Ṛgveda · Maṇḍala 4

Sūkta 17

Indra · Vāmadeva Gautama · 21 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh, Ekapadā Virāj
Metres by ṛk

1st set of styles triṣṭup (3-6, 8, 10, 11, 20); nicṛttriṣṭup (2, 12, 13, 17-19); bhurikpaṅkti (7, 9); svarāṭpaṅkti (14, 16); paṅktiḥ (1); yājuṣīpaṅkti (15); nicṛtpaṅkti (21)

2nd set of styles triṣṭubh (1-14, 16-21); ekapadā virāj (15)

  1. Ṛk 1

    त्वं म॒हाँ इं॑द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः ।
    त्वं वृ॒त्रं शव॑सा जघ॒न्वान्त्सृ॒जः सिंधूँ॒रहि॑ना जग्रसा॒नान् ॥

    त्वम् महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना मन्यत द्यौः |
    त्वं वृत्रं शवसा जघन्वान् सृजः सिन्धूंर् अहिना जग्रसानान् ||

    tvám mahā́m̐ indra túbhyam ha kṣā́ ánu kṣatrám maṃhánā manyata dyáuḥ ǀ
    tvám vṛtrám śávasā jaghanvā́ntsṛjáḥ síndhūm̐ráhinā jagrasānā́n ǁ

    tvam mahāṃ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ |
    tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān ||

    त्वम् । म॒हान् । इ॒न्द्र॒ । तुभ्य॑म् । ह॒ । क्षाः । अनु॑ । क्ष॒त्रम् । मं॒हना॑ । म॒न्य॒त॒ । द्यौः ।
    त्वम् । वृ॒त्रम् । शव॑सा । ज॒घ॒न्वान् । सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् ॥

    त्वम् । महान् । इन्द्र । तुभ्यम् । ह । क्षाः । अनु । क्षत्रम् । मंहना । मन्यत । द्यौः ।
    त्वम् । वृत्रम् । शवसा । जघन्वान् । सृजः । सिन्धून् । अहिना । जग्रसानान् ॥

    tvám ǀ mahā́n ǀ indra ǀ túbhyam ǀ ha ǀ kṣā́ḥ ǀ ánu ǀ kṣatrám ǀ maṃhánā ǀ manyata ǀ dyáuḥ ǀ
    tvám ǀ vṛtrám ǀ śávasā ǀ jaghanvā́n ǀ sṛjáḥ ǀ síndhūn ǀ áhinā ǀ jagrasānā́n ǁ

    tvam ǀ mahān ǀ indra ǀ tubhyam ǀ ha ǀ kṣāḥ ǀ anu ǀ kṣatram ǀ maṃhanā ǀ manyata ǀ dyauḥ ǀ
    tvam ǀ vṛtram ǀ śavasā ǀ jaghanvān ǀ sṛjaḥ ǀ sindhūn ǀ ahinā ǀ jagrasānān ǁ

    4.17.1 Aṣṭaka 3.5.21.1Anuvāka 4.2.54

  2. Ṛk 2

    तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः ।
    ऋ॒घा॒यंत॑ सु॒भ्वः१॒॑ पर्व॑तास॒ आर्दं॒धन्वा॑नि स॒रयं॑त॒ आपः॑ ॥

    तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः |
    ऋघायन्त सुभ्वः पर्वतास आर्दन् धन्वानि सरयन्त आपः ||

    táva tviṣó jánimanrejata dyáu réjadbhū́mirbhiyásā svásya manyóḥ ǀ
    ṛghāyánta subhváḥ párvatāsa ā́rdandhánvāni saráyanta ā́paḥ ǁ

    tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ |
    ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ ||

    तव॑ । त्वि॒षः । जनि॑मन् । रे॒ज॒त॒ । द्यौः । रेज॑त् । भूमिः॑ । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।
    ऋ॒घा॒यन्त॑ । सु॒ऽभ्वः॑ । पर्व॑तासः । आर्द॑न् । धन्वा॑नि । स॒रय॑न्ते । आपः॑ ॥

    तव । त्विषः । जनिमन् । रेजत । द्यौः । रेजत् । भूमिः । भियसा । स्वस्य । मन्योः ।
    ऋघायन्त । सुऽभ्वः । पर्वतासः । आर्दन् । धन्वानि । सरयन्ते । आपः ॥

    táva ǀ tviṣáḥ ǀ jániman ǀ rejata ǀ dyáuḥ ǀ réjat ǀ bhū́miḥ ǀ bhiyásā ǀ svásya ǀ manyóḥ ǀ
    ṛghāyánta ǀ su-bhváḥ ǀ párvatāsaḥ ǀ ā́rdan ǀ dhánvāni ǀ saráyante ǀ ā́paḥ ǁ

    tava ǀ tviṣaḥ ǀ janiman ǀ rejata ǀ dyauḥ ǀ rejat ǀ bhūmiḥ ǀ bhiyasā ǀ svasya ǀ manyoḥ ǀ
    ṛghāyanta ǀ su-bhvaḥ ǀ parvatāsaḥ ǀ ārdan ǀ dhanvāni ǀ sarayante ǀ āpaḥ ǁ

    4.17.2 Aṣṭaka 3.5.21.2Anuvāka 4.2.55

  3. Ṛk 3

    भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ ।
    वधी॑द्वृ॒त्रं वज्रे॑ण मंदसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥

    भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः |
    वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः ||

    bhinádgirím śávasā vájramiṣṇánnāviṣkṛṇvānáḥ sahasāná ójaḥ ǀ
    vádhīdvṛtrám vájreṇa mandasānáḥ sárannā́po jávasā hatávṛṣṇīḥ ǁ

    bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ |
    vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ ||

