
अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ
ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁnu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ
akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ4.19.11 Aṣṭaka 3.6.2.6Anuvāka 4.2.98
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.