Ṛk 4.39.4
Saṃhitā
द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रं ।
स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इंद्रं॒ वज्र॑बाहुं ॥
दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् |
स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् ||
dadhikrā́vṇa iṣá ūrjó mahó yádámanmahi marútām nā́ma bhadrám ǀ
svastáye váruṇam mitrámagním hávāmaha índram vájrabāhum ǁ
dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram |
svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum ||
Padapāṭha
द॒धि॒ऽक्राव्णः॑ । इ॒षः । ऊ॒र्जः । म॒हः । यत् । अम॑न्महि । म॒रुता॑म् । नाम॑ । भ॒द्रम् ।
स्व॒स्तये॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । हवा॑महे । इन्द्र॑म् । वज्र॑ऽबाहुम् ॥
दधिऽक्राव्णः । इषः । ऊर्जः । महः । यत् । अमन्महि । मरुताम् । नाम । भद्रम् ।
स्वस्तये । वरुणम् । मित्रम् । अग्निम् । हवामहे । इन्द्रम् । वज्रऽबाहुम् ॥
dadhi-krā́vṇaḥ ǀ iṣáḥ ǀ ūrjáḥ ǀ maháḥ ǀ yát ǀ ámanmahi ǀ marútām ǀ nā́ma ǀ bhadrám ǀ
svastáye ǀ váruṇam ǀ mitrám ǀ agním ǀ hávāmahe ǀ índram ǀ vájra-bāhum ǁ
dadhi-krāvṇaḥ ǀ iṣaḥ ǀ ūrjaḥ ǀ mahaḥ ǀ yat ǀ amanmahi ǀ marutām ǀ nāma ǀ bhadram ǀ
svastaye ǀ varuṇam ǀ mitram ǀ agnim ǀ havāmahe ǀ indram ǀ vajra-bāhum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.039.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.13.04
- Maṇḍala · Anuvāka · Ṛk
- 04.04.062
- Devatā देवता
- Dadhikrā
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.