    भि॒नत् । गि॒रिम् । शव॑सा । वज्र॑म् । इ॒ष्णन् । आ॒विः॒ऽकृ॒ण्वा॒नः । स॒ह॒सा॒नः । ओजः॑ ।
    वधी॑त् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । सर॑न् । आपः॑ । जव॑सा । ह॒तऽवृ॑ष्णीः ॥

    भिनत् । गिरिम् । शवसा । वज्रम् । इष्णन् । आविःऽकृण्वानः । सहसानः । ओजः ।
    वधीत् । वृत्रम् । वज्रेण । मन्दसानः । सरन् । आपः । जवसा । हतऽवृष्णीः ॥

    bhinát ǀ girím ǀ śávasā ǀ vájram ǀ iṣṇán ǀ āviḥ-kṛṇvānáḥ ǀ sahasānáḥ ǀ ójaḥ ǀ
    vádhīt ǀ vṛtrám ǀ vájreṇa ǀ mandasānáḥ ǀ sáran ǀ ā́paḥ ǀ jávasā ǀ hatá-vṛṣṇīḥ ǁ

    bhinat ǀ girim ǀ śavasā ǀ vajram ǀ iṣṇan ǀ āviḥ-kṛṇvānaḥ ǀ sahasānaḥ ǀ ojaḥ ǀ
    vadhīt ǀ vṛtram ǀ vajreṇa ǀ mandasānaḥ ǀ saran ǀ āpaḥ ǀ javasā ǀ hata-vṛṣṇīḥ ǁ

    4.17.3 Aṣṭaka 3.5.21.3Anuvāka 4.2.56

  4. Ṛk 4

    सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिंद्र॑स्य क॒र्ता स्वप॑स्तमो भूत् ।
    य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥

    सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् |
    य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम ||

    suvī́raste janitā́ manyata dyáuríndrasya kartā́ svápastamo bhūt ǀ
    yá īm jajā́na svaryám suvájramánapacyutam sádaso ná bhū́ma ǁ

    suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt |
    ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma ||

    सु॒ऽवीरः॑ । ते॒ । ज॒नि॒ता । म॒न्य॒त॒ । द्यौः । इन्द्र॑स्य । क॒र्ता । स्वपः॑ऽतमः । भू॒त् ।
    यः । ई॒म् । ज॒जान॑ । स्व॒र्य॑म् । सु॒ऽवज्र॑म् । अन॑पऽच्युतम् । सद॑सः । न । भूम॑ ॥

    सुऽवीरः । ते । जनिता । मन्यत । द्यौः । इन्द्रस्य । कर्ता । स्वपःऽतमः । भूत् ।
    यः । ईम् । जजान । स्वर्यम् । सुऽवज्रम् । अनपऽच्युतम् । सदसः । न । भूम ॥

    su-vī́raḥ ǀ te ǀ janitā́ ǀ manyata ǀ dyáuḥ ǀ índrasya ǀ kartā́ ǀ svápaḥ-tamaḥ ǀ bhūt ǀ
    yáḥ ǀ īm ǀ jajā́na ǀ svaryám ǀ su-vájram ǀ ánapa-cyutam ǀ sádasaḥ ǀ ná ǀ bhū́ma ǁ

    su-vīraḥ ǀ te ǀ janitā ǀ manyata ǀ dyauḥ ǀ indrasya ǀ kartā ǀ svapaḥ-tamaḥ ǀ bhūt ǀ
    yaḥ ǀ īm ǀ jajāna ǀ svaryam ǀ su-vajram ǀ anapa-cyutam ǀ sadasaḥ ǀ na ǀ bhūma ǁ

    4.17.4 Aṣṭaka 3.5.21.4Anuvāka 4.2.57

  5. Ṛk 5

    य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑ ।
    स॒त्यमे॑न॒मनु॒ विश्वे॑ मदंति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ॥

    य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः |
    सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ||

    yá éka iccyāváyati prá bhū́mā rā́jā kṛṣṭīnā́m puruhūtá índraḥ ǀ
    satyámenamánu víśve madanti rātím devásya gṛṇató maghónaḥ ǁ

    ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ |
    satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ ||

    यः । एकः॑ । इत् । च्य॒वय॑ति । प्र । भूम॑ । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
    स॒त्यम् । ए॒न॒म् । अनु॑ । विश्वे॑ । म॒द॒न्ति॒ । रा॒तिम् । दे॒वस्य॑ । गृ॒ण॒तः । म॒घोनः॑ ॥

    यः । एकः । इत् । च्यवयति । प्र । भूम । राजा । कृष्टीनाम् । पुरुऽहूतः । इन्द्रः ।
    सत्यम् । एनम् । अनु । विश्वे । मदन्ति । रातिम् । देवस्य । गृणतः । मघोनः ॥

    yáḥ ǀ ékaḥ ǀ ít ǀ cyaváyati ǀ prá ǀ bhū́ma ǀ rā́jā ǀ kṛṣṭīnā́m ǀ puru-hūtáḥ ǀ índraḥ ǀ
    satyám ǀ enam ǀ ánu ǀ víśve ǀ madanti ǀ rātím ǀ devásya ǀ gṛṇatáḥ ǀ maghónaḥ ǁ

    yaḥ ǀ ekaḥ ǀ it ǀ cyavayati ǀ pra ǀ bhūma ǀ rājā ǀ kṛṣṭīnām ǀ puru-hūtaḥ ǀ indraḥ ǀ
    satyam ǀ enam ǀ anu ǀ viśve ǀ madanti ǀ rātim ǀ devasya ǀ gṛṇataḥ ǀ maghonaḥ ǁ

    4.17.5 Aṣṭaka 3.5.21.5Anuvāka 4.2.58

  6. Ṛk 6

    स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः ।
    स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इंद्र कृ॒ष्टीः ॥

    सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः |
    सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ||

    satrā́ sómā abhavannasya víśve satrā́ mádāso bṛható mádiṣṭhāḥ ǀ
    satrā́bhavo vásupatirvásūnām dátre víśvā adhithā indra kṛṣṭī́ḥ ǁ

    satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ |
    satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ ||

    स॒त्रा । सोमाः॑ । अ॒भ॒व॒न् । अ॒स्य॒ । विश्वे॑ । स॒त्रा । मदा॑सः । बृ॒ह॒तः । मदि॑ष्ठाः ।
    स॒त्रा । अ॒भ॒वः॒ । वसु॑ऽपतिः । वसू॑नाम् । दत्रे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ॥

    सत्रा । सोमाः । अभवन् । अस्य । विश्वे । सत्रा । मदासः । बृहतः । मदिष्ठाः ।
    सत्रा । अभवः । वसुऽपतिः । वसूनाम् । दत्रे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः ॥

    satrā́ ǀ sómāḥ ǀ abhavan ǀ asya ǀ víśve ǀ satrā́ ǀ mádāsaḥ ǀ bṛhatáḥ ǀ mádiṣṭhāḥ ǀ
    satrā́ ǀ abhavaḥ ǀ vásu-patiḥ ǀ vásūnām ǀ dátre ǀ víśvāḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭī́ḥ ǁ

    satrā ǀ somāḥ ǀ abhavan ǀ asya ǀ viśve ǀ satrā ǀ madāsaḥ ǀ bṛhataḥ ǀ madiṣṭhāḥ ǀ
    satrā ǀ abhavaḥ ǀ vasu-patiḥ ǀ vasūnām ǀ datre ǀ viśvāḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭīḥ ǁ

    4.17.6 Aṣṭaka 3.5.22.1Anuvāka 4.2.59

  7. Ṛk 7

    त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इंद्र कृ॒ष्टीः ।
    त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥

    त्वम् अध प्रथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः |
    त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि वृश्चः ||

    tvámádha prathamám jā́yamānó’me víśvā adhithā indra kṛṣṭī́ḥ ǀ
    tvám práti praváta āśáyānamáhim vájreṇa maghavanví vṛścaḥ ǁ

    tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ |
    tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ ||

    त्वम् । अध॑ । प्र॒थ॒मम् । जाय॑मानः । अमे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।
    त्वम् । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । म॒घ॒ऽव॒न् । वि । वृ॒श्चः॒ ॥

    त्वम् । अध । प्रथमम् । जायमानः । अमे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः ।
    त्वम् । प्रति । प्रऽवतः । आऽशयानम् । अहिम् । वज्रेण । मघऽवन् । वि । वृश्चः ॥

    tvám ǀ ádha ǀ prathamám ǀ jā́yamānaḥ ǀ áme ǀ víśvāḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭī́ḥ ǀ
    tvám ǀ práti ǀ pra-vátaḥ ǀ ā-śáyānam ǀ áhim ǀ vájreṇa ǀ magha-van ǀ ví ǀ vṛścaḥ ǁ

    tvam ǀ adha ǀ prathamam ǀ jāyamānaḥ ǀ ame ǀ viśvāḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭīḥ ǀ
    tvam ǀ prati ǀ pra-vataḥ ǀ ā-śayānam ǀ ahim ǀ vajreṇa ǀ magha-van ǀ vi ǀ vṛścaḥ ǁ

    4.17.7 Aṣṭaka 3.5.22.2Anuvāka 4.2.60

  8. Ṛk 8

    स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिंद्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्रं॑ ।
    हंता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधाः॑ ॥

    सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं सुवज्रम् |
    हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ||

    satrāháṇam dā́dhṛṣim túmramíndram mahā́mapārám vṛṣabhám suvájram ǀ
    hántā yó vṛtrám sánitotá vā́jam dā́tā maghā́ni maghávā surā́dhāḥ ǁ

    satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram |
    hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ ||

    स॒त्रा॒ऽहन॑न् । दधृ॑षिम् । तुम्र॑म् । इन्द्र॑म् । म॒हाम् । अ॒पा॒रम् । वृ॒ष॒भम् । सु॒ऽवज्र॑म् ।
    हन्ता॑ । यः । वृ॒त्रम् । सनि॑ता । उ॒त । वाज॑म् । दाता॑ । म॒घानि॑ । म॒घऽवा॑ । सु॒ऽराधाः॑ ॥

    सत्राऽहनन् । दधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । वृषभम् । सुऽवज्रम् ।
    हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघऽवा । सुऽराधाः ॥

    satrā-hánan ǀ dádhṛṣim ǀ túmram ǀ índram ǀ mahā́m ǀ apārám ǀ vṛṣabhám ǀ su-vájram ǀ
    hántā ǀ yáḥ ǀ vṛtrám ǀ sánitā ǀ utá ǀ vā́jam ǀ dā́tā ǀ maghā́ni ǀ maghá-vā ǀ su-rā́dhāḥ ǁ

    satrā-hanan ǀ dadhṛṣim ǀ tumram ǀ indram ǀ mahām ǀ apāram ǀ vṛṣabham ǀ su-vajram ǀ
    hantā ǀ yaḥ ǀ vṛtram ǀ sanitā ǀ uta ǀ vājam ǀ dātā ǀ maghāni ǀ magha-vā ǀ su-rādhāḥ ǁ

    4.17.8 Aṣṭaka 3.5.22.3Anuvāka 4.2.61

  9. Ṛk 9

    अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एकः॑ ।
    अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या॑म ॥

