Ṛgveda · Maṇḍala 4

Sūkta 7

Agni · Vāmadeva Gautama · 11 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Anuṣṭubh, Triṣṭubh, Jagatī
Metres by ṛk

1st set of styles triṣṭup (7, 10, 11); anuṣṭup (4, 6); nicṛttriṣṭup (8, 9); bhuriktriṣṭup (1); svarāḍuṣnik (2); nicṛdanuṣṭup (3); virāḍanuṣṭup (5)

2nd set of styles anuṣṭubh (2-6); triṣṭubh (7-11); jagatī (1)

  1. Ṛk 1

    अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ ।
    यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥

    अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः |
    यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ||

    ayámihá prathamó dhāyi dhātṛ́bhirhótā yájiṣṭho adhvaréṣvī́ḍyaḥ ǀ
    yámápnavāno bhṛ́gavo virurucúrváneṣu citrám vibhvám viśéviśe ǁ

    ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ |
    yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe-viśe ||

    अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृऽभिः॑ । होता॑ । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ ।
    यम् । अप्न॑वानः । भृग॑वः । वि॒ऽरु॒रु॒चुः । वने॑षु । चि॒त्रम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे ॥

    अयम् । इह । प्रथमः । धायि । धातृऽभिः । होता । यजिष्ठः । अध्वरेषु । ईड्यः ।
    यम् । अप्नवानः । भृगवः । विऽरुरुचुः । वनेषु । चित्रम् । विऽभ्वम् । विशेऽविशे ॥

    ayám ǀ ihá ǀ prathamáḥ ǀ dhāyi ǀ dhātṛ́-bhiḥ ǀ hótā ǀ yájiṣṭhaḥ ǀ adhvaréṣu ǀ ī́ḍyaḥ ǀ
    yám ǀ ápnavānaḥ ǀ bhṛ́gavaḥ ǀ vi-rurucúḥ ǀ váneṣu ǀ citrám ǀ vi-bhvám ǀ viśé-viśe ǁ

    ayam ǀ iha ǀ prathamaḥ ǀ dhāyi ǀ dhātṛ-bhiḥ ǀ hotā ǀ yajiṣṭhaḥ ǀ adhvareṣu ǀ īḍyaḥ ǀ
    yam ǀ apnavānaḥ ǀ bhṛgavaḥ ǀ vi-rurucuḥ ǀ vaneṣu ǀ citram ǀ vi-bhvam ǀ viśe-viśe ǁ

    4.7.1 Aṣṭaka 3.5.6.1Anuvāka 4.1.98

  2. Ṛk 2

    अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नं ।
    अधा॒ हि त्वा॑ जगृभ्रि॒रे मर्ता॑सो वि॒क्ष्वीड्यं॑ ॥

    अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् |
    अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् ईड्यम् ||

    ágne kadā́ ta ānuṣágbhúvaddevásya cétanam ǀ
    ádhā hí tvā jagṛbhriré mártāso vikṣvī́ḍyam ǁ

    agne kadā ta ānuṣag bhuvad devasya cetanam |
    adhā hi tvā jagṛbhrire martāso vikṣv īḍyam ||

    अग्ने॑ । क॒दा । ते॒ । आ॒नु॒षक् । भुव॑त् । दे॒वस्य॑ । चेत॑नम् ।
    अध॑ । हि । त्वा॒ । ज॒गृ॒भ्रि॒रे । मर्ता॑सः । वि॒क्षु । ईड्य॑म् ॥

    अग्ने । कदा । ते । आनुषक् । भुवत् । देवस्य । चेतनम् ।
    अध । हि । त्वा । जगृभ्रिरे । मर्तासः । विक्षु । ईड्यम् ॥

    ágne ǀ kadā́ ǀ te ǀ ānuṣák ǀ bhúvat ǀ devásya ǀ cétanam ǀ
    ádha ǀ hí ǀ tvā ǀ jagṛbhriré ǀ mártāsaḥ ǀ vikṣú ǀ ī́ḍyam ǁ

    agne ǀ kadā ǀ te ǀ ānuṣak ǀ bhuvat ǀ devasya ǀ cetanam ǀ
    adha ǀ hi ǀ tvā ǀ jagṛbhrire ǀ martāsaḥ ǀ vikṣu ǀ īḍyam ǁ

