Sūkta 28
- Devatā देवता
- 1, 2, 5: Indra, Soma; 3, 4: Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1); bhurikpaṅkti (2); virāṭtrisṭup (3); triṣṭup (4); paṅktiḥ (5)
2nd set of styles triṣṭubh
-
Ṛk 1
त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इंद्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः ।
अह॒न्नहि॒मरि॑णात्स॒प्त सिंधू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः |
अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि ||tvā́ yujā́ táva tátsoma sakhyá índro apó mánave sasrútaskaḥ ǀ
áhannáhimáriṇātsaptá síndhūnápāvṛṇodápihiteva khā́ni ǁtvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ |
ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni ||त्वा । यु॒जा । तव॑ । तत् । सो॒म॒ । स॒ख्ये । इन्द्रः॑ । अ॒पः । मन॑वे । स॒ऽस्रुतः॑ । क॒रिति॑ कः ।
अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । अप॑ । अ॒वृ॒णो॒त् । अपि॑हिताऽइव । खानि॑ ॥त्वा । युजा । तव । तत् । सोम । सख्ये । इन्द्रः । अपः । मनवे । सऽस्रुतः । करिति कः ।
अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । अप । अवृणोत् । अपिहिताऽइव । खानि ॥tvā́ ǀ yujā́ ǀ táva ǀ tát ǀ soma ǀ sakhyé ǀ índraḥ ǀ apáḥ ǀ mánave ǀ sa-srútaḥ ǀ karíti kaḥ ǀ
áhan ǀ áhim ǀ áriṇāt ǀ saptá ǀ síndhūn ǀ ápa ǀ avṛṇot ǀ ápihitā-iva ǀ khā́ni ǁtvā ǀ yujā ǀ tava ǀ tat ǀ soma ǀ sakhye ǀ indraḥ ǀ apaḥ ǀ manave ǀ sa-srutaḥ ǀ kariti kaḥ ǀ
ahan ǀ ahim ǀ ariṇāt ǀ sapta ǀ sindhūn ǀ apa ǀ avṛṇot ǀ apihitā-iva ǀ khāni ǁ4.28.1 Aṣṭaka 3.6.17.1Anuvāka 4.3.54
-
Ṛk 2
त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येंद्र॑श्च॒क्रं सह॑सा स॒द्य इं॑दो ।
अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो |
अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि ||tvā́ yujā́ ní khidatsū́ryasyéndraścakrám sáhasā sadyá indo ǀ
ádhi ṣṇúnā bṛhatā́ vártamānam mahó druhó ápa viśvā́yu dhāyi ǁtvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo |
adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi ||त्वा । यु॒जा । नि । खि॒द॒त् । सूर्य॑स्य । इन्द्रः॑ । च॒क्रम् । सह॑सा । स॒द्यः । इ॒न्दो॒ इति॑ ।
अधि॑ । स्नुना॑ । बृ॒ह॒ता । वर्त॑मानम् । म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ ॥त्वा । युजा । नि । खिदत् । सूर्यस्य । इन्द्रः । चक्रम् । सहसा । सद्यः । इन्दो इति ।
अधि । स्नुना । बृहता । वर्तमानम् । महः । द्रुहः । अप । विश्वऽआयु । धायि ॥tvā́ ǀ yujā́ ǀ ní ǀ khidat ǀ sū́ryasya ǀ índraḥ ǀ cakrám ǀ sáhasā ǀ sadyáḥ ǀ indo íti ǀ
ádhi ǀ snúnā ǀ bṛhatā́ ǀ vártamānam ǀ maháḥ ǀ druháḥ ǀ ápa ǀ viśvá-āyu ǀ dhāyi ǁtvā ǀ yujā ǀ ni ǀ khidat ǀ sūryasya ǀ indraḥ ǀ cakram ǀ sahasā ǀ sadyaḥ ǀ indo iti ǀ
adhi ǀ snunā ǀ bṛhatā ǀ vartamānam ǀ mahaḥ ǀ druhaḥ ǀ apa ǀ viśva-āyu ǀ dhāyi ǁ4.28.2 Aṣṭaka 3.6.17.2Anuvāka 4.3.55
-
Ṛk 3
अह॒न्निंद्रो॒ अद॑हद॒ग्निरिं॑दो पु॒रा दस्यू॑न्म॒ध्यंदि॑नाद॒भीके॑ ।
दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यन्दिनाद् अभीके |
दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत् ||áhanníndro ádahadagnírindo purā́ dásyūnmadhyáṃdinādabhī́ke ǀ
durgé duroṇé krátvā ná yātā́m purū́ sahásrā śárvā ní barhīt ǁahann indro adahad agnir indo purā dasyūn madhyandinād abhīke |
durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt ||अह॑न् । इन्द्रः॑ । अद॑हत् । अ॒ग्निः । इ॒न्दो॒ इति॑ । पु॒रा । दस्यू॑न् । म॒ध्यन्दि॑नात् । अ॒भीके॑ ।