    अयं वृतश् चातयते समीचीर् य आजिषु मघवा शृण्व एकः |
    अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम ||

    ayám vṛ́taścātayate samīcī́ryá ājíṣu maghávā śṛṇvá ékaḥ ǀ
    ayám vā́jam bharati yám sanótyasyá priyā́saḥ sakhyé syāma ǁ

    ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ |
    ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma ||

    अ॒यम् । वृतः॑ । चा॒त॒य॒ते॒ । स॒म्ऽई॒चीः । यः । आ॒जिषु॑ । म॒घऽवा॑ । शृ॒ण्वे । एकः॑ ।
    अ॒यम् । वाज॑म् । भ॒र॒ति॒ । यम् । स॒नोति॑ । अ॒स्य । प्रि॒यासः॑ । स॒ख्ये । स्या॒म॒ ॥

    अयम् । वृतः । चातयते । सम्ऽईचीः । यः । आजिषु । मघऽवा । शृण्वे । एकः ।
    अयम् । वाजम् । भरति । यम् । सनोति । अस्य । प्रियासः । सख्ये । स्याम ॥

    ayám ǀ vṛ́taḥ ǀ cātayate ǀ sam-īcī́ḥ ǀ yáḥ ǀ ājíṣu ǀ maghá-vā ǀ śṛṇvé ǀ ékaḥ ǀ
    ayám ǀ vā́jam ǀ bharati ǀ yám ǀ sanóti ǀ asyá ǀ priyā́saḥ ǀ sakhyé ǀ syāma ǁ

    ayam ǀ vṛtaḥ ǀ cātayate ǀ sam-īcīḥ ǀ yaḥ ǀ ājiṣu ǀ magha-vā ǀ śṛṇve ǀ ekaḥ ǀ
    ayam ǀ vājam ǀ bharati ǀ yam ǀ sanoti ǀ asya ǀ priyāsaḥ ǀ sakhye ǀ syāma ǁ

    4.17.9 Aṣṭaka 3.5.22.4Anuvāka 4.2.62

  10. Ṛk 10

    अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।
    य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिंद्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥

    अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः |
    यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृऌहम् भयत एजद् अस्मात् ||

    ayám śṛṇve ádha jáyannutá ghnánnayámutá prá kṛṇute yudhā́ gā́ḥ ǀ
    yadā́ satyám kṛṇuté manyúmíndro víśvam dṛḷhám bhayata éjadasmāt ǁ

    ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ |
    yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḷham bhayata ejad asmāt ||

    अ॒यम् । शृ॒ण्वे॒ । अध॑ । जय॑न् । उ॒त । घ्नन् । अ॒यम् । उ॒त । प्र । कृ॒णु॒ते॒ । यु॒धा । गाः ।
    य॒दा । स॒त्यम् । कृ॒णु॒ते । म॒न्युम् । इन्द्रः॑ । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । एज॑त् । अ॒स्मा॒त् ॥

    अयम् । शृण्वे । अध । जयन् । उत । घ्नन् । अयम् । उत । प्र । कृणुते । युधा । गाः ।
    यदा । सत्यम् । कृणुते । मन्युम् । इन्द्रः । विश्वम् । दृळ्हम् । भयते । एजत् । अस्मात् ॥

    ayám ǀ śṛṇve ǀ ádha ǀ jáyan ǀ utá ǀ ghnán ǀ ayám ǀ utá ǀ prá ǀ kṛṇute ǀ yudhā́ ǀ gā́ḥ ǀ
    yadā́ ǀ satyám ǀ kṛṇuté ǀ manyúm ǀ índraḥ ǀ víśvam ǀ dṛḷhám ǀ bhayate ǀ éjat ǀ asmāt ǁ

    ayam ǀ śṛṇve ǀ adha ǀ jayan ǀ uta ǀ ghnan ǀ ayam ǀ uta ǀ pra ǀ kṛṇute ǀ yudhā ǀ gāḥ ǀ
    yadā ǀ satyam ǀ kṛṇute ǀ manyum ǀ indraḥ ǀ viśvam ǀ dṛḷham ǀ bhayate ǀ ejat ǀ asmāt ǁ

    4.17.10 Aṣṭaka 3.5.22.5Anuvāka 4.2.63

  11. Ṛk 11

    समिंद्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः ।
    ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता सं॑भ॒रश्च॒ वस्वः॑ ॥

    सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः |
    एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः ||

    sámíndro gā́ ajayatsám híraṇyā sámaśviyā́ maghávā yó ha pūrvī́ḥ ǀ
    ebhírnṛ́bhirnṛ́tamo asya śākái rāyó vibhaktā́ sambharáśca vásvaḥ ǁ

    sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ |
    ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ ||

    सम् । इन्द्रः॑ । गाः । अ॒ज॒य॒त् । सम् । हिर॑ण्या । सम् । अ॒श्वि॒या । म॒घऽवा॑ । यः । ह॒ । पू॒र्वीः ।
    ए॒भिः । नृऽभिः॑ । नृऽत॑मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒ऽभ॒क्ता । स॒म्ऽभ॒रः । च॒ । वस्वः॑ ॥

    सम् । इन्द्रः । गाः । अजयत् । सम् । हिरण्या । सम् । अश्विया । मघऽवा । यः । ह । पूर्वीः ।
    एभिः । नृऽभिः । नृऽतमः । अस्य । शाकैः । रायः । विऽभक्ता । सम्ऽभरः । च । वस्वः ॥

    sám ǀ índraḥ ǀ gā́ḥ ǀ ajayat ǀ sám ǀ híraṇyā ǀ sám ǀ aśviyā́ ǀ maghá-vā ǀ yáḥ ǀ ha ǀ pūrvī́ḥ ǀ
    ebhíḥ ǀ nṛ́-bhiḥ ǀ nṛ́-tamaḥ ǀ asya ǀ śākáiḥ ǀ rāyáḥ ǀ vi-bhaktā́ ǀ sam-bharáḥ ǀ ca ǀ vásvaḥ ǁ

    sam ǀ indraḥ ǀ gāḥ ǀ ajayat ǀ sam ǀ hiraṇyā ǀ sam ǀ aśviyā ǀ magha-vā ǀ yaḥ ǀ ha ǀ pūrvīḥ ǀ
    ebhiḥ ǀ nṛ-bhiḥ ǀ nṛ-tamaḥ ǀ asya ǀ śākaiḥ ǀ rāyaḥ ǀ vi-bhaktā ǀ sam-bharaḥ ǀ ca ǀ vasvaḥ ǁ