    4.7.2 Aṣṭaka 3.5.6.2Anuvāka 4.1.99

  3. Ṛk 3

    ऋ॒तावा॑नं॒ विचे॑तसं॒ पश्यं॑तो॒ द्यामि॑व॒ स्तृभिः॑ ।
    विश्वे॑षामध्व॒राणां॑ हस्क॒र्तारं॒ दमे॑दमे ॥

    ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः |
    विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे ||

    ṛtā́vānam vícetasam páśyanto dyā́miva stṛ́bhiḥ ǀ
    víśveṣāmadhvarā́ṇām haskartā́ram dámedame ǁ

    ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ |
    viśveṣām adhvarāṇāṃ haskartāraṃ dame-dame ||

    ऋ॒तऽवा॑नम् । विऽचे॑तसम् । पश्य॑न्तः । द्याम्ऽइ॑व । स्तृऽभिः॑ ।
    विश्वे॑षाम् । अ॒ध्व॒राणा॑म् । ह॒स्क॒र्तार॑म् । दमे॑ऽदमे ॥

    ऋतऽवानम् । विऽचेतसम् । पश्यन्तः । द्याम्ऽइव । स्तृऽभिः ।
    विश्वेषाम् । अध्वराणाम् । हस्कर्तारम् । दमेऽदमे ॥

    ṛtá-vānam ǀ ví-cetasam ǀ páśyantaḥ ǀ dyā́m-iva ǀ stṛ́-bhiḥ ǀ
    víśveṣām ǀ adhvarā́ṇām ǀ haskartā́ram ǀ dáme-dame ǁ

    ṛta-vānam ǀ vi-cetasam ǀ paśyantaḥ ǀ dyām-iva ǀ stṛ-bhiḥ ǀ
    viśveṣām ǀ adhvarāṇām ǀ haskartāram ǀ dame-dame ǁ

    4.7.3 Aṣṭaka 3.5.6.3Anuvāka 4.1.100

  4. Ṛk 4

    आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
    आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥

    आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि |
    आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे ||

    āśúm dūtám vivásvato víśvā yáścarṣaṇī́rabhí ǀ
    ā́ jabhruḥ ketúmāyávo bhṛ́gavāṇam viśéviśe ǁ

    āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi |
    ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe-viśe ||

    आ॒शुम् । दू॒तम् । वि॒वस्व॑तः । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि ।
    आ । ज॒भ्रुः॒ । के॒तुम् । आ॒यवः॑ । भृग॑वाणम् । वि॒शेऽवि॑शे ॥

    आशुम् । दूतम् । विवस्वतः । विश्वाः । यः । चर्षणीः । अभि ।
    आ । जभ्रुः । केतुम् । आयवः । भृगवाणम् । विशेऽविशे ॥

    āśúm ǀ dūtám ǀ vivásvataḥ ǀ víśvāḥ ǀ yáḥ ǀ carṣaṇī́ḥ ǀ abhí ǀ
    ā́ ǀ jabhruḥ ǀ ketúm ǀ āyávaḥ ǀ bhṛ́gavāṇam ǀ viśé-viśe ǁ

    āśum ǀ dūtam ǀ vivasvataḥ ǀ viśvāḥ ǀ yaḥ ǀ carṣaṇīḥ ǀ abhi ǀ
    ā ǀ jabhruḥ ǀ ketum ǀ āyavaḥ ǀ bhṛgavāṇam ǀ viśe-viśe ǁ

    4.7.4 Aṣṭaka 3.5.6.4Anuvāka 4.1.101

  5. Ṛk 5

    तमीं॒ होता॑रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे॑दिरे ।
    र॒ण्वं पा॑व॒कशो॑चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ॥

    तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे |
    रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः ||

    támīm hótāramānuṣákcikitvā́ṃsam ní ṣedire ǀ
    raṇvám pāvakáśociṣam yájiṣṭham saptá dhā́mabhiḥ ǁ

    tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire |
    raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ ||

