Sūkta 57
- Devatā देवता
- 1-3: Kṣetrapatiḥ; 4: Śuna; 5, 8: The Two Śunāsīras; 6, 7: Sītā
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Purauṣṇih
Metres by ṛk
1st set of styles anuṣṭup (1, 4, 6, 7); triṣṭup (2, 3, 8); purauṣṇik (5)
2nd set of styles anuṣṭubh (1, 4, 6, 7); triṣṭubh (2, 3, 8); purauṣṇih (5)
-
Ṛk 1
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि ।
गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥क्षेत्रस्य पतिना वयं हितेनेव जयामसि |
गाम् अश्वम् पोषयित्न्व् आ स नो मृऌआतीदृशे ||kṣétrasya pátinā vayám hiténeva jayāmasi ǀ
gā́máśvam poṣayitnvā́ sá no mṛḷātīdṛ́śe ǁkṣetrasya patinā vayaṃ hiteneva jayāmasi |
gām aśvam poṣayitnv ā sa no mṛḷātīdṛśe ||क्षेत्र॑स्य । पति॑ना । व॒यम् । हि॒तेन॑ऽइव । ज॒या॒म॒सि॒ ।
गाम् । अश्व॑म् । पो॒ष॒यि॒त्नु । आ । सः । नः॒ । मृ॒ळा॒ति॒ । ई॒दृशे॑ ॥क्षेत्रस्य । पतिना । वयम् । हितेनऽइव । जयामसि ।
गाम् । अश्वम् । पोषयित्नु । आ । सः । नः । मृळाति । ईदृशे ॥kṣétrasya ǀ pátinā ǀ vayám ǀ hiténa-iva ǀ jayāmasi ǀ
gā́m ǀ áśvam ǀ poṣayitnú ǀ ā́ ǀ sáḥ ǀ naḥ ǀ mṛḷāti ǀ īdṛ́śe ǁkṣetrasya ǀ patinā ǀ vayam ǀ hitena-iva ǀ jayāmasi ǀ
gām ǀ aśvam ǀ poṣayitnu ǀ ā ǀ saḥ ǀ naḥ ǀ mṛḷāti ǀ īdṛśe ǁ4.57.1 Aṣṭaka 3.8.9.1Anuvāka 4.5.82
-
Ṛk 2
क्षेत्र॑स्य पते॒ मधु॑मंतमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ।
म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृळयंतु ॥क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व |
मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृऌअयन्तु ||kṣétrasya pate mádhumantamūrmím dhenúriva páyo asmā́su dhukṣva ǀ
madhuścútam ghṛtámiva súpūtamṛtásya naḥ pátayo mṛḷayantu ǁkṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva |
madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu ||क्षेत्र॑स्य । प॒ते॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । धे॒नुःऽइ॑व । पयः॑ । अ॒स्मासु॑ । धु॒क्ष्व॒ ।
म॒धु॒ऽश्चुत॑म् । घृ॒तम्ऽइ॑व । सुऽपू॑तम् । ऋ॒तस्य॑ । नः॒ । पत॑यः । मृ॒ळ॒य॒न्तु॒ ॥क्षेत्रस्य । पते । मधुऽमन्तम् । ऊर्मिम् । धेनुःऽइव । पयः । अस्मासु । धुक्ष्व ।
मधुऽश्चुतम् । घृतम्ऽइव । सुऽपूतम् । ऋतस्य । नः । पतयः । मृळयन्तु ॥kṣétrasya ǀ pate ǀ mádhu-mantam ǀ ūrmím ǀ dhenúḥ-iva ǀ páyaḥ ǀ asmā́su ǀ dhukṣva ǀ
madhu-ścútam ǀ ghṛtám-iva ǀ sú-pūtam ǀ ṛtásya ǀ naḥ ǀ pátayaḥ ǀ mṛḷayantu ǁkṣetrasya ǀ pate ǀ madhu-mantam ǀ ūrmim ǀ dhenuḥ-iva ǀ payaḥ ǀ asmāsu ǀ dhukṣva ǀ
madhu-ścutam ǀ ghṛtam-iva ǀ su-pūtam ǀ ṛtasya ǀ naḥ ǀ patayaḥ ǀ mṛḷayantu ǁ4.57.2 Aṣṭaka 3.8.9.2Anuvāka 4.5.83
-
Ṛk 3
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्वं॒तरि॑क्षं ।
क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यंतो॒ अन्वे॑नं चरेम ॥मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् |
क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ||mádhumatīróṣadhīrdyā́va ā́po mádhumanno bhavatvantárikṣam ǀ