    4.17.11 Aṣṭaka 3.5.23.1Anuvāka 4.2.64

  12. Ṛk 12

    किय॑त्स्वि॒दिंद्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ ।
    यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥

    कियत् स्विद् इन्द्रो अध्य् एति मातुः कियत् पितुर् जनितुर् यो जजान |
    यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर् अभ्रैः ||

    kíyatsvidíndro ádhyeti mātúḥ kíyatpitúrjanitúryó jajā́na ǀ
    yó asya śúṣmam muhukáiríyarti vā́to ná jūtáḥ stanáyadbhirabhráiḥ ǁ

    kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna |
    yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ ||

    किय॑त् । स्वि॒त् । इन्द्रः॑ । अधि॑ । ए॒ति॒ । मा॒तुः । किय॑त् । पि॒तुः । ज॒नि॒तुः । यः । ज॒जान॑ ।
    यः । अ॒स्य॒ । शुष्म॑म् । मु॒हु॒कैः । इय॑र्ति । वातः॑ । न । जू॒तः । स्त॒नय॑त्ऽभिः । अ॒भ्रैः ॥

    कियत् । स्वित् । इन्द्रः । अधि । एति । मातुः । कियत् । पितुः । जनितुः । यः । जजान ।
    यः । अस्य । शुष्मम् । मुहुकैः । इयर्ति । वातः । न । जूतः । स्तनयत्ऽभिः । अभ्रैः ॥

    kíyat ǀ svit ǀ índraḥ ǀ ádhi ǀ eti ǀ mātúḥ ǀ kíyat ǀ pitúḥ ǀ janitúḥ ǀ yáḥ ǀ jajā́na ǀ
    yáḥ ǀ asya ǀ śúṣmam ǀ muhukáiḥ ǀ íyarti ǀ vā́taḥ ǀ ná ǀ jūtáḥ ǀ stanáyat-bhiḥ ǀ abhráiḥ ǁ

    kiyat ǀ svit ǀ indraḥ ǀ adhi ǀ eti ǀ mātuḥ ǀ kiyat ǀ pituḥ ǀ janituḥ ǀ yaḥ ǀ jajāna ǀ
    yaḥ ǀ asya ǀ śuṣmam ǀ muhukaiḥ ǀ iyarti ǀ vātaḥ ǀ na ǀ jūtaḥ ǀ stanayat-bhiḥ ǀ abhraiḥ ǁ

    4.17.12 Aṣṭaka 3.5.23.2Anuvāka 4.2.65

  13. Ṛk 13

    क्षि॒यंतं॑ त्व॒मक्षि॑यंतं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोहं॑ ।
    वि॒भं॒ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥

    क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा समोहम् |
    विभञ्जनुर् अशनिमां इव द्यौर् उत स्तोतारम् मघवा वसौ धात् ||

    kṣiyántam tvamákṣiyantam kṛṇotī́yarti reṇúm maghávā samóham ǀ
    vibhañjanúraśánimām̐ iva dyáurutá stotā́ram maghávā vásau dhāt ǁ

    kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham |
    vibhañjanur aśanimāṃ iva dyaur uta stotāram maghavā vasau dhāt ||

    क्षि॒यन्त॑म् । त्व॒म् । अक्षि॑यन्तम् । कृ॒णो॒ति॒ । इय॑र्ति । रे॒णुम् । म॒घऽवा॑ । स॒म्ऽओह॑म् ।
    वि॒ऽभ॒ञ्ज॒नुः । अ॒शनि॑मान्ऽइव । द्यौः । उ॒त । स्तो॒तार॑म् । म॒घऽवा॑ । वसौ॑ । धा॒त् ॥

    क्षियन्तम् । त्वम् । अक्षियन्तम् । कृणोति । इयर्ति । रेणुम् । मघऽवा । सम्ऽओहम् ।
    विऽभञ्जनुः । अशनिमान्ऽइव । द्यौः । उत । स्तोतारम् । मघऽवा । वसौ । धात् ॥

    kṣiyántam ǀ tvam ǀ ákṣiyantam ǀ kṛṇoti ǀ íyarti ǀ reṇúm ǀ maghá-vā ǀ sam-óham ǀ
    vi-bhañjanúḥ ǀ aśánimān-iva ǀ dyáuḥ ǀ utá ǀ stotā́ram ǀ maghá-vā ǀ vásau ǀ dhāt ǁ

    kṣiyantam ǀ tvam ǀ akṣiyantam ǀ kṛṇoti ǀ iyarti ǀ reṇum ǀ magha-vā ǀ sam-oham ǀ
    vi-bhañjanuḥ ǀ aśanimān-iva ǀ dyauḥ ǀ uta ǀ stotāram ǀ magha-vā ǀ vasau ǀ dhāt ǁ

    4.17.13 Aṣṭaka 3.5.23.3Anuvāka 4.2.66

  14. Ṛk 14

    अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णं ।
    आ कृ॒ष्ण ईं॑ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ॥

    अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत् ससृमाणम् |
    आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ||

    ayám cakrámiṣaṇatsū́ryasya nyétaśam rīramatsasṛmāṇám ǀ
    ā́ kṛṣṇá īm juhurāṇó jigharti tvacó budhné rájaso asyá yónau ǁ

    ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam |
    ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau ||

    अ॒यम् । च॒क्रम् । इ॒ष॒ण॒त् । सूर्य॑स्य । नि । एत॑शम् । री॒र॒म॒त् । स॒सृ॒मा॒णम् ।
    आ । कृ॒ष्णः । ई॒म् । जु॒हु॒रा॒णः । जि॒घ॒र्ति॒ । त्व॒चः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ ॥

    अयम् । चक्रम् । इषणत् । सूर्यस्य । नि । एतशम् । रीरमत् । ससृमाणम् ।
    आ । कृष्णः । ईम् । जुहुराणः । जिघर्ति । त्वचः । बुध्ने । रजसः । अस्य । योनौ ॥

    ayám ǀ cakrám ǀ iṣaṇat ǀ sū́ryasya ǀ ní ǀ étaśam ǀ rīramat ǀ sasṛmāṇám ǀ
    ā́ ǀ kṛṣṇáḥ ǀ īm ǀ juhurāṇáḥ ǀ jigharti ǀ tvacáḥ ǀ budhné ǀ rájasaḥ ǀ asyá ǀ yónau ǁ

    ayam ǀ cakram ǀ iṣaṇat ǀ sūryasya ǀ ni ǀ etaśam ǀ rīramat ǀ sasṛmāṇam ǀ
    ā ǀ kṛṣṇaḥ ǀ īm ǀ juhurāṇaḥ ǀ jigharti ǀ tvacaḥ ǀ budhne ǀ rajasaḥ ǀ asya ǀ yonau ǁ

    4.17.14 Aṣṭaka 3.5.23.4Anuvāka 4.2.67

  15. Ṛk 15

    असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥

    असिक्न्यां यजमानो न होता ||

    ásiknyām yájamāno ná hótā ǁ

    asiknyāṃ yajamāno na hotā ||

    असि॑क्न्याम् । यज॑मानः । न । होता॑ ॥

    असिक्न्याम् । यजमानः । न । होता ॥

    ásiknyām ǀ yájamānaḥ ǀ ná ǀ hótā ǁ

    asiknyām ǀ yajamānaḥ ǀ na ǀ hotā ǁ

    4.17.15 Aṣṭaka 3.5.23.5Anuvāka 4.2.68

  16. Ṛk 16

    ग॒व्यंत॒ इंद्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यंतो॒ वृष॑णं वा॒जयं॑तः ।
    ज॒नी॒यंतो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोशं॑ ॥

    गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः |
    जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम् ||

    gavyánta índram sakhyā́ya víprā aśvāyánto vṛ́ṣaṇam vājáyantaḥ ǀ
    janīyánto janidā́mákṣitotimā́ cyāvayāmo’vaté ná kóśam ǁ

    gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ |
    janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam ||

    ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ।
    ज॒नि॒ऽयन्तः॑ । ज॒नि॒ऽदाम् । अक्षि॑तऽऊतिम् । आ । च्य॒व॒या॒मः॒ । अ॒व॒ते । न । कोश॑म् ॥

    गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वऽयन्तः । वृषणम् । वाजयन्तः ।
    जनिऽयन्तः । जनिऽदाम् । अक्षितऽऊतिम् । आ । च्यवयामः । अवते । न । कोशम् ॥

    gavyántaḥ ǀ índram ǀ sakhyā́ya ǀ víprāḥ ǀ aśva-yántaḥ ǀ vṛ́ṣaṇam ǀ vājáyantaḥ ǀ
    jani-yántaḥ ǀ jani-dā́m ǀ ákṣita-ūtim ǀ ā́ ǀ cyavayāmaḥ ǀ avaté ǀ ná ǀ kóśam ǁ

    gavyantaḥ ǀ indram ǀ sakhyāya ǀ viprāḥ ǀ aśva-yantaḥ ǀ vṛṣaṇam ǀ vājayantaḥ ǀ
    jani-yantaḥ ǀ jani-dām ǀ akṣita-ūtim ǀ ā ǀ cyavayāmaḥ ǀ avate ǀ na ǀ kośam ǁ

    4.17.16 Aṣṭaka 3.5.24.1Anuvāka 4.2.69

  17. Ṛk 17

    त्रा॒ता नो॑ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्यानां॑ ।
    सखा॑ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते॑मु लो॒कमु॑श॒ते व॑यो॒धाः ॥

    त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् |
    सखा पिता पितृतमः पितॄणां कर्तेम् उ लोकम् उशते वयोधाः ||

    trātā́ no bodhi dádṛśāna āpírabhikhyātā́ marḍitā́ somyā́nām ǀ
    sákhā pitā́ pitṛ́tamaḥ pitṝṇā́m kártemu lokámuśaté vayodhā́ḥ ǁ

    trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām |
    sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ ||

    त्रा॒ता । नः॒ । बो॒धि॒ । ददृ॑शानः । आ॒पिः । अ॒भि॒ऽख्या॒ता । म॒र्डि॒ता । सो॒म्याना॑म् ।
    सखा॑ । पि॒ता । पि॒तृऽत॑मः । पि॒तॄ॒णाम् । कर्ता॑ । ई॒म् । ऊं॒ इति॑ । लो॒कम् । उ॒श॒ते । व॒यः॒ऽधाः ॥

