Ṛgveda · Maṇḍala 4

Sūkta 50

Bṛhaspati · Indra, Bṛhaspati · Vāmadeva Gautama · 11 ṛks

Link
Devatā देवता
1-9: Bṛhaspati; 10, 11: Indra, Bṛhaspati
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh, Jagatī
Metres by ṛk

1st set of styles nicṛttriṣṭup (1-3, 6, 7, 9); virāṭtrisṭup (4, 5, 11); triṣṭup (8, 10)

2nd set of styles triṣṭubh (1-9, 11); jagatī (10)

  1. Ṛk 1

    यस्त॒स्तंभ॒ सह॑सा॒ वि ज्मो अंता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण ।
    तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे मं॒द्रजि॑ह्वं ॥

    यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण |
    तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ||

    yástastámbha sáhasā ví jmó ántānbṛ́haspátistriṣadhasthó ráveṇa ǀ
    tám pratnā́sa ṛ́ṣayo dī́dhyānāḥ puró víprā dadhire mandrájihvam ǁ

    yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa |
    tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ||

    यः । त॒स्तम्भ॑ । सह॑सा । वि । ज्मः । अन्ता॑न् । बृह॒स्पतिः॑ । त्रि॒ऽस॒ध॒स्थः । रवे॑ण ।
    तम् । प्र॒त्नासः॑ । ऋष॑यः । दीध्या॑नाः । पु॒रः । विप्राः॑ । द॒धि॒रे॒ । म॒न्द्रऽजि॑ह्वम् ॥

    यः । तस्तम्भ । सहसा । वि । ज्मः । अन्तान् । बृहस्पतिः । त्रिऽसधस्थः । रवेण ।
    तम् । प्रत्नासः । ऋषयः । दीध्यानाः । पुरः । विप्राः । दधिरे । मन्द्रऽजिह्वम् ॥

    yáḥ ǀ tastámbha ǀ sáhasā ǀ ví ǀ jmáḥ ǀ ántān ǀ bṛ́haspátiḥ ǀ tri-sadhastháḥ ǀ ráveṇa ǀ
    tám ǀ pratnā́saḥ ǀ ṛ́ṣayaḥ ǀ dī́dhyānāḥ ǀ puráḥ ǀ víprāḥ ǀ dadhire ǀ mandrá-jihvam ǁ

    yaḥ ǀ tastambha ǀ sahasā ǀ vi ǀ jmaḥ ǀ antān ǀ bṛhaspatiḥ ǀ tri-sadhasthaḥ ǀ raveṇa ǀ
    tam ǀ pratnāsaḥ ǀ ṛṣayaḥ ǀ dīdhyānāḥ ǀ puraḥ ǀ viprāḥ ǀ dadhire ǀ mandra-jihvam ǁ

    4.50.1 Aṣṭaka 3.7.26.1Anuvāka 4.5.23

  2. Ṛk 2

    धु॒नेत॑यः सुप्रके॒तं मदं॑तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे ।
    पृषं॑तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनिं॑ ॥

    धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे |
    पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम् ||

    dhunétayaḥ supraketám mádanto bṛ́haspate abhí yé nastatasré ǀ
    pṛ́ṣantam sṛprámádabdhamūrvám bṛ́haspate rákṣatādasya yónim ǁ

    dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre |
    pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim ||

    धु॒नऽइ॑तयः । सु॒ऽप्र॒के॒तम् । मद॑न्तः । बृह॑स्पते । अ॒भि । ये । नः॒ । त॒त॒स्रे ।
    पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑तात् । अ॒स्य॒ । योनि॑म् ॥

    धुनऽइतयः । सुऽप्रकेतम् । मदन्तः । बृहस्पते । अभि । ये । नः । ततस्रे ।
    पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षतात् । अस्य । योनिम् ॥

    dhuná-itayaḥ ǀ su-praketám ǀ mádantaḥ ǀ bṛ́haspate ǀ abhí ǀ yé ǀ naḥ ǀ tatasré ǀ
    pṛ́ṣantam ǀ sṛprám ǀ ádabdham ǀ ūrvám ǀ bṛ́haspate ǀ rákṣatāt ǀ asya ǀ yónim ǁ

    dhuna-itayaḥ ǀ su-praketam ǀ madantaḥ ǀ bṛhaspate ǀ abhi ǀ ye ǀ naḥ ǀ tatasre ǀ
    pṛṣantam ǀ sṛpram ǀ adabdham ǀ ūrvam ǀ bṛhaspate ǀ rakṣatāt ǀ asya ǀ yonim ǁ

