Ṛgveda · Maṇḍala 4

Sūkta 18

Indra, Aditi · 1: Indra; Vāmadeva Gautama; 2, 3, 8-13: Vāmadeva Gautama; 4-7: Aditi Dākṣāyaṇī; Vāmadeva Gautama · 13 ṛks

Link
Devatā देवता
Indra, Aditi
Ṛṣi ऋषि
1: Indra; Vāmadeva Gautama; 2, 3, 8-13: Vāmadeva Gautama; 4-7: Aditi Dākṣāyaṇī; Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (5-7, 9-11); triṣṭup (1, 8, 12); bhurikpaṅkti (3, 4); paṅktiḥ (2); svarāṭpaṅkti (13)

2nd set of styles triṣṭubh

  1. Ṛk 1

    अ॒यं पंथा॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यंत॒ विश्वे॑ ।
    अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥

    अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे |
    अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः ||

    ayám pánthā ánuvittaḥ purāṇó yáto devā́ udájāyanta víśve ǀ
    átaścidā́ janiṣīṣṭa právṛddho mā́ mātáramamuyā́ páttave kaḥ ǁ

    ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve |
    ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ ||

    अ॒यम् । पन्थाः॑ । अनु॑ऽवित्तः । पु॒रा॒णः । यतः॑ । दे॒वाः । उ॒त्ऽअजा॑यन्त । विश्वे॑ ।
    अतः॑ । चि॒त् । आ । ज॒नि॒षी॒ष्ट॒ । प्रऽवृ॑द्धः । मा । मा॒तर॑म् । अ॒मु॒या । पत्त॑वे । क॒रिति॑ कः ॥

    अयम् । पन्थाः । अनुऽवित्तः । पुराणः । यतः । देवाः । उत्ऽअजायन्त । विश्वे ।
    अतः । चित् । आ । जनिषीष्ट । प्रऽवृद्धः । मा । मातरम् । अमुया । पत्तवे । करिति कः ॥

    ayám ǀ pánthāḥ ǀ ánu-vittaḥ ǀ purāṇáḥ ǀ yátaḥ ǀ devā́ḥ ǀ ut-ájāyanta ǀ víśve ǀ
    átaḥ ǀ cit ǀ ā́ ǀ janiṣīṣṭa ǀ prá-vṛddhaḥ ǀ mā́ ǀ mātáram ǀ amuyā́ ǀ páttave ǀ karíti kaḥ ǁ

    ayam ǀ panthāḥ ǀ anu-vittaḥ ǀ purāṇaḥ ǀ yataḥ ǀ devāḥ ǀ ut-ajāyanta ǀ viśve ǀ
    ataḥ ǀ cit ǀ ā ǀ janiṣīṣṭa ǀ pra-vṛddhaḥ ǀ mā ǀ mātaram ǀ amuyā ǀ pattave ǀ kariti kaḥ ǁ

    4.18.1 Aṣṭaka 3.5.25.1Anuvāka 4.2.75

  2. Ṛk 2

    नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि ।
    ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥

    नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि |
    बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ||

    nā́hámáto nírayā durgáhaitáttiraścátā pārśvā́nnírgamāṇi ǀ
    bahū́ni me ákṛtā kártvāni yúdhyai tvena sám tvena pṛcchai ǁ

    nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi |
    bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai ||

    न । अ॒हम् । अतः॑ । निः । अ॒य॒ । दुः॒ऽगहा॑ । ए॒तत् । ति॒र॒श्चता॑ । पा॒र्श्वात् । निः । ग॒मा॒नि॒ ।
    ब॒हूनि॑ । मे॒ । अकृ॑ता । कर्त्वा॑नि । युध्यै॑ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥

    न । अहम् । अतः । निः । अय । दुःऽगहा । एतत् । तिरश्चता । पार्श्वात् । निः । गमानि ।
    बहूनि । मे । अकृता । कर्त्वानि । युध्यै । त्वेन । सम् । त्वेन । पृच्छै ॥

    ná ǀ ahám ǀ átaḥ ǀ níḥ ǀ aya ǀ duḥ-gáhā ǀ etát ǀ tiraścátā ǀ pārśvā́t ǀ níḥ ǀ gamāni ǀ
    bahū́ni ǀ me ǀ ákṛtā ǀ kártvāni ǀ yúdhyai ǀ tvena ǀ sám ǀ tvena ǀ pṛcchai ǁ

    na ǀ aham ǀ ataḥ ǀ niḥ ǀ aya ǀ duḥ-gahā ǀ etat ǀ tiraścatā ǀ pārśvāt ǀ niḥ ǀ gamāni ǀ
    bahūni ǀ me ǀ akṛtā ǀ kartvāni ǀ yudhyai ǀ tvena ǀ sam ǀ tvena ǀ pṛcchai ǁ

    4.18.2 Aṣṭaka 3.5.25.2Anuvāka 4.2.76

  3. Ṛk 3

    प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि ।
    त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिंद्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥

    परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि |
    त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः सुतस्य ||

    parāyatī́m mātáramánvacaṣṭa ná nā́nu gānyánu nū́ gamāni ǀ
    tváṣṭurgṛhé apibatsómamíndraḥ śatadhanyám camvóḥ sutásya ǁ

    parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni |
    tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya ||

    प॒रा॒ऽय॒तीम् । मा॒तर॑म् । अनु॑ । अ॒च॒ष्ट॒ । न । न । अनु॑ । गा॒नि॒ । अनु॑ । नु । ग॒मा॒नि॒ ।
    त्वष्टुः॑ । गृ॒हे । अ॒पि॒ब॒त् । सोम॑म् । इन्द्रः॑ । श॒त॒ऽध॒न्य॑म् । च॒म्वोः॑ । सु॒तस्य॑ ॥

    पराऽयतीम् । मातरम् । अनु । अचष्ट । न । न । अनु । गानि । अनु । नु । गमानि ।
    त्वष्टुः । गृहे । अपिबत् । सोमम् । इन्द्रः । शतऽधन्यम् । चम्वोः । सुतस्य ॥

    parā-yatī́m ǀ mātáram ǀ ánu ǀ acaṣṭa ǀ ná ǀ ná ǀ ánu ǀ gāni ǀ ánu ǀ nú ǀ gamāni ǀ
    tváṣṭuḥ ǀ gṛhé ǀ apibat ǀ sómam ǀ índraḥ ǀ śata-dhanyám ǀ camvóḥ ǀ sutásya ǁ

    parā-yatīm ǀ mātaram ǀ anu ǀ acaṣṭa ǀ na ǀ na ǀ anu ǀ gāni ǀ anu ǀ nu ǀ gamāni ǀ
    tvaṣṭuḥ ǀ gṛhe ǀ apibat ǀ somam ǀ indraḥ ǀ śata-dhanyam ǀ camvoḥ ǀ sutasya ǁ

    4.18.3 Aṣṭaka 3.5.25.3Anuvāka 4.2.77

  4. Ṛk 4

    किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः ।
    न॒ही न्व॑स्य प्रति॒मान॒मस्त्यं॒तर्जा॒तेषू॒त ये जनि॑त्वाः ॥

    किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश् च पूर्वीः |
    नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः ||

    kím sá ṛ́dhakkṛṇavadyám sahásram māsó jabhā́ra śarádaśca pūrvī́ḥ ǀ
    nahī́ nvásya pratimā́namástyantárjātéṣūtá yé jánitvāḥ ǁ

    kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ |
    nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ ||

    किम् । सः । ऋध॑क् । कृ॒ण॒व॒त् । यम् । स॒हस्र॑म् । मा॒सः । ज॒भार॑ । श॒रदः॑ । च॒ । पू॒र्वीः ।
    न॒हि । नु । अ॒स्य॒ । प्र॒ति॒ऽमान॑म् । अस्ति॑ । अ॒न्तः । जा॒तेषु॑ । उ॒त । ये । जनि॑ऽत्वाः ॥