दुः॒ऽगे । दु॒रो॒णे । क्रत्वा॑ । न । या॒ताम् । पु॒रु । स॒हस्रा॑ । शर्वा॑ । नि । ब॒र्ही॒त् ॥अहन् । इन्द्रः । अदहत् । अग्निः । इन्दो इति । पुरा । दस्यून् । मध्यन्दिनात् । अभीके ।
दुःऽगे । दुरोणे । क्रत्वा । न । याताम् । पुरु । सहस्रा । शर्वा । नि । बर्हीत् ॥áhan ǀ índraḥ ǀ ádahat ǀ agníḥ ǀ indo íti ǀ purā́ ǀ dásyūn ǀ madhyándināt ǀ abhī́ke ǀ
duḥ-gé ǀ duroṇé ǀ krátvā ǀ ná ǀ yātā́m ǀ purú ǀ sahásrā ǀ śárvā ǀ ní ǀ barhīt ǁahan ǀ indraḥ ǀ adahat ǀ agniḥ ǀ indo iti ǀ purā ǀ dasyūn ǀ madhyandināt ǀ abhīke ǀ
duḥ-ge ǀ duroṇe ǀ kratvā ǀ na ǀ yātām ǀ puru ǀ sahasrā ǀ śarvā ǀ ni ǀ barhīt ǁ4.28.3 Aṣṭaka 3.6.17.3Anuvāka 4.3.56
-
Ṛk 4
विश्व॑स्मात्सीमध॒माँ इं॑द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः ।
अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नविं॑देथा॒मप॑चितिं॒ वध॑त्रैः ॥विश्वस्मात् सीम् अधमां इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः |
अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं वधत्रैः ||víśvasmātsīmadhamā́m̐ indra dásyūnvíśo dā́sīrakṛṇorapraśastā́ḥ ǀ
ábādhethāmámṛṇatam ní śátrūnávindethāmápacitim vádhatraiḥ ǁviśvasmāt sīm adhamāṃ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ |
abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ ||विश्व॑स्मात् । सी॒म् । अ॒ध॒मान् । इ॒न्द्र॒ । दस्यू॑न् । विशः॑ । दासीः॑ । अ॒कृ॒णोः॒ । अ॒प्र॒ऽश॒स्ताः ।
अबा॑धेथाम् । अमृ॑णतम् । नि । शत्रू॑न् । अवि॑न्देथाम् । अप॑ऽचितिम् । वध॑त्रैः ॥विश्वस्मात् । सीम् । अधमान् । इन्द्र । दस्यून् । विशः । दासीः । अकृणोः । अप्रऽशस्ताः ।
अबाधेथाम् । अमृणतम् । नि । शत्रून् । अविन्देथाम् । अपऽचितिम् । वधत्रैः ॥víśvasmāt ǀ sīm ǀ adhamā́n ǀ indra ǀ dásyūn ǀ víśaḥ ǀ dā́sīḥ ǀ akṛṇoḥ ǀ apra-śastā́ḥ ǀ
ábādhethām ǀ ámṛṇatam ǀ ní ǀ śátrūn ǀ ávindethām ǀ ápa-citim ǀ vádhatraiḥ ǁviśvasmāt ǀ sīm ǀ adhamān ǀ indra ǀ dasyūn ǀ viśaḥ ǀ dāsīḥ ǀ akṛṇoḥ ǀ apra-śastāḥ ǀ
abādhethām ǀ amṛṇatam ǀ ni ǀ śatrūn ǀ avindethām ǀ apa-citim ǀ vadhatraiḥ ǁ4.28.4 Aṣṭaka 3.6.17.4Anuvāka 4.3.57
-
Ṛk 5
ए॒वा स॒त्यं म॑घवाना यु॒वं तदिंद्र॑श्च सोमो॒र्वमश्व्यं॒ गोः ।
आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ॥एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः |
आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना ||evā́ satyám maghavānā yuvám tádíndraśca somorvámáśvyam góḥ ǀ
ā́dardṛtamápihitānyáśnā riricáthuḥ kṣā́ścittatṛdānā́ ǁevā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ |
ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā ||ए॒व । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वम् । तत् । इन्द्रः॑ । च॒ । सो॒म॒ । ऊ॒र्वम् । अश्व्य॑म् । गोः ।
आ । अ॒द॒र्दृ॒त॒म् । अपि॑ऽहितानि । अश्ना॑ । रि॒रि॒चथुः॑ । क्षाः । चि॒त् । त॒तृ॒दा॒ना ॥एव । सत्यम् । मघऽवाना । युवम् । तत् । इन्द्रः । च । सोम । ऊर्वम् । अश्व्यम् । गोः ।
आ । अदर्दृतम् । अपिऽहितानि । अश्ना । रिरिचथुः । क्षाः । चित् । ततृदाना ॥evá ǀ satyám ǀ magha-vānā ǀ yuvám ǀ tát ǀ índraḥ ǀ ca ǀ soma ǀ ūrvám ǀ áśvyam ǀ góḥ ǀ
ā́ ǀ adardṛtam ǀ ápi-hitāni ǀ áśnā ǀ riricáthuḥ ǀ kṣā́ḥ ǀ cit ǀ tatṛdānā́ ǁeva ǀ satyam ǀ magha-vānā ǀ yuvam ǀ tat ǀ indraḥ ǀ ca ǀ soma ǀ ūrvam ǀ aśvyam ǀ goḥ ǀ
ā ǀ adardṛtam ǀ api-hitāni ǀ aśnā ǀ riricathuḥ ǀ kṣāḥ ǀ cit ǀ tatṛdānā ǁ4.28.5 Aṣṭaka 3.6.17.5Anuvāka 4.3.58
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.