Sūkta 14
- Devatā देवता
- 1: Agni Or Liṅgoktadevatāḥ; 2: Agni, Savitṛ, Sūrya; 3, 4: Agni, Uṣas; 5: Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4); bhurikpaṅkti (1); svarāṭpaṅkti (3); virāṭtrisṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः ।
आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः |
आ नासत्योरुगाया रथेनेमं यज्ञम् उप नो यातम् अच्छ ||prátyagníruṣáso jātávedā ákhyaddevó rócamānā máhobhiḥ ǀ
ā́ nāsatyorugāyā́ ráthenemám yajñámúpa no yātamáccha ǁpraty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ |
ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha ||प्रति॑ । अ॒ग्निः । उ॒षसः॑ । जा॒तऽवे॑दाः । अख्य॑त् । दे॒वः । रोच॑मानाः । महः॑ऽभिः ।
आ । ना॒स॒त्या॒ । उ॒रु॒ऽगा॒या । रथे॑न । इ॒मम् । य॒ज्ञम् । उप॑ । नः॒ । या॒त॒म् । अच्छ॑ ॥प्रति । अग्निः । उषसः । जातऽवेदाः । अख्यत् । देवः । रोचमानाः । महःऽभिः ।
आ । नासत्या । उरुऽगाया । रथेन । इमम् । यज्ञम् । उप । नः । यातम् । अच्छ ॥práti ǀ agníḥ ǀ uṣásaḥ ǀ jātá-vedāḥ ǀ ákhyat ǀ deváḥ ǀ rócamānāḥ ǀ máhaḥ-bhiḥ ǀ
ā́ ǀ nāsatyā ǀ uru-gāyā́ ǀ ráthena ǀ imám ǀ yajñám ǀ úpa ǀ naḥ ǀ yātam ǀ áccha ǁprati ǀ agniḥ ǀ uṣasaḥ ǀ jāta-vedāḥ ǀ akhyat ǀ devaḥ ǀ rocamānāḥ ǀ mahaḥ-bhiḥ ǀ
ā ǀ nāsatyā ǀ uru-gāyā ǀ rathena ǀ imam ǀ yajñam ǀ upa ǀ naḥ ǀ yātam ǀ accha ǁ4.14.1 Aṣṭaka 3.5.14.1Anuvāka 4.2.18
-
Ṛk 2
ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् ।
आप्रा॒ द्यावा॑पृथि॒वी अं॒तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥ऊर्ध्वं केतुं सविता देवो अश्रेज् ज्योतिर् विश्वस्मै भुवनाय कृण्वन् |
आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश् चेकितानः ||ūrdhvám ketúm savitā́ devó aśrejjyótirvíśvasmai bhúvanāya kṛṇván ǀ
ā́prā dyā́vāpṛthivī́ antárikṣam ví sū́ryo raśmíbhiścékitānaḥ ǁūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan |
āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitānaḥ ||ऊ॒र्ध्वम् । के॒तुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्वन् ।
आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । वि । सूर्यः॑ । र॒श्मिऽभिः॑ । चेकि॑तानः ॥ऊर्ध्वम् । केतुम् । सविता । देवः । अश्रेत् । ज्योतिः । विश्वस्मै । भुवनाय । कृण्वन् ।
आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । वि । सूर्यः । रश्मिऽभिः । चेकितानः ॥ūrdhvám ǀ ketúm ǀ savitā́ ǀ deváḥ ǀ aśret ǀ jyótiḥ ǀ víśvasmai ǀ bhúvanāya ǀ kṛṇván ǀ
ā́ ǀ aprāḥ ǀ dyā́vāpṛthivī́ íti ǀ antárikṣam ǀ ví ǀ sū́ryaḥ ǀ raśmí-bhiḥ ǀ cékitānaḥ ǁūrdhvam ǀ ketum ǀ savitā ǀ devaḥ ǀ aśret ǀ jyotiḥ ǀ viśvasmai ǀ bhuvanāya ǀ kṛṇvan ǀ
ā ǀ aprāḥ ǀ dyāvāpṛthivī iti ǀ antarikṣam ǀ vi ǀ sūryaḥ ǀ raśmi-bhiḥ ǀ cekitānaḥ ǁ4.14.2 Aṣṭaka 3.5.14.2Anuvāka 4.2.19
-
Ṛk 3
आ॒वहं॑त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना ।
प्र॒बो॒धयं॑ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश् चेकिताना |
प्रबोधयन्ती सुविताय देव्य् उषा ईयते सुयुजा रथेन ||āváhantyaruṇī́rjyótiṣā́gānmahī́ citrā́ raśmíbhiścékitānā ǀ
prabodháyantī suvitā́ya devyúṣā́ īyate suyújā ráthena ǁāvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā |
prabodhayantī suvitāya devy uṣā īyate suyujā rathena ||आ॒ऽवह॑न्ती । अ॒रु॒णीः । ज्योति॑षा । आ । अ॒गा॒त् । म॒ही । चि॒त्रा । र॒श्मिऽभिः॑ । चेकि॑ताना ।