    तम् । ई॒म् । होता॑रम् । आ॒नु॒षक् । चि॒कि॒त्वांस॑म् । नि । से॒दि॒रे॒ ।
    र॒ण्वम् । पा॒व॒कऽशो॑चिषम् । यजि॑ष्ठम् । स॒प्त । धाम॑ऽभिः ॥

    तम् । ईम् । होतारम् । आनुषक् । चिकित्वांसम् । नि । सेदिरे ।
    रण्वम् । पावकऽशोचिषम् । यजिष्ठम् । सप्त । धामऽभिः ॥

    tám ǀ īm ǀ hótāram ǀ ānuṣák ǀ cikitvā́ṃsam ǀ ní ǀ sedire ǀ
    raṇvám ǀ pāvaká-śociṣam ǀ yájiṣṭham ǀ saptá ǀ dhā́ma-bhiḥ ǁ

    tam ǀ īm ǀ hotāram ǀ ānuṣak ǀ cikitvāṃsam ǀ ni ǀ sedire ǀ
    raṇvam ǀ pāvaka-śociṣam ǀ yajiṣṭham ǀ sapta ǀ dhāma-bhiḥ ǁ

    4.7.5 Aṣṭaka 3.5.6.5Anuvāka 4.1.102

  6. Ṛk 6

    तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तं अश्रि॑तं ।
    चि॒त्रं संतं॒ गुहा॑ हि॒तं सु॒वेदं॑ कूचिद॒र्थिनं॑ ॥

    तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् |
    चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ||

    tám śáśvatīṣu mātṛ́ṣu vána ā́ vītám áśritam ǀ
    citrám sántam gúhā hitám suvédam kūcidarthínam ǁ

    taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam |
    citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam ||

    तम् । शश्व॑तीषु । मा॒तृषु॑ । वने॑ । आ । वी॒तम् । अश्रि॑तम् ।
    चि॒त्रम् । सन्त॑म् । गुहा॑ । हि॒तम् । सु॒ऽवेद॑म् । कू॒चि॒त्ऽअ॒र्थिन॑म् ॥

    तम् । शश्वतीषु । मातृषु । वने । आ । वीतम् । अश्रितम् ।
    चित्रम् । सन्तम् । गुहा । हितम् । सुऽवेदम् । कूचित्ऽअर्थिनम् ॥

    tám ǀ śáśvatīṣu ǀ mātṛ́ṣu ǀ váne ǀ ā́ ǀ vītám ǀ áśritam ǀ
    citrám ǀ sántam ǀ gúhā ǀ hitám ǀ su-védam ǀ kūcit-arthínam ǁ

    tam ǀ śaśvatīṣu ǀ mātṛṣu ǀ vane ǀ ā ǀ vītam ǀ aśritam ǀ
    citram ǀ santam ǀ guhā ǀ hitam ǀ su-vedam ǀ kūcit-arthinam ǁ

    4.7.6 Aṣṭaka 3.5.7.1Anuvāka 4.1.103

  7. Ṛk 7

    स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णयं॑त दे॒वाः ।
    म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥

    ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः |
    महां अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा ||

    sasásya yádvíyutā sásminnū́dhannṛtásya dhā́manraṇáyanta devā́ḥ ǀ
    mahā́m̐ agnírnámasā rātáhavyo véradhvarā́ya sádamídṛtā́vā ǁ

    sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ |
    mahāṃ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā ||

    स॒सस्य॑ । यत् । विऽयु॑ता । सस्मि॑न् । ऊध॑न् । ऋ॒तस्य॑ । धाम॑न् । र॒णय॑न्त । दे॒वाः ।
    म॒हान् । अ॒ग्निः । नम॑सा । रा॒तऽह॑व्यः । वेः । अ॒ध्व॒राय॑ । सद॑म् । इत् । ऋ॒तऽवा॑ ॥