    त्राता । नः । बोधि । ददृशानः । आपिः । अभिऽख्याता । मर्डिता । सोम्यानाम् ।
    सखा । पिता । पितृऽतमः । पितॄणाम् । कर्ता । ईम् । ऊं इति । लोकम् । उशते । वयःऽधाः ॥

    trātā́ ǀ naḥ ǀ bodhi ǀ dádṛśānaḥ ǀ āpíḥ ǀ abhi-khyātā́ ǀ marḍitā́ ǀ somyā́nām ǀ
    sákhā ǀ pitā́ ǀ pitṛ́-tamaḥ ǀ pitṝṇā́m ǀ kártā ǀ īm ǀ ūṃ íti ǀ lokám ǀ uśaté ǀ vayaḥ-dhā́ḥ ǁ

    trātā ǀ naḥ ǀ bodhi ǀ dadṛśānaḥ ǀ āpiḥ ǀ abhi-khyātā ǀ marḍitā ǀ somyānām ǀ
    sakhā ǀ pitā ǀ pitṛ-tamaḥ ǀ pitṝṇām ǀ kartā ǀ īm ǀ ūṃ iti ǀ lokam ǀ uśate ǀ vayaḥ-dhāḥ ǁ

    4.17.17 Aṣṭaka 3.5.24.2Anuvāka 4.2.70

  18. Ṛk 18

    स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इं॑द्र स्तुव॒ते वयो॑ धाः ।
    व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हयं॑त इंद्र ॥

    सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः |
    वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र ||

    sakhīyatā́mavitā́ bodhi sákhā gṛṇāná indra stuvaté váyo dhāḥ ǀ
    vayám hyā́ te cakṛmā́ sabā́dha ābhíḥ śámībhirmaháyanta indra ǁ

    sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ |
    vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra ||

    स॒खि॒ऽय॒ताम् । अ॒वि॒ता । बो॒धि॒ । सखा॑ । गृ॒णा॒नः । इ॒न्द्र॒ । स्तु॒व॒ते । वयः॑ । धाः॒ ।
    व॒यम् । हि । आ । ते॒ । च॒कृ॒म । स॒ऽबाधः॑ । आ॒भिः । शमी॑भिः । म॒हय॑न्तः । इ॒न्द्र॒ ॥

    सखिऽयताम् । अविता । बोधि । सखा । गृणानः । इन्द्र । स्तुवते । वयः । धाः ।
    वयम् । हि । आ । ते । चकृम । सऽबाधः । आभिः । शमीभिः । महयन्तः । इन्द्र ॥

    sakhi-yatā́m ǀ avitā́ ǀ bodhi ǀ sákhā ǀ gṛṇānáḥ ǀ indra ǀ stuvaté ǀ váyaḥ ǀ dhāḥ ǀ
    vayám ǀ hí ǀ ā́ ǀ te ǀ cakṛmá ǀ sa-bā́dhaḥ ǀ ābhíḥ ǀ śámībhiḥ ǀ maháyantaḥ ǀ indra ǁ

    sakhi-yatām ǀ avitā ǀ bodhi ǀ sakhā ǀ gṛṇānaḥ ǀ indra ǀ stuvate ǀ vayaḥ ǀ dhāḥ ǀ
    vayam ǀ hi ǀ ā ǀ te ǀ cakṛma ǀ sa-bādhaḥ ǀ ābhiḥ ǀ śamībhiḥ ǀ mahayantaḥ ǀ indra ǁ

    4.17.18 Aṣṭaka 3.5.24.3Anuvāka 4.2.71

  19. Ṛk 19

    स्तु॒त इंद्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हंति ।
    अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रयं॑ते॒ न मर्ताः॑ ॥

    स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति |
    अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः ||

    stutá índro maghávā yáddha vṛtrā́ bhū́rīṇyéko apratī́ni hanti ǀ
    asyá priyó jaritā́ yásya śármannákirdevā́ vāráyante ná mártāḥ ǁ

    stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti |
    asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ ||

    स्तु॒तः । इन्द्रः॑ । म॒घऽवा॑ । यत् । ह॒ । वृ॒त्रा । भूरी॑णि । एकः॑ । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ।
    अ॒स्य । प्रि॒यः । ज॒रि॒ता । यस्य॑ । शर्म॑न् । नकिः॑ । दे॒वाः । वा॒रय॑न्ते । न । मर्ताः॑ ॥

    स्तुतः । इन्द्रः । मघऽवा । यत् । ह । वृत्रा । भूरीणि । एकः । अप्रतीनि । हन्ति ।
    अस्य । प्रियः । जरिता । यस्य । शर्मन् । नकिः । देवाः । वारयन्ते । न । मर्ताः ॥

    stutáḥ ǀ índraḥ ǀ maghá-vā ǀ yát ǀ ha ǀ vṛtrā́ ǀ bhū́rīṇi ǀ ékaḥ ǀ apratī́ni ǀ hanti ǀ
    asyá ǀ priyáḥ ǀ jaritā́ ǀ yásya ǀ śárman ǀ nákiḥ ǀ devā́ḥ ǀ vāráyante ǀ ná ǀ mártāḥ ǁ

    stutaḥ ǀ indraḥ ǀ magha-vā ǀ yat ǀ ha ǀ vṛtrā ǀ bhūrīṇi ǀ ekaḥ ǀ apratīni ǀ hanti ǀ
    asya ǀ priyaḥ ǀ jaritā ǀ yasya ǀ śarman ǀ nakiḥ ǀ devāḥ ǀ vārayante ǀ na ǀ martāḥ ǁ

    4.17.19 Aṣṭaka 3.5.24.4Anuvāka 4.2.72

  20. Ṛk 20

    ए॒वा न॒ इंद्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा ।
    त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥

    एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा |
    त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज् जरित्रे ||

    evā́ na índro maghávā virapśī́ káratsatyā́ carṣaṇīdhṛ́danarvā́ ǀ
    tvám rā́jā janúṣām dhehyasmé ádhi śrávo mā́hinam yájjaritré ǁ

    evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā |
    tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre ||