    किम् । सः । ऋधक् । कृणवत् । यम् । सहस्रम् । मासः । जभार । शरदः । च । पूर्वीः ।
    नहि । नु । अस्य । प्रतिऽमानम् । अस्ति । अन्तः । जातेषु । उत । ये । जनिऽत्वाः ॥

    kím ǀ sáḥ ǀ ṛ́dhak ǀ kṛṇavat ǀ yám ǀ sahásram ǀ māsáḥ ǀ jabhā́ra ǀ śarádaḥ ǀ ca ǀ pūrvī́ḥ ǀ
    nahí ǀ nú ǀ asya ǀ prati-mā́nam ǀ ásti ǀ antáḥ ǀ jātéṣu ǀ utá ǀ yé ǀ jáni-tvāḥ ǁ

    kim ǀ saḥ ǀ ṛdhak ǀ kṛṇavat ǀ yam ǀ sahasram ǀ māsaḥ ǀ jabhāra ǀ śaradaḥ ǀ ca ǀ pūrvīḥ ǀ
    nahi ǀ nu ǀ asya ǀ prati-mānam ǀ asti ǀ antaḥ ǀ jāteṣu ǀ uta ǀ ye ǀ jani-tvāḥ ǁ

    4.18.4 Aṣṭaka 3.5.25.4Anuvāka 4.2.78

  5. Ṛk 5

    अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिंद्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टं ।
    अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥

    अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा न्यृष्टम् |
    अथोद् अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज् जायमानः ||

    avadyámiva mányamānā gúhākaríndram mātā́ vīryéṇā nyṛ́ṣṭam ǀ
    áthódasthātsvayámátkam vásāna ā́ ródasī apṛṇājjā́yamānaḥ ǁ

    avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam |
    athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ ||

    अ॒व॒द्यम्ऽइ॑व । मन्य॑माना । गुहा॑ । अ॒कः॒ । इन्द्र॑म् । मा॒ता । वी॒र्ये॑ण । निऽऋ॑ष्टम् ।
    अथ॑ । उत् । अ॒स्था॒त् । स्व॒यम् । अत्क॑म् । वसा॑नः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ॥

    अवद्यम्ऽइव । मन्यमाना । गुहा । अकः । इन्द्रम् । माता । वीर्येण । निऽऋष्टम् ।
    अथ । उत् । अस्थात् । स्वयम् । अत्कम् । वसानः । आ । रोदसी इति । अपृणात् । जायमानः ॥

    avadyám-iva ǀ mányamānā ǀ gúhā ǀ akaḥ ǀ índram ǀ mātā́ ǀ vīryéṇa ǀ ní-ṛṣṭam ǀ
    átha ǀ út ǀ asthāt ǀ svayám ǀ átkam ǀ vásānaḥ ǀ ā́ ǀ ródasī íti ǀ apṛṇāt ǀ jā́yamānaḥ ǁ

    avadyam-iva ǀ manyamānā ǀ guhā ǀ akaḥ ǀ indram ǀ mātā ǀ vīryeṇa ǀ ni-ṛṣṭam ǀ
    atha ǀ ut ǀ asthāt ǀ svayam ǀ atkam ǀ vasānaḥ ǀ ā ǀ rodasī iti ǀ apṛṇāt ǀ jāyamānaḥ ǁ

    4.18.5 Aṣṭaka 3.5.25.5Anuvāka 4.2.79

  6. Ṛk 6

    ए॒ता अ॑र्षंत्यलला॒भवं॑तीर्ऋ॒ताव॑रीरिव सं॒क्रोश॑मानाः ।
    ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नंति॒ कमापो॒ अद्रिं॑ परि॒धिं रु॑जंति ॥

    एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः |
    एता वि पृच्छ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं रुजन्ति ||

    etā́ arṣantyalalābhávantīrṛtā́varīriva saṃkróśamānāḥ ǀ
    etā́ ví pṛccha kímidám bhananti kámā́po ádrim paridhím rujanti ǁ

    etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ |
    etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti ||