    ससस्य । यत् । विऽयुता । सस्मिन् । ऊधन् । ऋतस्य । धामन् । रणयन्त । देवाः ।
    महान् । अग्निः । नमसा । रातऽहव्यः । वेः । अध्वराय । सदम् । इत् । ऋतऽवा ॥

    sasásya ǀ yát ǀ ví-yutā ǀ sásmin ǀ ū́dhan ǀ ṛtásya ǀ dhā́man ǀ raṇáyanta ǀ devā́ḥ ǀ
    mahā́n ǀ agníḥ ǀ námasā ǀ rātá-havyaḥ ǀ véḥ ǀ adhvarā́ya ǀ sádam ǀ ít ǀ ṛtá-vā ǁ

    sasasya ǀ yat ǀ vi-yutā ǀ sasmin ǀ ūdhan ǀ ṛtasya ǀ dhāman ǀ raṇayanta ǀ devāḥ ǀ
    mahān ǀ agniḥ ǀ namasā ǀ rāta-havyaḥ ǀ veḥ ǀ adhvarāya ǀ sadam ǀ it ǀ ṛta-vā ǁ

    4.7.7 Aṣṭaka 3.5.7.2Anuvāka 4.1.104

  8. Ṛk 8

    वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अं॒ता रोद॑सी संचिकि॒त्वान् ।
    दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥

    वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी संचिकित्वान् |
    दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ||

    véradhvarásya dūtyā́ni vidvā́nubhé antā́ ródasī saṃcikitvā́n ǀ
    dūtá īyase pradíva urāṇó vidúṣṭaro divá āródhanāni ǁ

    ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān |
    dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni ||

    वेः । अ॒ध्व॒रस्य॑ । दू॒त्या॑नि । वि॒द्वान् । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । स॒म्ऽचि॒कि॒त्वान् ।
    दू॒तः । ई॒य॒से॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः । वि॒दुःऽत॑रः । दि॒वः । आ॒ऽरोध॑नानि ॥

    वेः । अध्वरस्य । दूत्यानि । विद्वान् । उभे इति । अन्तरिति । रोदसी इति । सम्ऽचिकित्वान् ।
    दूतः । ईयसे । प्रऽदिवः । उराणः । विदुःऽतरः । दिवः । आऽरोधनानि ॥

    véḥ ǀ adhvarásya ǀ dūtyā́ni ǀ vidvā́n ǀ ubhé íti ǀ antáríti ǀ ródasī íti ǀ sam-cikitvā́n ǀ
    dūtáḥ ǀ īyase ǀ pra-dívaḥ ǀ urāṇáḥ ǀ vidúḥ-taraḥ ǀ diváḥ ǀ ā-ródhanāni ǁ

    veḥ ǀ adhvarasya ǀ dūtyāni ǀ vidvān ǀ ubhe iti ǀ antariti ǀ rodasī iti ǀ sam-cikitvān ǀ
    dūtaḥ ǀ īyase ǀ pra-divaḥ ǀ urāṇaḥ ǀ viduḥ-taraḥ ǀ divaḥ ǀ ā-rodhanāni ǁ

    4.7.8 Aṣṭaka 3.5.7.3Anuvāka 4.1.105

  9. Ṛk 9

    कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॒॑र्चिर्वपु॑षा॒मिदेकं॑ ।
    यदप्र॑वीता॒ दध॑ते ह॒ गर्भं॑ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ॥

    कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अर्चिर् वपुषाम् इद् एकम् |
    यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद् उ दूतः ||

    kṛṣṇám ta éma rúśataḥ puró bhā́ścariṣṇvárcírvápuṣāmídékam ǀ
    yádápravītā dádhate ha gárbham sadyáścijjātó bhávasī́du dūtáḥ ǁ

    kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam |
    yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ ||

    कृ॒ष्णम् । ते॒ । एम॑ । रुश॑तः । पु॒रः । भाः । च॒रि॒ष्णु । अ॒र्चिः । वपु॑षाम् । इत् । एक॑म् ।
    यत् । अप्र॑ऽवीता । दध॑ते । ह॒ । गर्भ॑म् । स॒द्यः । चि॒त् । जा॒तः । भव॑सि । इत् । ऊं॒ इति॑ । दू॒तः ॥