    4.50.2 Aṣṭaka 3.7.26.2Anuvāka 4.5.24

  3. Ṛk 3

    बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः ।
    तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्वः॑ श्चोतंत्य॒भितो॑ विर॒प्शं ॥

    बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः |
    तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो विरप्शम् ||

    bṛ́haspate yā́ paramā́ parāvádáta ā́ ta ṛtaspṛ́śo ní ṣeduḥ ǀ
    túbhyam khātā́ avatā́ ádridugdhā mádhvaḥ ścotantyabhíto virapśám ǁ

    bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ |
    tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam ||

    बृह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अतः॑ । आ । ते॒ । ऋ॒त॒ऽस्पृशः॑ । नि । से॒दुः॒ ।
    तुभ्य॑म् । खा॒ताः । अ॒व॒ताः । अद्रि॑ऽदुग्धाः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥

    बृहस्पते । या । परमा । पराऽवत् । अतः । आ । ते । ऋतऽस्पृशः । नि । सेदुः ।
    तुभ्यम् । खाताः । अवताः । अद्रिऽदुग्धाः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥

    bṛ́haspate ǀ yā́ ǀ paramā́ ǀ parā-vát ǀ átaḥ ǀ ā́ ǀ te ǀ ṛta-spṛ́śaḥ ǀ ní ǀ seduḥ ǀ
    túbhyam ǀ khātā́ḥ ǀ avatā́ḥ ǀ ádri-dugdhāḥ ǀ mádhvaḥ ǀ ścotanti ǀ abhítaḥ ǀ vi-rapśám ǁ

    bṛhaspate ǀ yā ǀ paramā ǀ parā-vat ǀ ataḥ ǀ ā ǀ te ǀ ṛta-spṛśaḥ ǀ ni ǀ seduḥ ǀ
    tubhyam ǀ khātāḥ ǀ avatāḥ ǀ adri-dugdhāḥ ǀ madhvaḥ ǀ ścotanti ǀ abhitaḥ ǀ vi-rapśam ǁ

    4.50.3 Aṣṭaka 3.7.26.3Anuvāka 4.5.25

  4. Ṛk 4

    बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन् ।
    स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥

    बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् |
    सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ||

    bṛ́haspátiḥ prathamám jā́yamāno mahó jyótiṣaḥ paramé vyóman ǀ
    saptā́syastuvijātó ráveṇa ví saptáraśmiradhamattámāṃsi ǁ

    bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman |
    saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi ||

    बृह॒स्पतिः॑ । प्र॒थ॒मम् । जाय॑मानः । म॒हः । ज्योति॑षः । प॒र॒मे । विऽओ॑मन् ।
    स॒प्तऽआ॑स्यः । तु॒वि॒ऽजा॒तः । रवे॑ण । वि । स॒प्तऽर॑श्मिः । अ॒ध॒म॒त् । तमां॑सि ॥

    बृहस्पतिः । प्रथमम् । जायमानः । महः । ज्योतिषः । परमे । विऽओमन् ।
    सप्तऽआस्यः । तुविऽजातः । रवेण । वि । सप्तऽरश्मिः । अधमत् । तमांसि ॥

    bṛ́haspátiḥ ǀ prathamám ǀ jā́yamānaḥ ǀ maháḥ ǀ jyótiṣaḥ ǀ paramé ǀ ví-oman ǀ
    saptá-āsyaḥ ǀ tuvi-jātáḥ ǀ ráveṇa ǀ ví ǀ saptá-raśmiḥ ǀ adhamat ǀ támāṃsi ǁ

    bṛhaspatiḥ ǀ prathamam ǀ jāyamānaḥ ǀ mahaḥ ǀ jyotiṣaḥ ǀ parame ǀ vi-oman ǀ
    sapta-āsyaḥ ǀ tuvi-jātaḥ ǀ raveṇa ǀ vi ǀ sapta-raśmiḥ ǀ adhamat ǀ tamāṃsi ǁ

    4.50.4 Aṣṭaka 3.7.26.4Anuvāka 4.5.26

  5. Ṛk 5

    स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण ।
    बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥

    स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण |
    बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ||

    sá suṣṭúbhā sá ṛ́kvatā gaṇéna valám ruroja phaligám ráveṇa ǀ
    bṛ́haspátirusríyā havyasū́daḥ kánikradadvā́vaśatīrúdājat ǁ

    sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa |
    bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat ||