    ए॒ताः । अ॒र्ष॒न्ति॒ । अ॒ल॒ला॒ऽभव॑न्तीः । ऋ॒तव॑रीःऽइव । स॒म्ऽक्रोश॑मानाः ।
    ए॒ताः । वि । पृ॒च्छ॒ । किम् । इ॒दम् । भ॒न॒न्ति॒ । कम् । आपः॑ । अद्रि॑म् । प॒रि॒ऽधिम् । रु॒ज॒न्ति॒ ॥

    एताः । अर्षन्ति । अललाऽभवन्तीः । ऋतवरीःऽइव । सम्ऽक्रोशमानाः ।
    एताः । वि । पृच्छ । किम् । इदम् । भनन्ति । कम् । आपः । अद्रिम् । परिऽधिम् । रुजन्ति ॥

    etā́ḥ ǀ arṣanti ǀ alalā-bhávantīḥ ǀ ṛtávarīḥ-iva ǀ sam-króśamānāḥ ǀ
    etā́ḥ ǀ ví ǀ pṛccha ǀ kím ǀ idám ǀ bhananti ǀ kám ǀ ā́paḥ ǀ ádrim ǀ pari-dhím ǀ rujanti ǁ

    etāḥ ǀ arṣanti ǀ alalā-bhavantīḥ ǀ ṛtavarīḥ-iva ǀ sam-krośamānāḥ ǀ
    etāḥ ǀ vi ǀ pṛccha ǀ kim ǀ idam ǀ bhananti ǀ kam ǀ āpaḥ ǀ adrim ǀ pari-dhim ǀ rujanti ǁ

    4.18.6 Aṣṭaka 3.5.26.1Anuvāka 4.2.80

  7. Ṛk 7

    किमु॑ ष्विदस्मै नि॒विदो॑ भनं॒तेंद्र॑स्याव॒द्यं दि॑धिषंत॒ आपः॑ ।
    ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् ॥

    किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः |
    ममैतान् पुत्रो महता वधेन वृत्रं जघन्वां असृजद् वि सिन्धून् ||

    kímu ṣvidasmai nivído bhananténdrasyāvadyám didhiṣanta ā́paḥ ǀ
    mámaitā́nputró mahatā́ vadhéna vṛtrám jaghanvā́m̐ asṛjadví síndhūn ǁ

    kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ |
    mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṃ asṛjad vi sindhūn ||

    किम् । ऊं॒ इति॑ । स्वि॒त् । अ॒स्मै॒ । नि॒ऽविदः॑ । भ॒न॒न्त॒ । इन्द्र॑स्य । अ॒व॒द्यम् । दि॒धि॒ष॒न्ते॒ । आपः॑ ।
    मम॑ । ए॒तान् । पु॒त्रः । म॒ह॒ता । व॒धेन॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ॥

    किम् । ऊं इति । स्वित् । अस्मै । निऽविदः । भनन्त । इन्द्रस्य । अवद्यम् । दिधिषन्ते । आपः ।
    मम । एतान् । पुत्रः । महता । वधेन । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् ॥

    kím ǀ ūṃ íti ǀ svit ǀ asmai ǀ ni-vídaḥ ǀ bhananta ǀ índrasya ǀ avadyám ǀ didhiṣante ǀ ā́paḥ ǀ
    máma ǀ etā́n ǀ putráḥ ǀ mahatā́ ǀ vadhéna ǀ vṛtrám ǀ jaghanvā́n ǀ asṛjat ǀ ví ǀ síndhūn ǁ

    kim ǀ ūṃ iti ǀ svit ǀ asmai ǀ ni-vidaḥ ǀ bhananta ǀ indrasya ǀ avadyam ǀ didhiṣante ǀ āpaḥ ǀ
    mama ǀ etān ǀ putraḥ ǀ mahatā ǀ vadhena ǀ vṛtram ǀ jaghanvān ǀ asṛjat ǀ vi ǀ sindhūn ǁ

