Sūkta 49
- Devatā देवता
- Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (2-6); nicṛdgāyatrī (1)
2nd set of styles gāyatrī
-
Ṛk 1
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमिं॑द्राबृहस्पती ।
उ॒क्थं मद॑श्च शस्यते ॥इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती |
उक्थम् मदश् च शस्यते ||idám vāmāsyé havíḥ priyámindrābṛhaspatī ǀ
ukthám mádaśca śasyate ǁidaṃ vām āsye haviḥ priyam indrābṛhaspatī |
uktham madaś ca śasyate ||इ॒दम् । वा॒म् । आ॒स्ये॑ । ह॒विः । प्रि॒यम् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।
उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥इदम् । वाम् । आस्ये । हविः । प्रियम् । इन्द्राबृहस्पती इति ।
उक्थम् । मदः । च । शस्यते ॥idám ǀ vām ǀ āsyé ǀ havíḥ ǀ priyám ǀ indrābṛhaspatī íti ǀ
ukthám ǀ mádaḥ ǀ ca ǀ śasyate ǁidam ǀ vām ǀ āsye ǀ haviḥ ǀ priyam ǀ indrābṛhaspatī iti ǀ
uktham ǀ madaḥ ǀ ca ǀ śasyate ǁ4.49.1 Aṣṭaka 3.7.25.1Anuvāka 4.5.17
-
Ṛk 2
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इंद्राबृहस्पती ।
चारु॒र्मदा॑य पी॒तये॑ ॥अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती |
चारुर् मदाय पीतये ||ayám vām pári ṣicyate sóma indrābṛhaspatī ǀ
cā́rurmádāya pītáye ǁayaṃ vām pari ṣicyate soma indrābṛhaspatī |
cārur madāya pītaye ||अ॒यम् । वा॒म् । परि॑ । सि॒च्य॒ते॒ । सोमः॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।
चारुः॑ । मदा॑य । पी॒तये॑ ॥अयम् । वाम् । परि । सिच्यते । सोमः । इन्द्राबृहस्पती इति ।
चारुः । मदाय । पीतये ॥ayám ǀ vām ǀ pári ǀ sicyate ǀ sómaḥ ǀ indrābṛhaspatī íti ǀ
cā́ruḥ ǀ mádāya ǀ pītáye ǁayam ǀ vām ǀ pari ǀ sicyate ǀ somaḥ ǀ indrābṛhaspatī iti ǀ
cāruḥ ǀ madāya ǀ pītaye ǁ4.49.2 Aṣṭaka 3.7.25.2Anuvāka 4.5.18
-
Ṛk 3
आ न॑ इंद्राबृहस्पती गृ॒हमिंद्र॑श्च गच्छतं ।
सो॒म॒पा सोम॑पीतये ॥आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गच्छतम् |
सोमपा सोमपीतये ||ā́ na indrābṛhaspatī gṛhámíndraśca gacchatam ǀ
somapā́ sómapītaye ǁā na indrābṛhaspatī gṛham indraś ca gacchatam |
somapā somapītaye ||आ । नः॒ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् ।
सो॒म॒ऽपा । सोम॑ऽपीतये ॥आ । नः । इन्द्राबृहस्पती इति । गृहम् । इन्द्रः । च । गच्छतम् ।
सोमऽपा । सोमऽपीतये ॥ā́ ǀ naḥ ǀ indrābṛhaspatī íti ǀ gṛhám ǀ índraḥ ǀ ca ǀ gacchatam ǀ
soma-pā́ ǀ sóma-pītaye ǁā ǀ naḥ ǀ indrābṛhaspatī iti ǀ gṛham ǀ indraḥ ǀ ca ǀ gacchatam ǀ
soma-pā ǀ soma-pītaye ǁ4.49.3 Aṣṭaka 3.7.25.3Anuvāka 4.5.19
-
Ṛk 4
अ॒स्मे इं॑द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विनं॑ ।
अश्वा॑वंतं सह॒स्रिणं॑ ॥अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् |
अश्वावन्तं सहस्रिणम् ||asmé indrābṛhaspatī rayím dhattam śatagvínam ǀ
áśvāvantam sahasríṇam ǁasme indrābṛhaspatī rayiṃ dhattaṃ śatagvinam |
aśvāvantaṃ sahasriṇam ||अ॒स्मे इति॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । र॒यिम् । ध॒त्त॒म् । श॒त॒ऽग्विन॑म् ।
अश्व॑ऽवन्तम् । स॒ह॒स्रिण॑म् ॥अस्मे इति । इन्द्राबृहस्पती इति । रयिम् । धत्तम् । शतऽग्विनम् ।
अश्वऽवन्तम् । सहस्रिणम् ॥asmé íti ǀ indrābṛhaspatī íti ǀ rayím ǀ dhattam ǀ śata-gvínam ǀ
áśva-vantam ǀ sahasríṇam ǁasme iti ǀ indrābṛhaspatī iti ǀ rayim ǀ dhattam ǀ śata-gvinam ǀ
aśva-vantam ǀ sahasriṇam ǁ4.49.4 Aṣṭaka 3.7.25.4Anuvāka 4.5.20
-
Ṛk 5
इंद्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे |
अस्य सोमस्य पीतये ||índrābṛ́haspátī vayám suté gīrbhírhavāmahe ǀ
asyá sómasya pītáye ǁindrābṛhaspatī vayaṃ sute gīrbhir havāmahe |
asya somasya pītaye ||इन्द्रा॒बृह॒स्पती॒ इति॑ । व॒यम् । सु॒ते । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥इन्द्राबृहस्पती इति । वयम् । सुते । गीःऽभिः । हवामहे ।
अस्य । सोमस्य । पीतये ॥índrābṛ́haspátī íti ǀ vayám ǀ suté ǀ gīḥ-bhíḥ ǀ havāmahe ǀ
asyá ǀ sómasya ǀ pītáye ǁindrābṛhaspatī iti ǀ vayam ǀ sute ǀ gīḥ-bhiḥ ǀ havāmahe ǀ
asya ǀ somasya ǀ pītaye ǁ4.49.5 Aṣṭaka 3.7.25.5Anuvāka 4.5.21
-
Ṛk 6
सोम॑मिंद्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे ।
मा॒दये॑थां॒ तदो॑कसा ॥सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे |
मादयेथां तदोकसा ||sómamindrābṛhaspatī píbatam dāśúṣo gṛhé ǀ
mādáyethām tádokasā ǁsomam indrābṛhaspatī pibataṃ dāśuṣo gṛhe |
mādayethāṃ tadokasā ||सोम॑म् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ।
मा॒दये॑थाम् । तत्ऽओ॑कसा ॥सोमम् । इन्द्राबृहस्पती इति । पिबतम् । दाशुषः । गृहे ।
मादयेथाम् । तत्ऽओकसा ॥sómam ǀ indrābṛhaspatī íti ǀ píbatam ǀ dāśúṣaḥ ǀ gṛhé ǀ
mādáyethām ǀ tát-okasā ǁsomam ǀ indrābṛhaspatī iti ǀ pibatam ǀ dāśuṣaḥ ǀ gṛhe ǀ
mādayethām ǀ tat-okasā ǁ4.49.6 Aṣṭaka 3.7.25.6Anuvāka 4.5.22
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.