    सः । सु॒ऽस्तुभा॑ । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒ऽगम् । रवे॑ण ।
    बृह॒स्पतिः॑ । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ । कनि॑क्रदत् । वाव॑शतीः । उत् । आ॒ज॒त् ॥

    सः । सुऽस्तुभा । सः । ऋक्वता । गणेन । वलम् । रुरोज । फलिऽगम् । रवेण ।
    बृहस्पतिः । उस्रियाः । हव्यऽसूदः । कनिक्रदत् । वावशतीः । उत् । आजत् ॥

    sáḥ ǀ su-stúbhā ǀ sáḥ ǀ ṛ́kvatā ǀ gaṇéna ǀ valám ǀ ruroja ǀ phali-gám ǀ ráveṇa ǀ
    bṛ́haspátiḥ ǀ usríyāḥ ǀ havya-sū́daḥ ǀ kánikradat ǀ vā́vaśatīḥ ǀ út ǀ ājat ǁ

    saḥ ǀ su-stubhā ǀ saḥ ǀ ṛkvatā ǀ gaṇena ǀ valam ǀ ruroja ǀ phali-gam ǀ raveṇa ǀ
    bṛhaspatiḥ ǀ usriyāḥ ǀ havya-sūdaḥ ǀ kanikradat ǀ vāvaśatīḥ ǀ ut ǀ ājat ǁ

    4.50.5 Aṣṭaka 3.7.26.5Anuvāka 4.5.27

  6. Ṛk 6

    ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।
    बृह॑स्पते सुप्र॒जा वी॒रवं॑तो व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥

    एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः |
    बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ||

    evā́ pitré viśvádevāya vṛ́ṣṇe yajñáirvidhema námasā havírbhiḥ ǀ
    bṛ́haspate suprajā́ vīrávanto vayám syāma pátayo rayīṇā́m ǁ

    evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ |
    bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām ||

    ए॒व । पि॒त्रे । वि॒श्वऽदे॑वाय । वृष्णे॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ ।
    बृह॑स्पते । सु॒ऽप्र॒जाः । वी॒रऽव॑न्तः । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

    एव । पित्रे । विश्वऽदेवाय । वृष्णे । यज्ञैः । विधेम । नमसा । हविःऽभिः ।
    बृहस्पते । सुऽप्रजाः । वीरऽवन्तः । वयम् । स्याम । पतयः । रयीणाम् ॥

    evá ǀ pitré ǀ viśvá-devāya ǀ vṛ́ṣṇe ǀ yajñáiḥ ǀ vidhema ǀ námasā ǀ havíḥ-bhiḥ ǀ
    bṛ́haspate ǀ su-prajā́ḥ ǀ vīrá-vantaḥ ǀ vayám ǀ syāma ǀ pátayaḥ ǀ rayīṇā́m ǁ

    eva ǀ pitre ǀ viśva-devāya ǀ vṛṣṇe ǀ yajñaiḥ ǀ vidhema ǀ namasā ǀ haviḥ-bhiḥ ǀ
    bṛhaspate ǀ su-prajāḥ ǀ vīra-vantaḥ ǀ vayam ǀ syāma ǀ patayaḥ ǀ rayīṇām ǁ

    4.50.6 Aṣṭaka 3.7.27.1Anuvāka 4.5.28

  7. Ṛk 7

    स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण ।
    बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वंद॑ते पूर्व॒भाजं॑ ॥

    स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्येण |
    बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ||

    sá ídrā́jā prátijanyāni víśvā śúṣmeṇa tasthāvabhí vīryéṇa ǀ
    bṛ́haspátim yáḥ súbhṛtam bibhárti valgūyáti vándate pūrvabhā́jam ǁ

    sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa |
    bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam ||

    सः । इत् । राजा॑ । प्रति॑ऽजन्यानि । विश्वा॑ । शुष्मे॑ण । त॒स्थौ॒ । अ॒भि । वी॒र्ये॑ण ।
    बृह॒स्पति॑म् । यः । सुऽभृ॑तम् । बि॒भर्ति॑ । व॒ल्गु॒ऽयति॑ । वन्द॑ते । पू॒र्व॒ऽभाज॑म् ॥

