Sūkta 23
- Devatā देवता
- 1-7, 11: Indra; 8-10: Indra, Ṛtam
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1-3, 7-9); nicṛttriṣṭup (4, 10); bhurikpaṅkti (5, 6); nicṛtpaṅkti (11)
2nd set of styles triṣṭubh
-
Ṛk 1
क॒था म॒हाम॑वृध॒त्कस्य॒ होतु॑र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ ।
पिब॑न्नुशा॒नो जु॒षमा॑णो॒ अंधो॑ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना॑य ॥कथा महाम् अवृधत् कस्य होतुर् यज्ञं जुषाणो अभि सोमम् ऊधः |
पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ||kathā́ mahā́mavṛdhatkásya hóturyajñám juṣāṇó abhí sómamū́dhaḥ ǀ
píbannuśānó juṣámāṇo ándho vavakṣá ṛṣváḥ śucaté dhánāya ǁkathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ |
pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya ||क॒था । म॒हाम् । अ॒वृ॒ध॒त् । कस्य॑ । होतुः॑ । य॒ज्ञम् । जु॒षा॒णः । अ॒भि । सोम॑म् । ऊधः॑ ।
पिब॑न् । उ॒शा॒नः । जु॒षमा॑णः । अन्धः॑ । व॒व॒क्षे । ऋ॒ष्वः । शु॒च॒ते । धना॑य ॥कथा । महाम् । अवृधत् । कस्य । होतुः । यज्ञम् । जुषाणः । अभि । सोमम् । ऊधः ।
पिबन् । उशानः । जुषमाणः । अन्धः । ववक्षे । ऋष्वः । शुचते । धनाय ॥kathā́ ǀ mahā́m ǀ avṛdhat ǀ kásya ǀ hótuḥ ǀ yajñám ǀ juṣāṇáḥ ǀ abhí ǀ sómam ǀ ū́dhaḥ ǀ
píban ǀ uśānáḥ ǀ juṣámāṇaḥ ǀ ándhaḥ ǀ vavakṣé ǀ ṛṣváḥ ǀ śucaté ǀ dhánāya ǁkathā ǀ mahām ǀ avṛdhat ǀ kasya ǀ hotuḥ ǀ yajñam ǀ juṣāṇaḥ ǀ abhi ǀ somam ǀ ūdhaḥ ǀ
piban ǀ uśānaḥ ǀ juṣamāṇaḥ ǀ andhaḥ ǀ vavakṣe ǀ ṛṣvaḥ ǀ śucate ǀ dhanāya ǁ4.23.1 Aṣṭaka 3.6.9.1Anuvāka 4.3.12
-
Ṛk 2
को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा॑नंश सुम॒तिभिः॒ को अ॑स्य ।
कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः॑ ॥को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को अस्य |
कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः ||kó asya vīráḥ sadhamā́damāpa sámānaṃśa sumatíbhiḥ kó asya ǀ
kádasya citrám cikite kádūtī́ vṛdhé bhuvacchaśamānásya yájyoḥ ǁko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya |
kad asya citraṃ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyoḥ ||कः । अ॒स्य॒ । वी॒रः । स॒ध॒ऽमाद॑म् । आ॒प॒ । सम् । आ॒नं॒श॒ । सु॒म॒तिऽभिः॑ । कः । अ॒स्य॒ ।
कत् । अ॒स्य॒ । चि॒त्रम् । चि॒कि॒ते॒ । कत् । ऊ॒ती । वृ॒धे । भु॒व॒त् । श॒श॒मा॒नस्य॑ । यज्योः॑ ॥कः । अस्य । वीरः । सधऽमादम् । आप । सम् । आनंश । सुमतिऽभिः । कः । अस्य ।
कत् । अस्य । चित्रम् । चिकिते । कत् । ऊती । वृधे । भुवत् । शशमानस्य । यज्योः ॥káḥ ǀ asya ǀ vīráḥ ǀ sadha-mā́dam ǀ āpa ǀ sám ǀ ānaṃśa ǀ sumatí-bhiḥ ǀ káḥ ǀ asya ǀ
kát ǀ asya ǀ citrám ǀ cikite ǀ kát ǀ ūtī́ ǀ vṛdhé ǀ bhuvat ǀ śaśamānásya ǀ yájyoḥ ǁkaḥ ǀ asya ǀ vīraḥ ǀ sadha-mādam ǀ āpa ǀ sam ǀ ānaṃśa ǀ sumati-bhiḥ ǀ kaḥ ǀ asya ǀ