    4.18.7 Aṣṭaka 3.5.26.2Anuvāka 4.2.81

  8. Ṛk 8

    मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ ।
    मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिंद्रः॒ सह॒सोद॑तिष्ठत् ॥

    ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार |
    ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत् ||

    mámaccaná tvā yuvatíḥ parā́sa mámaccaná tvā kuṣávā jagā́ra ǀ
    mámaccidā́paḥ śíśave mamṛḍyurmámaccidíndraḥ sáhasódatiṣṭhat ǁ

    mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra |
    mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat ||

    मम॑त् । च॒न । त्वा॒ । यु॒व॒तिः । प॒रा॒ऽआस॑ । मम॑त् । च॒न । त्वा॒ । कु॒षवा॑ । ज॒गार॑ ।
    मम॑त् । चि॒त् । आपः॑ । शिश॑वे । म॒मृ॒ड्युः॒ । मम॑त् । चि॒त् । इन्द्रः॑ । सह॑सा । उत् । अ॒ति॒ष्ठ॒त् ॥

    ममत् । चन । त्वा । युवतिः । पराऽआस । ममत् । चन । त्वा । कुषवा । जगार ।
    ममत् । चित् । आपः । शिशवे । ममृड्युः । ममत् । चित् । इन्द्रः । सहसा । उत् । अतिष्ठत् ॥

    mámat ǀ caná ǀ tvā ǀ yuvatíḥ ǀ parā-ā́sa ǀ mámat ǀ caná ǀ tvā ǀ kuṣávā ǀ jagā́ra ǀ
    mámat ǀ cit ǀ ā́paḥ ǀ śíśave ǀ mamṛḍyuḥ ǀ mámat ǀ cit ǀ índraḥ ǀ sáhasā ǀ út ǀ atiṣṭhat ǁ

    mamat ǀ cana ǀ tvā ǀ yuvatiḥ ǀ parā-āsa ǀ mamat ǀ cana ǀ tvā ǀ kuṣavā ǀ jagāra ǀ
    mamat ǀ cit ǀ āpaḥ ǀ śiśave ǀ mamṛḍyuḥ ǀ mamat ǀ cit ǀ indraḥ ǀ sahasā ǀ ut ǀ atiṣṭhat ǁ

    4.18.8 Aṣṭaka 3.5.26.3Anuvāka 4.2.82

  9. Ṛk 9

    मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ ।
    अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥

    ममच् चन ते मघवन् व्यंसो निविविध्वां अप हनू जघान |
    अधा निविद्ध उत्तरो बभूवाञ् छिरो दासस्य सम् पिणग् वधेन ||

    mámaccaná te maghavanvyáṃso nivividhvā́m̐ ápa hánū jaghā́na ǀ
    ádhā níviddha úttaro babhūvā́ñchíro dāsásya sám piṇagvadhéna ǁ

    mamac cana te maghavan vyaṃso nivividhvāṃ apa hanū jaghāna |
    adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇag vadhena ||

    मम॑त् । च॒न । ते॒ । म॒घ॒ऽव॒न् । विऽअं॑सः । नि॒ऽवि॒वि॒ध्वान् । अप॑ । हनू॒ इति॑ । ज॒घान॑ ।
    अध॑ । निऽवि॑द्धः । उत्ऽत॑रः । ब॒भू॒वान् । शिरः॑ । दा॒सस्य॑ । सम् । पि॒ण॒क् । व॒धेन॑ ॥

