Sūkta 37
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 8); anuṣṭup (5, 7); virāṭtrisṭup (1); triṣṭup (2); paṅktiḥ (4); nicṛdanuṣṭup (6)
2nd set of styles triṣṭubh (1-4); anuṣṭubh (5-8)
-
Ṛk 1
उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानैः॑ ।
यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्नां॑ ॥उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः |
यथा यज्ञम् मनुषो विक्ष्व् आसु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम् ||úpa no vājā adhvarámṛbhukṣā dévā yātá pathíbhirdevayā́naiḥ ǀ
yáthā yajñám mánuṣo vikṣvā́sú dadhidhvé raṇvāḥ sudíneṣváhnām ǁupa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ |
yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām ||उप॑ । नः॒ । वा॒जाः॒ । अ॒ध्व॒रम् । ऋ॒भु॒क्षाः॒ । देवाः॑ । या॒त । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ।
यथा॑ । य॒ज्ञम् । मनु॑षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒ऽदिने॑षु । अह्ना॑म् ॥उप । नः । वाजाः । अध्वरम् । ऋभुक्षाः । देवाः । यात । पथिऽभिः । देवऽयानैः ।
यथा । यज्ञम् । मनुषः । विक्षु । आसु । दधिध्वे । रण्वाः । सुऽदिनेषु । अह्नाम् ॥úpa ǀ naḥ ǀ vājāḥ ǀ adhvarám ǀ ṛbhukṣāḥ ǀ dévāḥ ǀ yātá ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǀ
yáthā ǀ yajñám ǀ mánuṣaḥ ǀ vikṣú ǀ āsú ǀ dadhidhvé ǀ raṇvāḥ ǀ su-díneṣu ǀ áhnām ǁupa ǀ naḥ ǀ vājāḥ ǀ adhvaram ǀ ṛbhukṣāḥ ǀ devāḥ ǀ yāta ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǀ
yathā ǀ yajñam ǀ manuṣaḥ ǀ vikṣu ǀ āsu ǀ dadhidhve ǀ raṇvāḥ ǀ su-dineṣu ǀ ahnām ǁ4.37.1 Aṣṭaka 3.7.9.1Anuvāka 4.4.41
-
Ṛk 2
ते वो॑ हृ॒दे मन॑से संतु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः ।
प्र वः॑ सु॒तासो॑ हरयंत पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयंत पी॒ताः ॥ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः |
प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ||té vo hṛdé mánase santu yajñā́ júṣṭāso adyá ghṛtánirṇijo guḥ ǀ
prá vaḥ sutā́so harayanta pūrṇā́ḥ krátve dákṣāya harṣayanta pītā́ḥ ǁte vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ |
pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ ||ते । वः॒ । हृ॒दे । मन॑से । स॒न्तु॒ । य॒ज्ञाः । जुष्टा॑सः । अ॒द्य । घृ॒तऽनि॑र्निजः । गुः॒ ।
प्र । वः॒ । सु॒तासः॑ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे॑ । दक्षा॑य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥ते । वः । हृदे । मनसे । सन्तु । यज्ञाः । जुष्टासः । अद्य । घृतऽनिर्निजः । गुः ।
प्र । वः । सुतासः । हरयन्त । पूर्णाः । क्रत्वे । दक्षाय । हर्षयन्त । पीताः ॥té ǀ vaḥ ǀ hṛdé ǀ mánase ǀ santu ǀ yajñā́ḥ ǀ júṣṭāsaḥ ǀ adyá ǀ ghṛtá-nirnijaḥ ǀ guḥ ǀ
prá ǀ vaḥ ǀ sutā́saḥ ǀ harayanta ǀ pūrṇā́ḥ ǀ krátve ǀ dákṣāya ǀ harṣayanta ǀ pītā́ḥ ǁte ǀ vaḥ ǀ hṛde ǀ manase ǀ santu ǀ yajñāḥ ǀ juṣṭāsaḥ ǀ adya ǀ ghṛta-nirnijaḥ ǀ guḥ ǀ
pra ǀ vaḥ ǀ sutāsaḥ ǀ harayanta ǀ pūrṇāḥ ǀ kratve ǀ dakṣāya ǀ harṣayanta ǀ pītāḥ ǁ4.37.2 Aṣṭaka 3.7.9.2Anuvāka 4.4.42
-
Ṛk 3
त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ वः॒ स्तोमो॑ वाजा ऋभुक्षणो द॒दे वः॑ ।
जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोमं॑ ॥त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः |
जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ||tryudāyám deváhitam yáthā vaḥ stómo vājā ṛbhukṣaṇo dadé vaḥ ǀ
juhvé manuṣvádúparāsu vikṣú yuṣmé sácā bṛháddiveṣu sómam ǁtryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ |
juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam ||त्रि॒ऽउ॒दा॒यम् । दे॒वऽहि॑तम् । यथा॑ । वः॒ । स्तोमः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । द॒दे । वः॒ ।
जु॒ह्वे । म॒नु॒ष्वत् । उप॑रासु । वि॒क्षु । यु॒ष्मे इति॑ । सचा॑ । बृ॒हत्ऽदि॑वेषु । सोम॑म् ॥त्रिऽउदायम् । देवऽहितम् । यथा । वः । स्तोमः । वाजाः । ऋभुक्षणः । ददे । वः ।
जुह्वे । मनुष्वत् । उपरासु । विक्षु । युष्मे इति । सचा । बृहत्ऽदिवेषु । सोमम् ॥tri-udāyám ǀ devá-hitam ǀ yáthā ǀ vaḥ ǀ stómaḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ dadé ǀ vaḥ ǀ
juhvé ǀ manuṣvát ǀ úparāsu ǀ vikṣú ǀ yuṣmé íti ǀ sácā ǀ bṛhát-diveṣu ǀ sómam ǁtri-udāyam ǀ deva-hitam ǀ yathā ǀ vaḥ ǀ stomaḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ dade ǀ vaḥ ǀ
juhve ǀ manuṣvat ǀ uparāsu ǀ vikṣu ǀ yuṣme iti ǀ sacā ǀ bṛhat-diveṣu ǀ somam ǁ4.37.3 Aṣṭaka 3.7.9.3Anuvāka 4.4.43
-
Ṛk 4
पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः ।
इंद्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः |
इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय ||pī́voaśvāḥ śucádrathā hí bhūtā́yaḥśiprā vājinaḥ suniṣkā́ḥ ǀ
índrasya sūno śavaso napātó’nu vaścetyagriyám mádāya ǁpīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ |
indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya ||पीवः॑ऽअश्वाः । शु॒चत्ऽर॑थाः । हि । भू॒त । अयः॑ऽशिप्राः । वा॒जि॒नः॒ । सु॒ऽनि॒ष्काः ।
इन्द्र॑स्य । सू॒नो॒ इति॑ । श॒व॒सः॒ । न॒पा॒तः॒ । अनु॑ । वः॒ । चे॒ति॒ । अ॒ग्रि॒यम् । मदा॑य ॥पीवःऽअश्वाः । शुचत्ऽरथाः । हि । भूत । अयःऽशिप्राः । वाजिनः । सुऽनिष्काः ।
इन्द्रस्य । सूनो इति । शवसः । नपातः । अनु । वः । चेति । अग्रियम् । मदाय ॥pī́vaḥ-aśvāḥ ǀ śucát-rathāḥ ǀ hí ǀ bhūtá ǀ áyaḥ-śiprāḥ ǀ vājinaḥ ǀ su-niṣkā́ḥ ǀ
índrasya ǀ sūno íti ǀ śavasaḥ ǀ napātaḥ ǀ ánu ǀ vaḥ ǀ ceti ǀ agriyám ǀ mádāya ǁpīvaḥ-aśvāḥ ǀ śucat-rathāḥ ǀ hi ǀ bhūta ǀ ayaḥ-śiprāḥ ǀ vājinaḥ ǀ su-niṣkāḥ ǀ
indrasya ǀ sūno iti ǀ śavasaḥ ǀ napātaḥ ǀ anu ǀ vaḥ ǀ ceti ǀ agriyam ǀ madāya ǁ4.37.4 Aṣṭaka 3.7.9.4Anuvāka 4.4.44
-
Ṛk 5
ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिंत॑मं॒ युजं॑ ।
इंद्र॑स्वंतं हवामहे सदा॒सात॑मम॒श्विनं॑ ॥ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् |
इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् ||ṛbhúmṛbhukṣaṇo rayím vā́je vājíntamam yújam ǀ
índrasvantam havāmahe sadāsā́tamamaśvínam ǁṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam |
indrasvantaṃ havāmahe sadāsātamam aśvinam ||ऋ॒भुम् । ऋ॒भु॒क्ष॒णः॒ । र॒यिम् । वाजे॑ । वा॒जिन्ऽत॑मम् । युज॑म् ।
इन्द्र॑स्वन्तम् । ह॒वा॒म॒हे॒ । स॒दा॒ऽसात॑मम् । अ॒श्विन॑म् ॥ऋभुम् । ऋभुक्षणः । रयिम् । वाजे । वाजिन्ऽतमम् । युजम् ।
इन्द्रस्वन्तम् । हवामहे । सदाऽसातमम् । अश्विनम् ॥ṛbhúm ǀ ṛbhukṣaṇaḥ ǀ rayím ǀ vā́je ǀ vājín-tamam ǀ yújam ǀ
índrasvantam ǀ havāmahe ǀ sadā-sā́tamam ǀ aśvínam ǁṛbhum ǀ ṛbhukṣaṇaḥ ǀ rayim ǀ vāje ǀ vājin-tamam ǀ yujam ǀ