    कृष्णम् । ते । एम । रुशतः । पुरः । भाः । चरिष्णु । अर्चिः । वपुषाम् । इत् । एकम् ।
    यत् । अप्रऽवीता । दधते । ह । गर्भम् । सद्यः । चित् । जातः । भवसि । इत् । ऊं इति । दूतः ॥

    kṛṣṇám ǀ te ǀ éma ǀ rúśataḥ ǀ puráḥ ǀ bhā́ḥ ǀ cariṣṇú ǀ arcíḥ ǀ vápuṣām ǀ ít ǀ ékam ǀ
    yát ǀ ápra-vītā ǀ dádhate ǀ ha ǀ gárbham ǀ sadyáḥ ǀ cit ǀ jātáḥ ǀ bhávasi ǀ ít ǀ ūṃ íti ǀ dūtáḥ ǁ

    kṛṣṇam ǀ te ǀ ema ǀ ruśataḥ ǀ puraḥ ǀ bhāḥ ǀ cariṣṇu ǀ arciḥ ǀ vapuṣām ǀ it ǀ ekam ǀ
    yat ǀ apra-vītā ǀ dadhate ǀ ha ǀ garbham ǀ sadyaḥ ǀ cit ǀ jātaḥ ǀ bhavasi ǀ it ǀ ūṃ iti ǀ dūtaḥ ǁ

    4.7.9 Aṣṭaka 3.5.7.4Anuvāka 4.1.106

  10. Ṛk 10

    स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः ।
    वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जंभैः॑ ॥

    सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः |
    वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि जम्भैः ||

    sadyó jātásya dádṛśānamójo yádasya vā́to anuvā́ti śocíḥ ǀ
    vṛṇákti tigmā́mataséṣu jihvā́m sthirā́ cidánnā dayate ví jámbhaiḥ ǁ

    sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ |
    vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ ||

    स॒द्यः । जा॒तस्य॑ । ददृ॑शानम् । ओजः॑ । यत् । अ॒स्य॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः ।
    वृ॒णक्ति॑ । ति॒ग्माम् । अ॒त॒सेषु॑ । जि॒ह्वाम् । स्थि॒रा । चि॒त् । अन्ना॑ । द॒य॒ते॒ । वि । जम्भैः॑ ॥

    सद्यः । जातस्य । ददृशानम् । ओजः । यत् । अस्य । वातः । अनुऽवाति । शोचिः ।
    वृणक्ति । तिग्माम् । अतसेषु । जिह्वाम् । स्थिरा । चित् । अन्ना । दयते । वि । जम्भैः ॥

    sadyáḥ ǀ jātásya ǀ dádṛśānam ǀ ójaḥ ǀ yát ǀ asya ǀ vā́taḥ ǀ anu-vā́ti ǀ śocíḥ ǀ
    vṛṇákti ǀ tigmā́m ǀ ataséṣu ǀ jihvā́m ǀ sthirā́ ǀ cit ǀ ánnā ǀ dayate ǀ ví ǀ jámbhaiḥ ǁ

    sadyaḥ ǀ jātasya ǀ dadṛśānam ǀ ojaḥ ǀ yat ǀ asya ǀ vātaḥ ǀ anu-vāti ǀ śociḥ ǀ
    vṛṇakti ǀ tigmām ǀ ataseṣu ǀ jihvām ǀ sthirā ǀ cit ǀ annā ǀ dayate ǀ vi ǀ jambhaiḥ ǁ

    4.7.10 Aṣṭaka 3.5.7.5Anuvāka 4.1.107

  11. Ṛk 11

    तृ॒षु यदन्ना॑ तृ॒षुणा॑ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः ।
    वात॑स्य मे॒ळिं स॑चते नि॒जूर्व॑न्ना॒शुं न वा॑जयते हि॒न्वे अर्वा॑ ॥

    तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः |
    वातस्य मेऌइं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे अर्वा ||

    tṛṣú yádánnā tṛṣúṇā vavákṣa tṛṣúm dūtám kṛṇute yahvó agníḥ ǀ
    vā́tasya meḷím sacate nijū́rvannāśúm ná vājayate hinvé árvā ǁ

    tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ |
    vātasya meḷiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā ||