    सः । इत् । राजा । प्रतिऽजन्यानि । विश्वा । शुष्मेण । तस्थौ । अभि । वीर्येण ।
    बृहस्पतिम् । यः । सुऽभृतम् । बिभर्ति । वल्गुऽयति । वन्दते । पूर्वऽभाजम् ॥

    sáḥ ǀ ít ǀ rā́jā ǀ práti-janyāni ǀ víśvā ǀ śúṣmeṇa ǀ tasthau ǀ abhí ǀ vīryéṇa ǀ
    bṛ́haspátim ǀ yáḥ ǀ sú-bhṛtam ǀ bibhárti ǀ valgu-yáti ǀ vándate ǀ pūrva-bhā́jam ǁ

    saḥ ǀ it ǀ rājā ǀ prati-janyāni ǀ viśvā ǀ śuṣmeṇa ǀ tasthau ǀ abhi ǀ vīryeṇa ǀ
    bṛhaspatim ǀ yaḥ ǀ su-bhṛtam ǀ bibharti ǀ valgu-yati ǀ vandate ǀ pūrva-bhājam ǁ

    4.50.7 Aṣṭaka 3.7.27.2Anuvāka 4.5.29

  8. Ṛk 8

    स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानीं॑ ।
    तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मंते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥

    स इत् क्षेति सुधित ओकसि स्वे तस्मा इऌआ पिन्वते विश्वदानीम् |
    तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति ||

    sá ítkṣeti súdhita ókasi své tásmā íḷā pinvate viśvadā́nīm ǀ
    tásmai víśaḥ svayámevā́ namante yásminbrahmā́ rā́jani pū́rva éti ǁ

    sa it kṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm |
    tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti ||

    सः । इत् । क्षे॒ति॒ । सुऽधि॑तः । ओक॑सि । स्वे । तस्मै॑ । इळा॑ । पि॒न्व॒ते॒ । वि॒श्व॒ऽदानी॑म् ।
    तस्मै॑ । विशः॑ । स्व॒यम् । ए॒व । न॒म॒न्ते॒ । यस्मि॑न् । ब्र॒ह्मा । राज॑नि । पूर्वः॑ । एति॑ ॥

    सः । इत् । क्षेति । सुऽधितः । ओकसि । स्वे । तस्मै । इळा । पिन्वते । विश्वऽदानीम् ।
    तस्मै । विशः । स्वयम् । एव । नमन्ते । यस्मिन् । ब्रह्मा । राजनि । पूर्वः । एति ॥

    sáḥ ǀ ít ǀ kṣeti ǀ sú-dhitaḥ ǀ ókasi ǀ své ǀ tásmai ǀ íḷā ǀ pinvate ǀ viśva-dā́nīm ǀ
    tásmai ǀ víśaḥ ǀ svayám ǀ evá ǀ namante ǀ yásmin ǀ brahmā́ ǀ rā́jani ǀ pū́rvaḥ ǀ éti ǁ

    saḥ ǀ it ǀ kṣeti ǀ su-dhitaḥ ǀ okasi ǀ sve ǀ tasmai ǀ iḷā ǀ pinvate ǀ viśva-dānīm ǀ
    tasmai ǀ viśaḥ ǀ svayam ǀ eva ǀ namante ǀ yasmin ǀ brahmā ǀ rājani ǀ pūrvaḥ ǀ eti ǁ

    4.50.8 Aṣṭaka 3.7.27.3Anuvāka 4.5.30

  9. Ṛk 9

    अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या ।
    अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वंति दे॒वाः ॥

    अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या |
    अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः ||

    ápratīto jayati sám dhánāni prátijanyānyutá yā́ sájanyā ǀ
    avasyáve yó várivaḥ kṛṇóti brahmáṇe rā́jā támavanti devā́ḥ ǁ

    apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā |
    avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ ||

    अप्र॑तिऽइतः । ज॒य॒ति॒ । सम् । धना॑नि । प्रति॑ऽजन्यानि । उ॒त । या । सऽज॑न्या ।
    अ॒व॒स्यवे॑ । यः । वरि॑वः । कृ॒णोति॑ । ब्र॒ह्मणे॑ । राजा॑ । तम् । अ॒व॒न्ति॒ । दे॒वाः ॥

    अप्रतिऽइतः । जयति । सम् । धनानि । प्रतिऽजन्यानि । उत । या । सऽजन्या ।
    अवस्यवे । यः । वरिवः । कृणोति । ब्रह्मणे । राजा । तम् । अवन्ति । देवाः ॥

    áprati-itaḥ ǀ jayati ǀ sám ǀ dhánāni ǀ práti-janyāni ǀ utá ǀ yā́ ǀ sá-janyā ǀ
    avasyáve ǀ yáḥ ǀ várivaḥ ǀ kṛṇóti ǀ brahmáṇe ǀ rā́jā ǀ tám ǀ avanti ǀ devā́ḥ ǁ

    aprati-itaḥ ǀ jayati ǀ sam ǀ dhanāni ǀ prati-janyāni ǀ uta ǀ yā ǀ sa-janyā ǀ
    avasyave ǀ yaḥ ǀ varivaḥ ǀ kṛṇoti ǀ brahmaṇe ǀ rājā ǀ tam ǀ avanti ǀ devāḥ ǁ