indrasvantam ǀ havāmahe ǀ sadā-sātamam ǀ aśvinam ǁ4.37.5 Aṣṭaka 3.7.9.5Anuvāka 4.4.45
-
Ṛk 6
सेदृ॑भवो॒ यमव॑थ यू॒यमिंद्र॑श्च॒ मर्त्यं॑ ।
स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् |
स धीभिर् अस्तु सनिता मेधसाता सो अर्वता ||sédṛbhavo yámávatha yūyámíndraśca mártyam ǀ
sá dhībhírastu sánitā medhásātā só árvatā ǁsed ṛbhavo yam avatha yūyam indraś ca martyam |
sa dhībhir astu sanitā medhasātā so arvatā ||सः । इत् । ऋ॒भ॒वः॒ । यम् । अव॑थ । यू॒यम् । इन्द्रः॑ । च॒ । मर्त्य॑म् ।
सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता । मे॒धऽसा॑ता । सः । अर्व॑ता ॥सः । इत् । ऋभवः । यम् । अवथ । यूयम् । इन्द्रः । च । मर्त्यम् ।
सः । धीभिः । अस्तु । सनिता । मेधऽसाता । सः । अर्वता ॥sáḥ ǀ ít ǀ ṛbhavaḥ ǀ yám ǀ ávatha ǀ yūyám ǀ índraḥ ǀ ca ǀ mártyam ǀ
sáḥ ǀ dhībhíḥ ǀ astu ǀ sánitā ǀ medhá-sātā ǀ sáḥ ǀ árvatā ǁsaḥ ǀ it ǀ ṛbhavaḥ ǀ yam ǀ avatha ǀ yūyam ǀ indraḥ ǀ ca ǀ martyam ǀ
saḥ ǀ dhībhiḥ ǀ astu ǀ sanitā ǀ medha-sātā ǀ saḥ ǀ arvatā ǁ4.37.6 Aṣṭaka 3.7.10.1Anuvāka 4.4.46
-
Ṛk 7
वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे ।
अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे |
अस्मभ्यं सूरय स्तुता विश्वा आशास् तरीषणि ||ví no vājā ṛbhukṣaṇaḥ patháścitana yáṣṭave ǀ
asmábhyam sūrayaḥ stutā́ víśvā ā́śāstarīṣáṇi ǁvi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave |
asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi ||वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट॑वे ।
अ॒स्मभ्य॑म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥वि । नः । वाजाः । ऋभुक्षणः । पथः । चितन । यष्टवे ।
अस्मभ्यम् । सूरयः । स्तुताः । विश्वाः । आशाः । तरीषणि ॥ví ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ patháḥ ǀ citana ǀ yáṣṭave ǀ
asmábhyam ǀ sūrayaḥ ǀ stutā́ḥ ǀ víśvāḥ ǀ ā́śāḥ ǀ tarīṣáṇi ǁvi ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ pathaḥ ǀ citana ǀ yaṣṭave ǀ
asmabhyam ǀ sūrayaḥ ǀ stutāḥ ǀ viśvāḥ ǀ āśāḥ ǀ tarīṣaṇi ǁ4.37.7 Aṣṭaka 3.7.10.2Anuvāka 4.4.47
-
Ṛk 8
तं नो॑ वाजा ऋभुक्षण॒ इंद्र॒ नास॑त्या र॒यिं ।
समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् |
सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ||tám no vājā ṛbhukṣaṇa índra nā́satyā rayím ǀ
sámáśvam carṣaṇíbhya ā́ purú śasta magháttaye ǁtaṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim |
sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye ||तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र॑ । नास॑त्या । र॒यिम् ।
सम् । अश्व॑म् । च॒र्ष॒णिऽभ्यः॑ । आ । पु॒रु । श॒स्त॒ । म॒घत्त॑ये ॥तम् । नः । वाजाः । ऋभुक्षणः । इन्द्र । नासत्या । रयिम् ।
सम् । अश्वम् । चर्षणिऽभ्यः । आ । पुरु । शस्त । मघत्तये ॥tám ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ índra ǀ nā́satyā ǀ rayím ǀ
sám ǀ áśvam ǀ carṣaṇí-bhyaḥ ǀ ā́ ǀ purú ǀ śasta ǀ magháttaye ǁtam ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ indra ǀ nāsatyā ǀ rayim ǀ
sam ǀ aśvam ǀ carṣaṇi-bhyaḥ ǀ ā ǀ puru ǀ śasta ǀ maghattaye ǁ4.37.8 Aṣṭaka 3.7.10.3Anuvāka 4.4.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.