    तृ॒षु । यत् । अन्ना॑ । तृ॒षुणा॑ । व॒वक्ष॑ । तृ॒षुम् । दू॒तम् । कृ॒णु॒ते॒ । य॒ह्वः । अ॒ग्निः ।
    वात॑स्य । मे॒ळिम् । स॒च॒ते॒ । नि॒ऽजूर्व॑न् । आ॒शुम् । न । वा॒ज॒य॒ते॒ । हि॒न्वे । अर्वा॑ ॥

    तृषु । यत् । अन्ना । तृषुणा । ववक्ष । तृषुम् । दूतम् । कृणुते । यह्वः । अग्निः ।
    वातस्य । मेळिम् । सचते । निऽजूर्वन् । आशुम् । न । वाजयते । हिन्वे । अर्वा ॥

    tṛṣú ǀ yát ǀ ánnā ǀ tṛṣúṇā ǀ vavákṣa ǀ tṛṣúm ǀ dūtám ǀ kṛṇute ǀ yahváḥ ǀ agníḥ ǀ
    vā́tasya ǀ meḷím ǀ sacate ǀ ni-jū́rvan ǀ āśúm ǀ ná ǀ vājayate ǀ hinvé ǀ árvā ǁ

    tṛṣu ǀ yat ǀ annā ǀ tṛṣuṇā ǀ vavakṣa ǀ tṛṣum ǀ dūtam ǀ kṛṇute ǀ yahvaḥ ǀ agniḥ ǀ
    vātasya ǀ meḷim ǀ sacate ǀ ni-jūrvan ǀ āśum ǀ na ǀ vājayate ǀ hinve ǀ arvā ǁ

    4.7.11 Aṣṭaka 3.5.7.6Anuvāka 4.1.108

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.7 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

This is he who was established as chief and first by the Founders of things, the priest of the call, most strong for sacrifice, to be prayed in the pilgrim-rites,—he whom the doer of works and the flame-seers60 set shining wide in the forests, rich in light, all-pervading, for man and man.(237)

Ṛk 2

O Fire, when shall the conscious waking of thy godhead become uninterrupted? For now mortals have laid hold on thee as one desirable in human creatures. (237)

Ṛk 3

For they see thee, possessor of the Truth and wide in knowledge like waking heaven with its stars, the smile of light of all these pilgrim-sacrifices in house and house,— (238)

Ṛk 4

The swift messenger of the illumining Sun who comes to all the seeing people; men hold him as the ray of intuition and he shines as the Bhrigu-flame-seer for each being. (238)

Ṛk 5

This is the priest of the call whom they set within, who uninterruptedly wakes to knowledge, rapturous with his purifying flame, most strong to sacrifice by his seven seats.61 (238)

Ṛk 6

Him in the many mothers linked together, wide-spread and unapproached in the forest, abiding in the secret Cave and rich with many lights, full of knowledge or moving to some unknown goal. (238)

Ṛk 7

When in the separation from sleep the Gods have joy in that udder of the Cow, in the plane of the Truth, great becomes the Fire by the offering given with prostration and journeys for the pilgrim-sacrifice and the Truth is ever with him. (238)

Ṛk 8

He journeys knowing the embassies of the pilgrim-sacrifice between both the firmaments, utterly awakened to knowledge. A messenger, the Ancient of days, ever widening, ever greater in knowledge, thou travellest the mounting slopes of heaven.62 (239)

Ṛk 9

Black is the path of thy shining, thy light goes in front, a journeying ray, the one supreme of all thy bodies; when one unimpregnated bears thee as the child of her womb, in the sudden moment of thy birth thou art already the messenger. (239)

Ṛk 10

The moment he is born his might becomes visible when the wind blows behind his flame; he turns his sharp tongue round the trunks and tears his firm food with his jaws of flame. (239)

Ṛk 11

When quickly he carries his foods on his rapid tongue, this mighty Fire fashions himself into a swift messenger; consuming all he clings to the mad course63 of the wind, as a driver a swift horse he sets it to gallop for the seeker of the plenitude. (239)