kṣétrasya pátirmádhumānno astváriṣyanto ánvenam carema ǁmadhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam |
kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema ||मधु॑ऽमतीः । ओष॑धीः । द्यावः॑ । आपः॑ । मधु॑ऽमत् । नः॒ । भ॒व॒तु॒ । अ॒न्तरि॑क्षम् ।
क्षेत्र॑स्य । पतिः॑ । मधु॑ऽमान् । नः॒ । अ॒स्तु॒ । अरि॑ष्यन्तः॑ । अनु॑ । ए॒न॒म् । च॒रे॒म॒ ॥मधुऽमतीः । ओषधीः । द्यावः । आपः । मधुऽमत् । नः । भवतु । अन्तरिक्षम् ।
क्षेत्रस्य । पतिः । मधुऽमान् । नः । अस्तु । अरिष्यन्तः । अनु । एनम् । चरेम ॥mádhu-matīḥ ǀ óṣadhīḥ ǀ dyā́vaḥ ǀ ā́paḥ ǀ mádhu-mat ǀ naḥ ǀ bhavatu ǀ antárikṣam ǀ
kṣétrasya ǀ pátiḥ ǀ mádhu-mān ǀ naḥ ǀ astu ǀ áriṣyantaḥ ǀ ánu ǀ enam ǀ carema ǁmadhu-matīḥ ǀ oṣadhīḥ ǀ dyāvaḥ ǀ āpaḥ ǀ madhu-mat ǀ naḥ ǀ bhavatu ǀ antarikṣam ǀ
kṣetrasya ǀ patiḥ ǀ madhu-mān ǀ naḥ ǀ astu ǀ ariṣyantaḥ ǀ anu ǀ enam ǀ carema ǁ4.57.3 Aṣṭaka 3.8.9.3Anuvāka 4.5.84
-
Ṛk 4
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लांग॑लं ।
शु॒नं व॑र॒त्रा ब॑ध्यंतां शु॒नमष्ट्रा॒मुदिं॑गय ॥शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् |
शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् इङ्गय ||śunám vāhā́ḥ śunám náraḥ śunám kṛṣatu lā́ṅgalam ǀ
śunám varatrā́ badhyantām śunámáṣṭrāmúdiṅgaya ǁśunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam |
śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya ||शु॒नम् । वा॒हाः । शु॒नम् । नरः॑ । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् ।
शु॒नम् । व॒र॒त्राः । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥शुनम् । वाहाः । शुनम् । नरः । शुनम् । कृषतु । लाङ्गलम् ।
शुनम् । वरत्राः । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥śunám ǀ vāhā́ḥ ǀ śunám ǀ náraḥ ǀ śunám ǀ kṛṣatu ǀ lā́ṅgalam ǀ
śunám ǀ varatrā́ḥ ǀ badhyantām ǀ śunám ǀ áṣṭrām ǀ út ǀ iṅgaya ǁśunam ǀ vāhāḥ ǀ śunam ǀ naraḥ ǀ śunam ǀ kṛṣatu ǀ lāṅgalam ǀ
śunam ǀ varatrāḥ ǀ badhyantām ǀ śunam ǀ aṣṭrām ǀ ut ǀ iṅgaya ǁ4.57.4 Aṣṭaka 3.8.9.4Anuvāka 4.5.85
-
Ṛk 5
शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ ।
तेने॒मामुप॑ सिंचतं ॥शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः |
तेनेमाम् उप सिञ्चतम् ||śúnāsīrāvimā́m vā́cam juṣethām yáddiví cakráthuḥ páyaḥ ǀ
ténemā́múpa siñcatam ǁśunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ |
tenemām upa siñcatam ||शुना॑सीरौ । इ॒माम् । वाच॑म् । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथुः॑ । पयः॑ ।
तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥शुनासीरौ । इमाम् । वाचम् । जुषेथाम् । यत् । दिवि । चक्रथुः । पयः ।
तेन । इमाम् । उप । सिञ्चतम् ॥śúnāsīrau ǀ imā́m ǀ vā́cam ǀ juṣethām ǀ yát ǀ diví ǀ cakráthuḥ ǀ páyaḥ ǀ
téna ǀ imā́m ǀ úpa ǀ siñcatam ǁśunāsīrau ǀ imām ǀ vācam ǀ juṣethām ǀ yat ǀ divi ǀ cakrathuḥ ǀ payaḥ ǀ