प्र॒ऽबो॒धय॑न्ती । सु॒वि॒ताय॑ । दे॒वी । उ॒षाः । ई॒य॒ते॒ । सु॒ऽयुजा॑ । रथे॑न ॥आऽवहन्ती । अरुणीः । ज्योतिषा । आ । अगात् । मही । चित्रा । रश्मिऽभिः । चेकिताना ।
प्रऽबोधयन्ती । सुविताय । देवी । उषाः । ईयते । सुऽयुजा । रथेन ॥ā-váhantī ǀ aruṇī́ḥ ǀ jyótiṣā ǀ ā́ ǀ agāt ǀ mahī́ ǀ citrā́ ǀ raśmí-bhiḥ ǀ cékitānā ǀ
pra-bodháyantī ǀ suvitā́ya ǀ devī́ ǀ uṣā́ḥ ǀ īyate ǀ su-yújā ǀ ráthena ǁā-vahantī ǀ aruṇīḥ ǀ jyotiṣā ǀ ā ǀ agāt ǀ mahī ǀ citrā ǀ raśmi-bhiḥ ǀ cekitānā ǀ
pra-bodhayantī ǀ suvitāya ǀ devī ǀ uṣāḥ ǀ īyate ǀ su-yujā ǀ rathena ǁ4.14.3 Aṣṭaka 3.5.14.3Anuvāka 4.2.20
-
Ṛk 4
आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हंतु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ ।
इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथां ॥आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ |
इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम् ||ā́ vām váhiṣṭhā ihá té vahantu ráthā áśvāsa uṣáso vyúṣṭau ǀ
imé hí vām madhupéyāya sómā asmínyajñé vṛṣaṇā mādayethām ǁā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau |
ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām ||आ । वा॒म् । वहि॑ष्ठाः । इ॒ह । ते । व॒ह॒न्तु॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टौ ।
इ॒मे । हि । वा॒म् । म॒धु॒ऽपेया॑य । सोमाः॑ । अ॒स्मिन् । य॒ज्ञे । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् ॥आ । वाम् । वहिष्ठाः । इह । ते । वहन्तु । रथाः । अश्वासः । उषसः । विऽउष्टौ ।
इमे । हि । वाम् । मधुऽपेयाय । सोमाः । अस्मिन् । यज्ञे । वृषणा । मादयेथाम् ॥ā́ ǀ vām ǀ váhiṣṭhāḥ ǀ ihá ǀ té ǀ vahantu ǀ ráthāḥ ǀ áśvāsaḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ
imé ǀ hí ǀ vām ǀ madhu-péyāya ǀ sómāḥ ǀ asmín ǀ yajñé ǀ vṛṣaṇā ǀ mādayethām ǁā ǀ vām ǀ vahiṣṭhāḥ ǀ iha ǀ te ǀ vahantu ǀ rathāḥ ǀ aśvāsaḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ
ime ǀ hi ǀ vām ǀ madhu-peyāya ǀ somāḥ ǀ asmin ǀ yajñe ǀ vṛṣaṇā ǀ mādayethām ǁ4.14.4 Aṣṭaka 3.5.14.4Anuvāka 4.2.21
-
Ṛk 5
अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।
कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्कं॒भः समृ॑तः पाति॒ नाकं॑ ॥अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न |
कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ||ánāyato ánibaddhaḥ kathā́yám nyáṅṅuttānó’va padyate ná ǀ
káyā yāti svadháyā kó dadarśa diváḥ skambháḥ sámṛtaḥ pāti nā́kam ǁanāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |
kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam ||अना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न ।
कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥अनायतः । अनिऽबद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न ।
कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्ऽऋतः । पाति । नाकम् ॥ánāyataḥ ǀ áni-baddhaḥ ǀ kathā́ ǀ ayám ǀ nyáṅ ǀ uttānáḥ ǀ áva ǀ padyate ǀ ná ǀ
káyā ǀ yāti ǀ svadháyā ǀ káḥ ǀ dadarśa ǀ diváḥ ǀ skambháḥ ǀ sám-ṛtaḥ ǀ pāti ǀ nā́kam ǁanāyataḥ ǀ ani-baddhaḥ ǀ kathā ǀ ayam ǀ nyaṅ ǀ uttānaḥ ǀ ava ǀ padyate ǀ na ǀ
kayā ǀ yāti ǀ svadhayā ǀ kaḥ ǀ dadarśa ǀ divaḥ ǀ skambhaḥ ǀ sam-ṛtaḥ ǀ pāti ǀ nākam ǁ4.14.5 Aṣṭaka 3.5.14.5Anuvāka 4.2.22
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.