kat ǀ asya ǀ citram ǀ cikite ǀ kat ǀ ūtī ǀ vṛdhe ǀ bhuvat ǀ śaśamānasya ǀ yajyoḥ ǁ4.23.2 Aṣṭaka 3.6.9.2Anuvāka 4.3.13
-
Ṛk 3
क॒था शृ॑णोति हू॒यमा॑न॒मिंद्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद ।
का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ॥कथा शृणोति हूयमानम् इन्द्रः कथा शृण्वन्न् अवसाम् अस्य वेद |
का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं जरित्रे ||kathā́ śṛṇoti hūyámānamíndraḥ kathā́ śṛṇvánnávasāmasya veda ǀ
kā́ asya pūrvī́rúpamātayo ha katháinamāhuḥ pápurim jaritré ǁkathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda |
kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre ||क॒था । शृ॒णो॒ति॒ । हू॒यमा॑नम् । इन्द्रः॑ । क॒था । शृ॒ण्वन् । अव॑साम् । अ॒स्य॒ । वे॒द॒ ।
काः । अ॒स्य॒ । पू॒र्वीः । उप॑ऽमातयः । ह॒ । क॒था । ए॒न॒म् । आ॒हुः॒ । पपु॑रिम् । ज॒रि॒त्रे ॥कथा । शृणोति । हूयमानम् । इन्द्रः । कथा । शृण्वन् । अवसाम् । अस्य । वेद ।
काः । अस्य । पूर्वीः । उपऽमातयः । ह । कथा । एनम् । आहुः । पपुरिम् । जरित्रे ॥kathā́ ǀ śṛṇoti ǀ hūyámānam ǀ índraḥ ǀ kathā́ ǀ śṛṇván ǀ ávasām ǀ asya ǀ veda ǀ
kā́ḥ ǀ asya ǀ pūrvī́ḥ ǀ úpa-mātayaḥ ǀ ha ǀ kathā́ ǀ enam ǀ āhuḥ ǀ pápurim ǀ jaritré ǁkathā ǀ śṛṇoti ǀ hūyamānam ǀ indraḥ ǀ kathā ǀ śṛṇvan ǀ avasām ǀ asya ǀ veda ǀ
kāḥ ǀ asya ǀ pūrvīḥ ǀ upa-mātayaḥ ǀ ha ǀ kathā ǀ enam ǀ āhuḥ ǀ papurim ǀ jaritre ǁ4.23.3 Aṣṭaka 3.6.9.3Anuvāka 4.3.14
-
Ṛk 4
क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः ।
दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं दीध्यानः |
देवो भुवन् नवेदा म ऋतानां नमो जगृभ्वां अभि यज् जुजोषत् ||kathā́ sabā́dhaḥ śaśamānó asya náśadabhí dráviṇam dī́dhyānaḥ ǀ
devó bhuvannávedā ma ṛtā́nām námo jagṛbhvā́m̐ abhí yájjújoṣat ǁkathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ |
devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṃ abhi yaj jujoṣat ||क॒था । स॒ऽबाधः॑ । श॒श॒मा॒नः । अ॒स्य॒ । नश॑त् । अ॒भि । द्रवि॑णम् । दीध्या॑नः ।
दे॒वः । भु॒व॒त् । नवे॑दाः । मे॒ । ऋ॒ताना॑म् । नमः॑ । ज॒गृ॒भ्वान् । अ॒भि । यत् । जुजो॑षत् ॥कथा । सऽबाधः । शशमानः । अस्य । नशत् । अभि । द्रविणम् । दीध्यानः ।
देवः । भुवत् । नवेदाः । मे । ऋतानाम् । नमः । जगृभ्वान् । अभि । यत् । जुजोषत् ॥kathā́ ǀ sa-bā́dhaḥ ǀ śaśamānáḥ ǀ asya ǀ náśat ǀ abhí ǀ dráviṇam ǀ dī́dhyānaḥ ǀ
deváḥ ǀ bhuvat ǀ návedāḥ ǀ me ǀ ṛtā́nām ǀ námaḥ ǀ jagṛbhvā́n ǀ abhí ǀ yát ǀ jújoṣat ǁkathā ǀ sa-bādhaḥ ǀ śaśamānaḥ ǀ asya ǀ naśat ǀ abhi ǀ draviṇam ǀ dīdhyānaḥ ǀ
devaḥ ǀ bhuvat ǀ navedāḥ ǀ me ǀ ṛtānām ǀ namaḥ ǀ jagṛbhvān ǀ abhi ǀ yat ǀ jujoṣat ǁ4.23.4 Aṣṭaka 3.6.9.4Anuvāka 4.3.15
-
Ṛk 5
क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष ।
क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं॑ सु॒युजं॑ तत॒स्रे ॥कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष |
कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं ततस्रे ||kathā́ kádasyā́ uṣáso vyúṣṭau devó mártasya sakhyám jujoṣa ǀ
kathā́ kádasya sakhyám sákhibhyo yé asminkā́mam suyújam tatasré ǁkathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa |
kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre ||क॒था । कत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । दे॒वः । मर्त॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।
क॒था । कत् । अ॒स्य॒ । स॒ख्यम् । सखि॑ऽभ्यः । ये । अ॒स्मि॒न् । काम॑म् । सु॒ऽयुज॑म् । त॒त॒स्रे ॥कथा । कत् । अस्याः । उषसः । विऽउष्टौ । देवः । मर्तस्य । सख्यम् । जुजोष ।
कथा । कत् । अस्य । सख्यम् । सखिऽभ्यः । ये । अस्मिन् । कामम् । सुऽयुजम् । ततस्रे ॥kathā́ ǀ kát ǀ asyā́ḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ deváḥ ǀ mártasya ǀ sakhyám ǀ jujoṣa ǀ
kathā́ ǀ kát ǀ asya ǀ sakhyám ǀ sákhi-bhyaḥ ǀ yé ǀ asmin ǀ kā́mam ǀ su-yújam ǀ tatasré ǁkathā ǀ kat ǀ asyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ devaḥ ǀ martasya ǀ sakhyam ǀ jujoṣa ǀ
kathā ǀ kat ǀ asya ǀ sakhyam ǀ sakhi-bhyaḥ ǀ ye ǀ asmin ǀ kāmam ǀ su-yujam ǀ tatasre ǁ4.23.5 Aṣṭaka 3.6.9.5Anuvāka 4.3.16
-
Ṛk 6
किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते॑ भ्रा॒त्रं प्र ब्र॑वाम ।
श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॒॑र्ण चि॒त्रत॑ममिष॒ आ गोः ॥किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम |
श्रिये सुदृशो वपुर् अस्य सर्गाः स्वर् ण चित्रतमम् इष आ गोः ||kímā́dámatram sakhyám sákhibhyaḥ kadā́ nú te bhrātrám prá bravāma ǀ
śriyé sudṛ́śo vápurasya sárgāḥ svárṇá citrátamamiṣa ā́ góḥ ǁkim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma |
śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ ||किम् । आत् । अम॑त्रम् । स॒ख्यम् । सखि॑ऽभ्यः । क॒दा । नु । ते॒ । भ्रा॒त्रम् । प्र । ब्र॒वा॒म॒ ।
श्रि॒ये । सु॒ऽदृशः॑ । वपुः॑ । अ॒स्य॒ । सर्गाः॑ । स्वः॑ । न । चि॒त्रऽत॑मम् । इ॒षे॒ । आ । गोः ॥किम् । आत् । अमत्रम् । सख्यम् । सखिऽभ्यः । कदा । नु । ते । भ्रात्रम् । प्र । ब्रवाम ।
श्रिये । सुऽदृशः । वपुः । अस्य । सर्गाः । स्वः । न । चित्रऽतमम् । इषे । आ । गोः ॥kím ǀ ā́t ǀ ámatram ǀ sakhyám ǀ sákhi-bhyaḥ ǀ kadā́ ǀ nú ǀ te ǀ bhrātrám ǀ prá ǀ bravāma ǀ
śriyé ǀ su-dṛ́śaḥ ǀ vápuḥ ǀ asya ǀ sárgāḥ ǀ sváḥ ǀ ná ǀ citrá-tamam ǀ iṣe ǀ ā́ ǀ góḥ ǁkim ǀ āt ǀ amatram ǀ sakhyam ǀ sakhi-bhyaḥ ǀ kadā ǀ nu ǀ te ǀ bhrātram ǀ pra ǀ bravāma ǀ
śriye ǀ su-dṛśaḥ ǀ vapuḥ ǀ asya ǀ sargāḥ ǀ svaḥ ǀ na ǀ citra-tamam ǀ iṣe ǀ ā ǀ goḥ ǁ4.23.6 Aṣṭaka 3.6.10.1Anuvāka 4.3.17
-
Ṛk 7
द्रुहं॒ जिघां॑संध्व॒रस॑मनिं॒द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी॑का ।
ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा॑ता उ॒षसो॑ बबा॒धे ॥द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका |
ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ||drúham jíghāṃsandhvarásamanindrā́m tétikte tigmā́ tujáse ánīkā ǀ
ṛṇā́ cidyátra ṛṇayā́ na ugró dūré ájñātā uṣáso babādhé ǁdruhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā |
ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe ||द्रुह॑म् । जिघां॑सन् । ध्व॒रस॑म् । अ॒नि॒न्द्राम् । तेति॑क्ते । ति॒ग्मा । तु॒जसे॑ । अनी॑का ।
ऋ॒णा । चि॒त् । यत्र॑ । ऋ॒ण॒ऽयाः । नः॒ । उ॒ग्रः । दू॒रे । अज्ञा॑ताः । उ॒षसः॑ । ब॒बा॒धे ॥द्रुहम् । जिघांसन् । ध्वरसम् । अनिन्द्राम् । तेतिक्ते । तिग्मा । तुजसे । अनीका ।
ऋणा । चित् । यत्र । ऋणऽयाः । नः । उग्रः । दूरे । अज्ञाताः । उषसः । बबाधे ॥drúham ǀ jíghāṃsan ǀ dhvarásam ǀ anindrā́m ǀ tétikte ǀ tigmā́ ǀ tujáse ǀ ánīkā ǀ
ṛṇā́ ǀ cit ǀ yátra ǀ ṛṇa-yā́ḥ ǀ naḥ ǀ ugráḥ ǀ dūré ǀ ájñātāḥ ǀ uṣásaḥ ǀ babādhé ǁdruham ǀ jighāṃsan ǀ dhvarasam ǀ anindrām ǀ tetikte ǀ tigmā ǀ tujase ǀ anīkā ǀ
ṛṇā ǀ cit ǀ yatra ǀ ṛṇa-yāḥ ǀ naḥ ǀ ugraḥ ǀ dūre ǀ ajñātāḥ ǀ uṣasaḥ ǀ babādhe ǁ4.23.7 Aṣṭaka 3.6.10.2Anuvāka 4.3.18
-
Ṛk 8
ऋ॒तस्य॒ हि शु॒रुधः॒ संति॑ पू॒र्वीर्ऋ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हंति ।
ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति |
ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ||ṛtásya hí śurúdhaḥ sánti pūrvī́rṛtásya dhītírvṛjinā́ni hanti ǀ
ṛtásya ślóko badhirā́ tatarda kárṇā budhānáḥ śucámāna āyóḥ ǁṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti |
ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ ||ऋ॒तस्य॑ । हि । शु॒रुधः॑ । सन्ति॑ । पू॒र्वीः । ऋ॒तस्य॑ । धी॒तिः । वृ॒जि॒नानि॑ । ह॒न्ति॒ ।
ऋ॒तस्य॑ । श्लोकः॑ । ब॒धि॒रा । त॒त॒र्द॒ । कर्णा॑ । बु॒धा॒नः । शु॒चमा॑नः । आ॒योः ॥ऋतस्य । हि । शुरुधः । सन्ति । पूर्वीः । ऋतस्य । धीतिः । वृजिनानि । हन्ति ।
ऋतस्य । श्लोकः । बधिरा । ततर्द । कर्णा । बुधानः । शुचमानः । आयोः ॥ṛtásya ǀ hí ǀ śurúdhaḥ ǀ sánti ǀ pūrvī́ḥ ǀ ṛtásya ǀ dhītíḥ ǀ vṛjinā́ni ǀ hanti ǀ
ṛtásya ǀ ślókaḥ ǀ badhirā́ ǀ tatarda ǀ kárṇā ǀ budhānáḥ ǀ śucámānaḥ ǀ āyóḥ ǁṛtasya ǀ hi ǀ śurudhaḥ ǀ santi ǀ pūrvīḥ ǀ ṛtasya ǀ dhītiḥ ǀ vṛjināni ǀ hanti ǀ
ṛtasya ǀ ślokaḥ ǀ badhirā ǀ tatarda ǀ karṇā ǀ budhānaḥ ǀ śucamānaḥ ǀ āyoḥ ǁ4.23.8 Aṣṭaka 3.6.10.3Anuvāka 4.3.19
-
Ṛk 9
ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा॑नि संति पु॒रूणि॑ चं॒द्रा वपु॑षे॒ वपूं॑षि ।
ऋ॒तेन॑ दी॒र्घमि॑षणंत॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥ऋतस्य दृऌहा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि |
ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः ||ṛtásya dṛḷhā́ dharúṇāni santi purū́ṇi candrā́ vápuṣe vápūṃṣi ǀ