    ममत् । चन । ते । मघऽवन् । विऽअंसः । निऽविविध्वान् । अप । हनू इति । जघान ।
    अध । निऽविद्धः । उत्ऽतरः । बभूवान् । शिरः । दासस्य । सम् । पिणक् । वधेन ॥

    mámat ǀ caná ǀ te ǀ magha-van ǀ ví-aṃsaḥ ǀ ni-vividhvā́n ǀ ápa ǀ hánū íti ǀ jaghā́na ǀ
    ádha ǀ ní-viddhaḥ ǀ út-taraḥ ǀ babhūvā́n ǀ śíraḥ ǀ dāsásya ǀ sám ǀ piṇak ǀ vadhéna ǁ

    mamat ǀ cana ǀ te ǀ magha-van ǀ vi-aṃsaḥ ǀ ni-vividhvān ǀ apa ǀ hanū iti ǀ jaghāna ǀ
    adha ǀ ni-viddhaḥ ǀ ut-taraḥ ǀ babhūvān ǀ śiraḥ ǀ dāsasya ǀ sam ǀ piṇak ǀ vadhena ǁ

    4.18.9 Aṣṭaka 3.5.26.4Anuvāka 4.2.83

  10. Ṛk 10

    गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिंद्रं॑ ।
    अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नं ॥

    गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं तुम्रम् इन्द्रम् |
    अरीऌहं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ||

    gṛṣṭíḥ sasūva stháviram tavāgā́manādhṛṣyám vṛṣabhám túmramíndram ǀ
    árīḷham vatsám caráthāya mātā́ svayám gātúm tanvá icchámānam ǁ

    gṛṣṭiḥ sasūva sthaviraṃ tavāgām anādhṛṣyaṃ vṛṣabhaṃ tumram indram |
    arīḷhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam ||

    गृ॒ष्टिः । स॒सू॒व॒ । स्थवि॑रम् । त॒वा॒गाम् । अ॒ना॒धृ॒ष्यम् । वृ॒ष॒भम् । तुम्र॑म् । इन्द्र॑म् ।
    अरी॑ळ्हम् । व॒त्सम् । च॒रथा॑य । मा॒ता । स्व॒यम् । गा॒तुम् । त॒न्वे॑ । इ॒च्छमा॑नम् ॥

    गृष्टिः । ससूव । स्थविरम् । तवागाम् । अनाधृष्यम् । वृषभम् । तुम्रम् । इन्द्रम् ।
    अरीळ्हम् । वत्सम् । चरथाय । माता । स्वयम् । गातुम् । तन्वे । इच्छमानम् ॥

    gṛṣṭíḥ ǀ sasūva ǀ stháviram ǀ tavāgā́m ǀ anādhṛṣyám ǀ vṛṣabhám ǀ túmram ǀ índram ǀ
    árīḷham ǀ vatsám ǀ caráthāya ǀ mātā́ ǀ svayám ǀ gātúm ǀ tanvé ǀ icchámānam ǁ

    gṛṣṭiḥ ǀ sasūva ǀ sthaviram ǀ tavāgām ǀ anādhṛṣyam ǀ vṛṣabham ǀ tumram ǀ indram ǀ
    arīḷham ǀ vatsam ǀ carathāya ǀ mātā ǀ svayam ǀ gātum ǀ tanve ǀ icchamānam ǁ

    4.18.10 Aṣṭaka 3.5.26.5Anuvāka 4.2.84

  11. Ṛk 11

    उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः ।
    अथा॑ब्रवीद्वृ॒त्रमिंद्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥

    उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः |
    अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि क्रमस्व ||

    utá mātā́ mahiṣámánvavenadamī́ tvā jahati putra devā́ḥ ǀ
    áthābravīdvṛtrámíndro haniṣyántsákhe viṣṇo vitarám ví kramasva ǁ

    uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ |
    athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva ||

    उ॒त । मा॒ता । म॒हि॒षम् । अनु॑ । अ॒वे॒न॒त् । अ॒मी इति॑ । त्वा॒ । ज॒ह॒ति॒ । पु॒त्र॒ । दे॒वाः ।
    अथ॑ । अ॒ब्र॒वी॒त् । वृ॒त्रम् । इन्द्रः॑ । ह॒नि॒ष्यन् । सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ ॥

