Ṛk 4.17.11
Saṃhitā
समिंद्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः ।
ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता सं॑भ॒रश्च॒ वस्वः॑ ॥
सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह पूर्वीः |
एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः ||
sámíndro gā́ ajayatsám híraṇyā sámaśviyā́ maghávā yó ha pūrvī́ḥ ǀ
ebhírnṛ́bhirnṛ́tamo asya śākái rāyó vibhaktā́ sambharáśca vásvaḥ ǁ
sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ |
ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ ||
Padapāṭha
सम् । इन्द्रः॑ । गाः । अ॒ज॒य॒त् । सम् । हिर॑ण्या । सम् । अ॒श्वि॒या । म॒घऽवा॑ । यः । ह॒ । पू॒र्वीः ।
ए॒भिः । नृऽभिः॑ । नृऽत॑मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒ऽभ॒क्ता । स॒म्ऽभ॒रः । च॒ । वस्वः॑ ॥
सम् । इन्द्रः । गाः । अजयत् । सम् । हिरण्या । सम् । अश्विया । मघऽवा । यः । ह । पूर्वीः ।
एभिः । नृऽभिः । नृऽतमः । अस्य । शाकैः । रायः । विऽभक्ता । सम्ऽभरः । च । वस्वः ॥
sám ǀ índraḥ ǀ gā́ḥ ǀ ajayat ǀ sám ǀ híraṇyā ǀ sám ǀ aśviyā́ ǀ maghá-vā ǀ yáḥ ǀ ha ǀ pūrvī́ḥ ǀ
ebhíḥ ǀ nṛ́-bhiḥ ǀ nṛ́-tamaḥ ǀ asya ǀ śākáiḥ ǀ rāyáḥ ǀ vi-bhaktā́ ǀ sam-bharáḥ ǀ ca ǀ vásvaḥ ǁ
sam ǀ indraḥ ǀ gāḥ ǀ ajayat ǀ sam ǀ hiraṇyā ǀ sam ǀ aśviyā ǀ magha-vā ǀ yaḥ ǀ ha ǀ pūrvīḥ ǀ
ebhiḥ ǀ nṛ-bhiḥ ǀ nṛ-tamaḥ ǀ asya ǀ śākaiḥ ǀ rāyaḥ ǀ vi-bhaktā ǀ sam-bharaḥ ǀ ca ǀ vasvaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.017.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.23.01
- Maṇḍala · Anuvāka · Ṛk
- 04.02.064
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.