ṛténa dīrghámiṣaṇanta pṛ́kṣa ṛténa gā́va ṛtámā́ viveśuḥ ǁṛtasya dṛḷhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi |
ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ ||ऋ॒तस्य॑ । दृ॒ळ्हा । ध॒रुणा॑नि । स॒न्ति॒ । पु॒रूणि॑ । च॒न्द्रा । वपु॑षे । वपूं॑षि ।
ऋ॒तेन॑ । दी॒र्घम् । इ॒ष॒ण॒न्त॒ । पृक्षः॑ । ऋ॒तेन॑ । गावः॑ । ऋ॒तम् । आ । वि॒वे॒शुः॒ ॥ऋतस्य । दृळ्हा । धरुणानि । सन्ति । पुरूणि । चन्द्रा । वपुषे । वपूंषि ।
ऋतेन । दीर्घम् । इषणन्त । पृक्षः । ऋतेन । गावः । ऋतम् । आ । विवेशुः ॥ṛtásya ǀ dṛḷhā́ ǀ dharúṇāni ǀ santi ǀ purū́ṇi ǀ candrā́ ǀ vápuṣe ǀ vápūṃṣi ǀ
ṛténa ǀ dīrghám ǀ iṣaṇanta ǀ pṛ́kṣaḥ ǀ ṛténa ǀ gā́vaḥ ǀ ṛtám ǀ ā́ ǀ viveśuḥ ǁṛtasya ǀ dṛḷhā ǀ dharuṇāni ǀ santi ǀ purūṇi ǀ candrā ǀ vapuṣe ǀ vapūṃṣi ǀ
ṛtena ǀ dīrgham ǀ iṣaṇanta ǀ pṛkṣaḥ ǀ ṛtena ǀ gāvaḥ ǀ ṛtam ǀ ā ǀ viveśuḥ ǁ4.23.9 Aṣṭaka 3.6.10.4Anuvāka 4.3.20
-
Ṛk 10
ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः ।
ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः |
ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ||ṛtám yemāná ṛtámídvanotyṛtásya śúṣmasturayā́ u gavyúḥ ǀ
ṛtā́ya pṛthvī́ bahulé gabhīré ṛtā́ya dhenū́ paramé duhāte ǁṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ |
ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte ||ऋ॒तम् । ये॒मा॒नः । ऋ॒तम् । इत् । व॒नो॒ति॒ । ऋ॒तस्य॑ । शुष्मः॑ । तु॒र॒ऽयाः । ऊं॒ इति॑ । ग॒व्युः ।
ऋ॒ताय॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । ग॒भी॒रे इति॑ । ऋ॒ताय॑ । धे॒नू इति॑ । प॒र॒मे इति॑ । दु॒हा॒ते॒ इति॑ ॥ऋतम् । येमानः । ऋतम् । इत् । वनोति । ऋतस्य । शुष्मः । तुरऽयाः । ऊं इति । गव्युः ।
ऋताय । पृथ्वी इति । बहुले इति । गभीरे इति । ऋताय । धेनू इति । परमे इति । दुहाते इति ॥ṛtám ǀ yemānáḥ ǀ ṛtám ǀ ít ǀ vanoti ǀ ṛtásya ǀ śúṣmaḥ ǀ tura-yā́ḥ ǀ ūṃ íti ǀ gavyúḥ ǀ
ṛtā́ya ǀ pṛthvī́ íti ǀ bahulé íti ǀ gabhīré íti ǀ ṛtā́ya ǀ dhenū́ íti ǀ paramé íti ǀ duhāte íti ǁṛtam ǀ yemānaḥ ǀ ṛtam ǀ it ǀ vanoti ǀ ṛtasya ǀ śuṣmaḥ ǀ tura-yāḥ ǀ ūṃ iti ǀ gavyuḥ ǀ
ṛtāya ǀ pṛthvī iti ǀ bahule iti ǀ gabhīre iti ǀ ṛtāya ǀ dhenū iti ǀ parame iti ǀ duhāte iti ǁ4.23.10 Aṣṭaka 3.6.10.5Anuvāka 4.3.21
-
Ṛk 11
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ||nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ
ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁnū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।
अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ
ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁnu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ
akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ4.23.11 Aṣṭaka 3.6.10.6Anuvāka 4.3.22
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.