    ए॒व । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । वि॒ऽर॒प्शी । कर॑त् । स॒त्या । च॒र्ष॒णि॒ऽधृत् । अ॒न॒र्वा ।
    त्वम् । राजा॑ । ज॒नुषा॑म् । धे॒हि॒ । अ॒स्मे इति॑ । अधि॑ । श्रवः॑ । माहि॑नम् । यत् । ज॒रि॒त्रे ॥

    एव । नः । इन्द्रः । मघऽवा । विऽरप्शी । करत् । सत्या । चर्षणिऽधृत् । अनर्वा ।
    त्वम् । राजा । जनुषाम् । धेहि । अस्मे इति । अधि । श्रवः । माहिनम् । यत् । जरित्रे ॥

    evá ǀ naḥ ǀ índraḥ ǀ maghá-vā ǀ vi-rapśī́ ǀ kárat ǀ satyā́ ǀ carṣaṇi-dhṛ́t ǀ anarvā́ ǀ
    tvám ǀ rā́jā ǀ janúṣām ǀ dhehi ǀ asmé íti ǀ ádhi ǀ śrávaḥ ǀ mā́hinam ǀ yát ǀ jaritré ǁ

    eva ǀ naḥ ǀ indraḥ ǀ magha-vā ǀ vi-rapśī ǀ karat ǀ satyā ǀ carṣaṇi-dhṛt ǀ anarvā ǀ
    tvam ǀ rājā ǀ januṣām ǀ dhehi ǀ asme iti ǀ adhi ǀ śravaḥ ǀ māhinam ǀ yat ǀ jaritre ǁ

    4.17.20 Aṣṭaka 3.5.24.5Anuvāka 4.2.73

  21. Ṛk 21

    नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
    अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

    नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः |
    अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ||

    nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ
    ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

    nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
    akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

    नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
    अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

    नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।
    अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

    nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ
    ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

    nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ
    akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ

    4.17.21 Aṣṭaka 3.5.24.6Anuvāka 4.2.74

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.17 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

GREAT art thou, Indra; yea, the earth, with gladness, and heaven confess to thee thine high dominion. Thou in thy vigour having slaughtered Vṛtra didst free the floods arrested by the Dragon.

Ṛk 2

Heaven trembled at the birth of thine effulgence; Earth trembled at the fear of thy displeasure. The stedfast mountains shook in agitation . the waters flowed, and desert spots were flooded.

Ṛk 3

Hurling his bolt with might he cleft the mountain, while, putting forth his strength, he showed his vigour. He slaughtered Vṛtra with his bolt, exulting, and, their lord slain, forth flowed the waters swiftly.

Ṛk 4

Thy Father Dyaus esteemed himself a hero: most noble was the work of Indra's Maker, His who begat the strong bolt's Lord who roareth, immovable like earth from her foundation.

Ṛk 5

He who alone o’erthrows the world of creatures, Indra the peoples' King, invoked of many- Verily all rejoice in him, extolling the boons which Maghavan the God hath sent them.

Ṛk 6

All Soma juices are his own for ever, most gladdening draughts are ever his, the Mighty, Thou ever wast the Treasure-Lord of treasures: Indra, thou lettest all folk share thy bounty.

Ṛk 7

Moreover, when thou first wast born, O Indra, thou struckest terror into all the people. Thou, Maghavan, rentest with thy bolt the Dragon who lay against the waterfloods of heaven.

Ṛk 8

The ever-slaying, bold and furious Indra, the bright bolt's Lord, infinite, strong and mighty, Who slayeth Vṛtra and acquireth booty, giver of blessings, Maghavan the bounteous:

Ṛk 9

Alone renowned as Maghavan in battles, he frighteneth away assembled armies. He bringeth us the booty that he winneth may we, well-loved, continue in his friendship.

Ṛk 10

Renowned is he when conquering and when slaying: 'fis he who winneth cattle in the combat. When Indra hardeneth his indignation all that is fixed and all that moveth fear him.

Ṛk 11

Indra hath won all kine, all gold, all horses,—Maghavan, he who breaketh forts in pieces; Most manly with these men of his who help him, dealing out wealth and gathering the treasure.

Ṛk 12

What is the care of Indra for his Mother, what cares he for the Father who begat him? His care is that which speeds his might in conflicts, like wind borne onward by the clouds that thunder.

Ṛk 13

Maghavan makes the settled man unsettled: he scatters dust that he hath swept together, Breaking in pieces like Heaven armed with lightning: Maghavan shall enrich the man who lauds h;m.

Ṛk 14

He urged the chariot-wheel of Sūrya forward: Etaśa, speeding on his way, he rested. Him the black undulating cloud bedeweth, in this mid-air's depth, at the base of darkness,

Ṛk 15

As in the night the sacrificing priest.

Ṛk 16

Eager for booty, craving strength and horses, we-singers stir Indra, the strong, for friendship, Who gives the wives we seek, whose succour fails not, to hasten, like a pitcher to the fountain.

Ṛk 17

Be thou our guardian, show thyself our kinsman, watching and blessing those who pour the Soma; As Friend, as Sire, most fatherly of fathers giving the suppliant vital strength and freedom.

Ṛk 18

Be helping Friend of those who seek thy friendship . give life, when lauded, Indra, to the singer. For, Indra, we the priests have paid thee worship, exalting thee with these our sacrifices.

Ṛk 19

Alone, when Indra Maghavan is lauded, he slayeth many ne’er-resisted Vṛtras. Him in whose keeping is the well-loved singer never do Gods or mortals stay or hinder.

Ṛk 20

E’en so let Maghavan, the loud-voiced Indra, give us true blessings, foeless, men's upholder. King of all creatures, give us glory amply, exalted glory due to him who lauds thee.