    4.50.9 Aṣṭaka 3.7.27.4Anuvāka 4.5.31

  10. Ṛk 10

    इंद्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे मं॑दसा॒ना वृ॑षण्वसू ।
    आ वां॑ विशं॒त्विंद॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतं ॥

    इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू |
    आ वां विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिं सर्ववीरं नि यच्छतम् ||

    índraśca sómam pibatam bṛhaspate’smínyajñé mandasānā́ vṛṣaṇvasū ǀ
    ā́ vām viśantvíndavaḥ svābhúvo’smé rayím sárvavīram ní yacchatam ǁ

    indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū |
    ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam ||

    इन्द्रः॑ । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
    आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑वः । सु॒ऽआ॒भुवः॑ । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥

    इन्द्रः । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषण्वसू इति वृषण्ऽवसू ।
    आ । वाम् । विशन्तु । इन्दवः । सुऽआभुवः । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥

    índraḥ ǀ ca ǀ sómam ǀ pibatam ǀ bṛhaspate ǀ asmín ǀ yajñé ǀ mandasānā́ ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ
    ā́ ǀ vām ǀ viśantu ǀ índavaḥ ǀ su-ābhúvaḥ ǀ asmé íti ǀ rayím ǀ sárva-vīram ǀ ní ǀ yacchatam ǁ

    indraḥ ǀ ca ǀ somam ǀ pibatam ǀ bṛhaspate ǀ asmin ǀ yajñe ǀ mandasānā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ
    ā ǀ vām ǀ viśantu ǀ indavaḥ ǀ su-ābhuvaḥ ǀ asme iti ǀ rayim ǀ sarva-vīram ǀ ni ǀ yacchatam ǁ

    4.50.10 Aṣṭaka 3.7.27.5Anuvāka 4.5.32

  11. Ṛk 11

    बृह॑स्पत इंद्र॒ वर्ध॑तं नः॒ सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे ।
    अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥

    बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व् अस्मे |
    अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ||

    bṛ́haspata indra várdhatam naḥ sácā sā́ vām sumatírbhūtvasmé ǀ
    aviṣṭám dhíyo jigṛtám púraṃdhīrjajastámaryó vanúṣāmárātīḥ ǁ

    bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme |
    aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ ||

    बृह॑स्पते । इ॒न्द्र॒ । वर्ध॑तम् । नः॒ । सचा॑ । सा । वा॒म् । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ।
    अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥

    बृहस्पते । इन्द्र । वर्धतम् । नः । सचा । सा । वाम् । सुऽमतिः । भूतु । अस्मे इति ।
    अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥

    bṛ́haspate ǀ indra ǀ várdhatam ǀ naḥ ǀ sácā ǀ sā́ ǀ vām ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǀ
    aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ jajastám ǀ aryáḥ ǀ vanúṣām ǀ árātīḥ ǁ

    bṛhaspate ǀ indra ǀ vardhatam ǀ naḥ ǀ sacā ǀ sā ǀ vām ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǀ
    aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ jajastam ǀ aryaḥ ǀ vanuṣām ǀ arātīḥ ǁ

    4.50.11 Aṣṭaka 3.7.27.6Anuvāka 4.5.33

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.50 · Bṛhaspati · Indra, Bṛhaspati

Interpretations

Sri Aurobindo

Ṛk 4

Brihaspati, coming first into birth from the great Light in the supreme ether, seven-mouthed, multiply-born, seven-rayed, dispelled the darkness;… (SABCL, Vol. 10, p.137)

Brihaspati coming first to birth out of the great Light in the highest heaven, born in many forms, seven-mouthed, seven-rayed (saptDsayaU saptaraQmiU), by his cry dipelled the darkness;,… (SABCL, Vol. 10, p. 161)

The Master of the Wisdom in his first coming to birth in the supreme ether of the great Light, — many his births, seven his mouths of the Word, seven his Rays, — scatters the darkness with his cry. (SABCL, Vol. 19, p. 726)

Ṛk 5

…he with his host that possesses the stubh and the Rik broke Vala into pieces by his cry. Shouting Brihaspati drove upwards the bright herds that speed the offering and they lowed in reply. (SABCL, Vol. 10, p. 137)