Sūkta 39
- Devatā देवता
- Dadhikrā
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 5); svarāṭpaṅkti (2, 4); anuṣṭup (6)
2nd set of styles triṣṭubh (1-5); anuṣṭubh (6)
-
Ṛk 1
आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम ।
उ॒च्छंती॒र्मामु॒षसः॑ सूदयं॒त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन् ॥आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम |
उच्छन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् ||āśúm dadhikrā́m támu nú ṣṭavāma diváspṛthivyā́ utá carkirāma ǀ
ucchántīrmā́muṣásaḥ sūdayantváti víśvāni duritā́ni parṣan ǁāśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma |
ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan ||आ॒शुम् । द॒धि॒ऽक्राम् । तम् । ऊं॒ इति॑ । नु । स्त॒वा॒म॒ । दि॒वः । पृ॒थि॒व्याः । उ॒त । च॒र्कि॒रा॒म॒ ।
उ॒च्छन्तीः॑ । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒तानि॑ । प॒र्ष॒न् ॥आशुम् । दधिऽक्राम् । तम् । ऊं इति । नु । स्तवाम । दिवः । पृथिव्याः । उत । चर्किराम ।
उच्छन्तीः । माम् । उषसः । सूदयन्तु । अति । विश्वानि । दुःऽइतानि । पर्षन् ॥āśúm ǀ dadhi-krā́m ǀ tám ǀ ūṃ íti ǀ nú ǀ stavāma ǀ diváḥ ǀ pṛthivyā́ḥ ǀ utá ǀ carkirāma ǀ
ucchántīḥ ǀ mā́m ǀ uṣásaḥ ǀ sūdayantu ǀ áti ǀ víśvāni ǀ duḥ-itā́ni ǀ parṣan ǁāśum ǀ dadhi-krām ǀ tam ǀ ūṃ iti ǀ nu ǀ stavāma ǀ divaḥ ǀ pṛthivyāḥ ǀ uta ǀ carkirāma ǀ
ucchantīḥ ǀ mām ǀ uṣasaḥ ǀ sūdayantu ǀ ati ǀ viśvāni ǀ duḥ-itāni ǀ parṣan ǁ4.39.1 Aṣṭaka 3.7.13.1Anuvāka 4.4.59
-
Ṛk 2
म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ ।
यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिं ॥महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः |
यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा ततुरिम् ||maháścarkarmyárvataḥ kratuprā́ dadhikrā́vṇaḥ puruvā́rasya vṛ́ṣṇaḥ ǀ
yám pūrúbhyo dīdivā́ṃsam nā́gním dadáthurmitrāvaruṇā táturim ǁmahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ |
yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim ||म॒हः । च॒र्क॒र्मि॒ । अर्व॑तः । क्र॒तु॒ऽप्राः । द॒धि॒ऽक्राव्णः॑ । पु॒रु॒ऽवार॑स्य । वृष्णः॑ ।
यम् । पू॒रुऽभ्यः॑ । दी॒दि॒ऽवांस॑म् । न । अ॒ग्निम् । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । ततु॑रिम् ॥महः । चर्कर्मि । अर्वतः । क्रतुऽप्राः । दधिऽक्राव्णः । पुरुऽवारस्य । वृष्णः ।
यम् । पूरुऽभ्यः । दीदिऽवांसम् । न । अग्निम् । ददथुः । मित्रावरुणा । ततुरिम् ॥maháḥ ǀ carkarmi ǀ árvataḥ ǀ kratu-prā́ḥ ǀ dadhi-krā́vṇaḥ ǀ puru-vā́rasya ǀ vṛ́ṣṇaḥ ǀ
yám ǀ pūrú-bhyaḥ ǀ dīdi-vā́ṃsam ǀ ná ǀ agním ǀ dadáthuḥ ǀ mitrāvaruṇā ǀ táturim ǁmahaḥ ǀ carkarmi ǀ arvataḥ ǀ kratu-prāḥ ǀ dadhi-krāvṇaḥ ǀ puru-vārasya ǀ vṛṣṇaḥ ǀ
yam ǀ pūru-bhyaḥ ǀ dīdi-vāṃsam ǀ na ǀ agnim ǀ dadathuḥ ǀ mitrāvaruṇā ǀ taturim ǁ4.39.2 Aṣṭaka 3.7.13.2Anuvāka 4.4.60
-
Ṛk 3
यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ ।
अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः॑ ॥यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ |
अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ||yó áśvasya dadhikrā́vṇo ákārītsámiddhe agnā́ uṣáso vyúṣṭau ǀ
ánāgasam támáditiḥ kṛṇotu sá mitréṇa váruṇenā sajóṣāḥ ǁyo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau |
anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ ||यः । अश्व॑स्य । द॒धि॒ऽक्राव्णः॑ । अका॑रीत् । सम्ऽइ॑द्धे । अ॒ग्नौ । उ॒षसः॑ । विऽउ॑ष्टौ ।
अना॑गसम् । तम् । अदि॑तिः । कृ॒णो॒तु॒ । सः । मि॒त्रेण॑ । वरु॑णेन । स॒ऽजोषाः॑ ॥यः । अश्वस्य । दधिऽक्राव्णः । अकारीत् । सम्ऽइद्धे । अग्नौ । उषसः । विऽउष्टौ ।
अनागसम् । तम् । अदितिः । कृणोतु । सः । मित्रेण । वरुणेन । सऽजोषाः ॥yáḥ ǀ áśvasya ǀ dadhi-krā́vṇaḥ ǀ ákārīt ǀ sám-iddhe ǀ agnáu ǀ uṣásaḥ ǀ ví-uṣṭau ǀ