    उत । माता । महिषम् । अनु । अवेनत् । अमी इति । त्वा । जहति । पुत्र । देवाः ।
    अथ । अब्रवीत् । वृत्रम् । इन्द्रः । हनिष्यन् । सखे । विष्णो इति । विऽतरम् । वि । क्रमस्व ॥

    utá ǀ mātā́ ǀ mahiṣám ǀ ánu ǀ avenat ǀ amī́ íti ǀ tvā ǀ jahati ǀ putra ǀ devā́ḥ ǀ
    átha ǀ abravīt ǀ vṛtrám ǀ índraḥ ǀ haniṣyán ǀ sákhe ǀ viṣṇo íti ǀ vi-tarám ǀ ví ǀ kramasva ǁ

    uta ǀ mātā ǀ mahiṣam ǀ anu ǀ avenat ǀ amī iti ǀ tvā ǀ jahati ǀ putra ǀ devāḥ ǀ
    atha ǀ abravīt ǀ vṛtram ǀ indraḥ ǀ haniṣyan ǀ sakhe ǀ viṣṇo iti ǀ vi-taram ǀ vi ǀ kramasva ǁ

    4.18.11 Aṣṭaka 3.5.26.6Anuvāka 4.2.85

  12. Ṛk 12

    कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चरं॑तं ।
    कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥

    कस् ते मातरं विधवाम् अचक्रच् छयुं कस् त्वाम् अजिघांसच् चरन्तम् |
    कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य ||

    káste mātáram vidhávāmacakracchayúm kástvā́majighāṃsaccárantam ǀ
    káste devó ádhi mārḍīká āsīdyátprā́kṣiṇāḥ pitáram pādagṛ́hya ǁ

    kas te mātaraṃ vidhavām acakrac chayuṃ kas tvām ajighāṃsac carantam |
    kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya ||

    कः । ते॒ । मा॒तर॑म् । वि॒धवा॑म् । अ॒च॒क्र॒त् । श॒युम् । कः । त्वाम् । अ॒जि॒घां॒स॒त् । चर॑न्तम् ।
    कः । ते॒ । दे॒वः । अधि॑ । मा॒र्डी॒के । आ॒सी॒त् । यत् । प्र । अक्षि॑णाः । पि॒तर॑म् । पा॒द॒ऽगृह्य॑ ॥

    कः । ते । मातरम् । विधवाम् । अचक्रत् । शयुम् । कः । त्वाम् । अजिघांसत् । चरन्तम् ।
    कः । ते । देवः । अधि । मार्डीके । आसीत् । यत् । प्र । अक्षिणाः । पितरम् । पादऽगृह्य ॥

    káḥ ǀ te ǀ mātáram ǀ vidhávām ǀ acakrat ǀ śayúm ǀ káḥ ǀ tvā́m ǀ ajighāṃsat ǀ cárantam ǀ
    káḥ ǀ te ǀ deváḥ ǀ ádhi ǀ mārḍīké ǀ āsīt ǀ yát ǀ prá ǀ ákṣiṇāḥ ǀ pitáram ǀ pāda-gṛ́hya ǁ

    kaḥ ǀ te ǀ mātaram ǀ vidhavām ǀ acakrat ǀ śayum ǀ kaḥ ǀ tvām ǀ ajighāṃsat ǀ carantam ǀ
    kaḥ ǀ te ǀ devaḥ ǀ adhi ǀ mārḍīke ǀ āsīt ǀ yat ǀ pra ǀ akṣiṇāḥ ǀ pitaram ǀ pāda-gṛhya ǁ

    4.18.12 Aṣṭaka 3.5.26.7Anuvāka 4.2.86

  13. Ṛk 13

    अव॑र्त्या॒ शुन॑ आं॒त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तारं॑ ।
    अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥

    अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् |
    अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार ||

    ávartyā śúna āntrā́ṇi pece ná devéṣu vivide marḍitā́ram ǀ
    ápaśyam jāyā́mámahīyamānāmádhā me śyenó mádhvā́ jabhāra ǁ

    avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram |
    apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra ||

