Sūkta 48
- Devatā देवता
- Vāyu
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles bhuriganuṣṭup (3-5); nicṛdanuṣṭup (1); anuṣṭup (2)
2nd set of styles anuṣṭubh
-
Ṛk 1
वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः ।
वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥विहि होत्रा अवीता विपो न रायो अर्यः |
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ||vihí hótrā ávītā vípo ná rā́yo aryáḥ ǀ
vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ǁvihi hotrā avītā vipo na rāyo aryaḥ |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||वि॒हि । होत्रा॑ । अवी॑ताः । विपः॑ । न । रायः॑ । अ॒र्यः ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥विहि । होत्रा । अवीताः । विपः । न । रायः । अर्यः ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥vihí ǀ hótrā ǀ ávītāḥ ǀ vípaḥ ǀ ná ǀ rā́yaḥ ǀ aryáḥ ǀ
vā́yo íti ǀ ā́ ǀ candréṇa ǀ ráthena ǀ yāhí ǀ sutásya ǀ pītáye ǁvihi ǀ hotrā ǀ avītāḥ ǀ vipaḥ ǀ na ǀ rāyaḥ ǀ aryaḥ ǀ
vāyo iti ǀ ā ǀ candreṇa ǀ rathena ǀ yāhi ǀ sutasya ǀ pītaye ǁ4.48.1 Aṣṭaka 3.7.24.1Anuvāka 4.5.12
-
Ṛk 2
नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इंद्र॑सारथिः ।
वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥निर्युवाणो अशस्तीर् नियुत्वां इन्द्रसारथिः |
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ||niryuvāṇó áśastīrniyútvām̐ índrasārathiḥ ǀ
vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ǁniryuvāṇo aśastīr niyutvāṃ indrasārathiḥ |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||निः॒ऽयु॒वा॒नः । अश॑स्तीः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥निःऽयुवानः । अशस्तीः । नियुत्वान् । इन्द्रऽसारथिः ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥niḥ-yuvānáḥ ǀ áśastīḥ ǀ niyútvān ǀ índra-sārathiḥ ǀ
vā́yo íti ǀ ā́ ǀ candréṇa ǀ ráthena ǀ yāhí ǀ sutásya ǀ pītáye ǁniḥ-yuvānaḥ ǀ aśastīḥ ǀ niyutvān ǀ indra-sārathiḥ ǀ
vāyo iti ǀ ā ǀ candreṇa ǀ rathena ǀ yāhi ǀ sutasya ǀ pītaye ǁ4.48.2 Aṣṭaka 3.7.24.2Anuvāka 4.5.13
-
Ṛk 3
अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा ।
वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥अनु कृष्णे वसुधिती येमाते विश्वपेशसा |
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ||ánu kṛṣṇé vásudhitī yemā́te viśvápeśasā ǀ
vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ǁanu kṛṣṇe vasudhitī yemāte viśvapeśasā |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । ये॒माते॒ इति॑ । वि॒श्वऽपे॑शसा ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥अनु । कृष्णे इति । वसुधिती इति वसुऽधिती । येमाते इति । विश्वऽपेशसा ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥ánu ǀ kṛṣṇé íti ǀ vásudhitī íti vásu-dhitī ǀ yemā́te íti ǀ viśvá-peśasā ǀ
vā́yo íti ǀ ā́ ǀ candréṇa ǀ ráthena ǀ yāhí ǀ sutásya ǀ pītáye ǁanu ǀ kṛṣṇe iti ǀ vasudhitī iti vasu-dhitī ǀ yemāte iti ǀ viśva-peśasā ǀ
vāyo iti ǀ ā ǀ candreṇa ǀ rathena ǀ yāhi ǀ sutasya ǀ pītaye ǁ4.48.3 Aṣṭaka 3.7.24.3Anuvāka 4.5.14
-
Ṛk 4
वहं॑तु त्वा मनो॒युजो॑ यु॒क्तासो॑ नव॒तिर्नव॑ ।
वाय॒वा चं॒द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव |
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ||váhantu tvā manoyújo yuktā́so navatírnáva ǀ
vā́yavā́ candréṇa ráthena yāhí sutásya pītáye ǁvahantu tvā manoyujo yuktāso navatir nava |
vāyav ā candreṇa rathena yāhi sutasya pītaye ||वह॑न्तु । त्वा॒ । म॒नः॒ऽयुजः॑ । यु॒क्तासः॑ । न॒व॒तिः । नव॑ ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥वहन्तु । त्वा । मनःऽयुजः । युक्तासः । नवतिः । नव ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥váhantu ǀ tvā ǀ manaḥ-yújaḥ ǀ yuktā́saḥ ǀ navatíḥ ǀ náva ǀ
vā́yo íti ǀ ā́ ǀ candréṇa ǀ ráthena ǀ yāhí ǀ sutásya ǀ pītáye ǁvahantu ǀ tvā ǀ manaḥ-yujaḥ ǀ yuktāsaḥ ǀ navatiḥ ǀ nava ǀ
vāyo iti ǀ ā ǀ candreṇa ǀ rathena ǀ yāhi ǀ sutasya ǀ pītaye ǁ4.48.4 Aṣṭaka 3.7.24.4Anuvāka 4.5.15
-
Ṛk 5
वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णां ।
उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥वायो शतं हरीणां युवस्व पोष्याणाम् |
उत वा ते सहस्रिणो रथ आ यातु पाजसा ||vā́yo śatám hárīṇām yuvásva póṣyāṇām ǀ
utá vā te sahasríṇo rátha ā́ yātu pā́jasā ǁvāyo śataṃ harīṇāṃ yuvasva poṣyāṇām |
uta vā te sahasriṇo ratha ā yātu pājasā ||वायो॒ इति॑ । श॒तम् । हरी॑णाम् । यु॒वस्व॑ । पोष्या॑णाम् ।
उ॒त । वा॒ । ते॒ । स॒ह॒स्रिणः॑ । रथः॑ । आ । या॒तु॒ । पाज॑सा ॥वायो इति । शतम् । हरीणाम् । युवस्व । पोष्याणाम् ।
उत । वा । ते । सहस्रिणः । रथः । आ । यातु । पाजसा ॥vā́yo íti ǀ śatám ǀ hárīṇām ǀ yuvásva ǀ póṣyāṇām ǀ
utá ǀ vā ǀ te ǀ sahasríṇaḥ ǀ ráthaḥ ǀ ā́ ǀ yātu ǀ pā́jasā ǁvāyo iti ǀ śatam ǀ harīṇām ǀ yuvasva ǀ poṣyāṇām ǀ
uta ǀ vā ǀ te ǀ sahasriṇaḥ ǀ rathaḥ ǀ ā ǀ yātu ǀ pājasā ǁ4.48.5 Aṣṭaka 3.7.24.5Anuvāka 4.5.16
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.