ánāgasam ǀ tám ǀ áditiḥ ǀ kṛṇotu ǀ sáḥ ǀ mitréṇa ǀ váruṇena ǀ sa-jóṣāḥ ǁyaḥ ǀ aśvasya ǀ dadhi-krāvṇaḥ ǀ akārīt ǀ sam-iddhe ǀ agnau ǀ uṣasaḥ ǀ vi-uṣṭau ǀ
anāgasam ǀ tam ǀ aditiḥ ǀ kṛṇotu ǀ saḥ ǀ mitreṇa ǀ varuṇena ǀ sa-joṣāḥ ǁ4.39.3 Aṣṭaka 3.7.13.3Anuvāka 4.4.61
-
Ṛk 4
द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रं ।
स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इंद्रं॒ वज्र॑बाहुं ॥दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् |
स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् ||dadhikrā́vṇa iṣá ūrjó mahó yádámanmahi marútām nā́ma bhadrám ǀ
svastáye váruṇam mitrámagním hávāmaha índram vájrabāhum ǁdadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram |
svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum ||द॒धि॒ऽक्राव्णः॑ । इ॒षः । ऊ॒र्जः । म॒हः । यत् । अम॑न्महि । म॒रुता॑म् । नाम॑ । भ॒द्रम् ।
स्व॒स्तये॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । हवा॑महे । इन्द्र॑म् । वज्र॑ऽबाहुम् ॥दधिऽक्राव्णः । इषः । ऊर्जः । महः । यत् । अमन्महि । मरुताम् । नाम । भद्रम् ।
स्वस्तये । वरुणम् । मित्रम् । अग्निम् । हवामहे । इन्द्रम् । वज्रऽबाहुम् ॥dadhi-krā́vṇaḥ ǀ iṣáḥ ǀ ūrjáḥ ǀ maháḥ ǀ yát ǀ ámanmahi ǀ marútām ǀ nā́ma ǀ bhadrám ǀ
svastáye ǀ váruṇam ǀ mitrám ǀ agním ǀ hávāmahe ǀ índram ǀ vájra-bāhum ǁdadhi-krāvṇaḥ ǀ iṣaḥ ǀ ūrjaḥ ǀ mahaḥ ǀ yat ǀ amanmahi ǀ marutām ǀ nāma ǀ bhadram ǀ
svastaye ǀ varuṇam ǀ mitram ǀ agnim ǀ havāmahe ǀ indram ǀ vajra-bāhum ǁ4.39.4 Aṣṭaka 3.7.13.4Anuvāka 4.4.62
-
Ṛk 5
इंद्र॑मि॒वेदु॒भये॒ वि ह्व॑यंत उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यंतः॑ ।
द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्वं॑ ॥इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः |
दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम् ||índramivédubháye ví hvayanta udī́rāṇā yajñámupaprayántaḥ ǀ
dadhikrā́mu sū́danam mártyāya dadáthurmitrāvaruṇā no áśvam ǁindram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ |
dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam ||इन्द्र॑म्ऽइव । इत् । उ॒भये॑ । वि । ह्व॒य॒न्ते॒ । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ ।
द॒धि॒ऽक्राम् । ऊं॒ इति॑ । सूद॑नम् । मर्त्या॑य । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । नः॒ । अश्व॑म् ॥इन्द्रम्ऽइव । इत् । उभये । वि । ह्वयन्ते । उत्ऽईराणाः । यज्ञम् । उपऽप्रयन्तः ।
दधिऽक्राम् । ऊं इति । सूदनम् । मर्त्याय । ददथुः । मित्रावरुणा । नः । अश्वम् ॥índram-iva ǀ ít ǀ ubháye ǀ ví ǀ hvayante ǀ ut-ī́rāṇāḥ ǀ yajñám ǀ upa-prayántaḥ ǀ
dadhi-krā́m ǀ ūṃ íti ǀ sū́danam ǀ mártyāya ǀ dadáthuḥ ǀ mitrāvaruṇā ǀ naḥ ǀ áśvam ǁindram-iva ǀ it ǀ ubhaye ǀ vi ǀ hvayante ǀ ut-īrāṇāḥ ǀ yajñam ǀ upa-prayantaḥ ǀ
dadhi-krām ǀ ūṃ iti ǀ sūdanam ǀ martyāya ǀ dadathuḥ ǀ mitrāvaruṇā ǀ naḥ ǀ aśvam ǁ4.39.5 Aṣṭaka 3.7.13.5Anuvāka 4.4.63
-
Ṛk 6
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः |
सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ||dadhikrā́vṇo akāriṣam jiṣṇóráśvasya vājínaḥ ǀ
surabhí no múkhā karatprá ṇa ā́yūṃṣi tāriṣat ǁdadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ |
surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat ||द॒धि॒ऽक्राव्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ ।
सु॒र॒भि । नः॒ । मुखा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥दधिऽक्राव्णः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः ।
सुरभि । नः । मुखा । करत् । प्र । नः । आयूंषि । तारिषत् ॥dadhi-krā́vṇaḥ ǀ akāriṣam ǀ jiṣṇóḥ ǀ áśvasya ǀ vājínaḥ ǀ
surabhí ǀ naḥ ǀ múkhā ǀ karat ǀ prá ǀ naḥ ǀ ā́yūṃṣi ǀ tāriṣat ǁdadhi-krāvṇaḥ ǀ akāriṣam ǀ jiṣṇoḥ ǀ aśvasya ǀ vājinaḥ ǀ
surabhi ǀ naḥ ǀ mukhā ǀ karat ǀ pra ǀ naḥ ǀ āyūṃṣi ǀ tāriṣat ǁ4.39.6 Aṣṭaka 3.7.13.6Anuvāka 4.4.64
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.