    अव॑र्त्या । शुनः॑ । आ॒न्त्राणि॑ । पे॒चे॒ । न । दे॒वेषु॑ । वि॒वि॒दे॒ । म॒र्डि॒तार॑म् ।
    अप॑श्यम् । जा॒याम् । अम॑हीयमानाम् । अध॑ । मे॒ । श्ये॒नः । मधु॑ । आ । ज॒भा॒र॒ ॥

    अवर्त्या । शुनः । आन्त्राणि । पेचे । न । देवेषु । विविदे । मर्डितारम् ।
    अपश्यम् । जायाम् । अमहीयमानाम् । अध । मे । श्येनः । मधु । आ । जभार ॥

    ávartyā ǀ śúnaḥ ǀ āntrā́ṇi ǀ pece ǀ ná ǀ devéṣu ǀ vivide ǀ marḍitā́ram ǀ
    ápaśyam ǀ jāyā́m ǀ ámahīyamānām ǀ ádha ǀ me ǀ śyenáḥ ǀ mádhu ǀ ā́ ǀ jabhāra ǁ

    avartyā ǀ śunaḥ ǀ āntrāṇi ǀ pece ǀ na ǀ deveṣu ǀ vivide ǀ marḍitāram ǀ
    apaśyam ǀ jāyām ǀ amahīyamānām ǀ adha ǀ me ǀ śyenaḥ ǀ madhu ǀ ā ǀ jabhāra ǁ

    4.18.13 Aṣṭaka 3.5.26.8Anuvāka 4.2.87

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.18 · Indra, Aditi

Interpretations

Sri Aurobindo

Ṛk 1

“This is the path of old discovered over again by which all the gods rose up and were born. Even by this path must thou be born in thy increase; go not out by that to turn thy mother to her fall.”

Ṛk 2

“Not by this path must I go out, for hard it is to tread; let me go out straight from thy side. Many are the things I have to do that have not been done; by that way I would fight; by that way I would question after Truth.”

Ṛk 3

His mother went before him and he looked after her. “Must I not refrain from following her? Nay, I must indeed follow.” In the house of the Maker Indra drank the nectar-wine of a hundred riches that was pressed from the stones.

Ṛk 4

What perverse thing should he do, that his mother bore him for a thousand months, for many autumns? Nay, there is none who is his counterpart and measure among those who have been born or who have yet to take birth.

Ṛk 5

His mother deemed of it as if a sin and she hid him in her secret being overflowing with might. Then himself he rose up wearing light for a robe and in his birth he filled earth and heaven.

Ṛk 6

Behold these waters go murmuring on their way; yea, they cry out together as those who have the truth. Ask of them what is it that they say, what encircling mountain the waters break?

Ṛk 7

What have their mysteries of knowledge spoken to him? The waters went musing on the sin of Indra. It is my son who with his mighty weapon slew Vritra and loosed them forth.

Ṛk 8

In the rapture of the nectar-wine, a young goddess, thy mother cast thee forth; in the rapture she brought thee out with difficult labour. In the rapture the waters were kind to the Infant; in the rapture Indra rose up and came forth in his might.

Ṛk 9

In the rapture, O Master of the Riches, the shoulderless demon wounded thee and smote away thy jaws. When thou wert wounded, then thou rosest yet more high and didst crush the head of the Destroyer with thy weapon.

Ṛk 10

The Cow who bore once, bore Indra the firm, the forceful, the mighty Bull; the Mother sent forth her unhurt child to his journeying, since he desired himself a path for his body.

Ṛk 11

Then the Mother coaxed the Mighty One, “Behold, the gods abandon thee, O my son.” Then said Indra, for he meant to slay the Coverer, “O Vishnu, O my Comrade, pace all the width of thy steps.”

Ṛk 12

Who made thy mother a widow? Who would have smitten thee in thy lying down and in thy moving or what god was above thee in his grace, that thou hast dragged thy father by his feet and wasted him away?

Ṛk 13

Nought had I to live on, I cooked the entrails of the dog, I found none among the gods who had grace on me and Isaw my wife not growing to her greatness. Then the Bird brought to me the honey wine.