Ṛk 4.17.10
Saṃhitā
अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।
य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिंद्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥
अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः |
यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृऌहम् भयत एजद् अस्मात् ||
ayám śṛṇve ádha jáyannutá ghnánnayámutá prá kṛṇute yudhā́ gā́ḥ ǀ
yadā́ satyám kṛṇuté manyúmíndro víśvam dṛḷhám bhayata éjadasmāt ǁ
ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ |
yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḷham bhayata ejad asmāt ||
Padapāṭha
अ॒यम् । शृ॒ण्वे॒ । अध॑ । जय॑न् । उ॒त । घ्नन् । अ॒यम् । उ॒त । प्र । कृ॒णु॒ते॒ । यु॒धा । गाः ।
य॒दा । स॒त्यम् । कृ॒णु॒ते । म॒न्युम् । इन्द्रः॑ । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । एज॑त् । अ॒स्मा॒त् ॥
अयम् । शृण्वे । अध । जयन् । उत । घ्नन् । अयम् । उत । प्र । कृणुते । युधा । गाः ।
यदा । सत्यम् । कृणुते । मन्युम् । इन्द्रः । विश्वम् । दृळ्हम् । भयते । एजत् । अस्मात् ॥
ayám ǀ śṛṇve ǀ ádha ǀ jáyan ǀ utá ǀ ghnán ǀ ayám ǀ utá ǀ prá ǀ kṛṇute ǀ yudhā́ ǀ gā́ḥ ǀ
yadā́ ǀ satyám ǀ kṛṇuté ǀ manyúm ǀ índraḥ ǀ víśvam ǀ dṛḷhám ǀ bhayate ǀ éjat ǀ asmāt ǁ
ayam ǀ śṛṇve ǀ adha ǀ jayan ǀ uta ǀ ghnan ǀ ayam ǀ uta ǀ pra ǀ kṛṇute ǀ yudhā ǀ gāḥ ǀ
yadā ǀ satyam ǀ kṛṇute ǀ manyum ǀ indraḥ ǀ viśvam ǀ dṛḷham ǀ bhayate ǀ ejat ǀ asmāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.017.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.22.05
- Maṇḍala · Anuvāka · Ṛk
- 04.02.063
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.