tena ǀ imām ǀ upa ǀ siñcatam ǁ4.57.5 Aṣṭaka 3.8.9.5Anuvāka 4.5.86
-
Ṛk 6
अ॒र्वाची॑ सुभगे भव॒ सीते॒ वंदा॑महे त्वा ।
यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥अर्वाची सुभगे भव सीते वन्दामहे त्वा |
यथा नः सुभगाससि यथा नः सुफलाससि ||arvā́cī subhage bhava sī́te vándāmahe tvā ǀ
yáthā naḥ subhágā́sasi yáthā naḥ suphálā́sasi ǁarvācī subhage bhava sīte vandāmahe tvā |
yathā naḥ subhagāsasi yathā naḥ suphalāsasi ||अ॒र्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । सीते॑ । वन्दा॑महे । त्वा॒ ।
यथा॑ । नः॒ । सु॒ऽभगा॑ । अस॑सि । यथा॑ । नः॒ । सु॒ऽफला॑ । अस॑सि ॥अर्वाची । सुऽभगे । भव । सीते । वन्दामहे । त्वा ।
यथा । नः । सुऽभगा । अससि । यथा । नः । सुऽफला । अससि ॥arvā́cī ǀ su-bhage ǀ bhava ǀ sī́te ǀ vándāmahe ǀ tvā ǀ
yáthā ǀ naḥ ǀ su-bhágā ǀ ásasi ǀ yáthā ǀ naḥ ǀ su-phálā ǀ ásasi ǁarvācī ǀ su-bhage ǀ bhava ǀ sīte ǀ vandāmahe ǀ tvā ǀ
yathā ǀ naḥ ǀ su-bhagā ǀ asasi ǀ yathā ǀ naḥ ǀ su-phalā ǀ asasi ǁ4.57.6 Aṣṭaka 3.8.9.6Anuvāka 4.5.87
-
Ṛk 7
इंद्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु ।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समां॑ ॥इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यच्छतु |
सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् ||índraḥ sī́tām ní gṛhṇātu tā́m pūṣā́nu yacchatu ǀ
sā́ naḥ páyasvatī duhāmúttarāmuttarām sámām ǁindraḥ sītāṃ ni gṛhṇātu tām pūṣānu yacchatu |
sā naḥ payasvatī duhām uttarām-uttarāṃ samām ||इन्द्रः॑ । सीता॑म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अनु॑ । य॒च्छ॒तु॒ ।
सा । नः॒ । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥इन्द्रः । सीताम् । नि । गृह्णातु । ताम् । पूषा । अनु । यच्छतु ।
सा । नः । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥índraḥ ǀ sī́tām ǀ ní ǀ gṛhṇātu ǀ tā́m ǀ pūṣā́ ǀ ánu ǀ yacchatu ǀ
sā́ ǀ naḥ ǀ páyasvatī ǀ duhām ǀ úttarām-uttarām ǀ sámām ǁindraḥ ǀ sītām ǀ ni ǀ gṛhṇātu ǀ tām ǀ pūṣā ǀ anu ǀ yacchatu ǀ
sā ǀ naḥ ǀ payasvatī ǀ duhām ǀ uttarām-uttarām ǀ samām ǁ4.57.7 Aṣṭaka 3.8.9.7Anuvāka 4.5.88
-
Ṛk 8
शु॒नं नः॒ फाला॒ वि कृ॑षंतु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि यं॑तु वा॒हैः ।
शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तं ॥शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः |
शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ||śunám naḥ phā́lā ví kṛṣantu bhū́mim śunám kīnā́śā abhí yantu vāháiḥ ǀ
śunám parjányo mádhunā páyobhiḥ śúnāsīrā śunámasmā́su dhattam ǁśunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ |
śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam ||शु॒नम् । नः॒ । फालाः॑ । वि । कृ॒ष॒न्तु॒ । भूमि॑म् । शु॒नम् । की॒नाशाः॑ । अ॒भि । य॒न्तु॒ । वा॒हैः ।
शु॒नम् । प॒र्जन्यः॑ । मधु॑ना । पयः॑ऽभिः । शुना॑सीरा । शु॒नम् । अ॒स्मासु॑ । ध॒त्त॒म् ॥शुनम् । नः । फालाः । वि । कृषन्तु । भूमिम् । शुनम् । कीनाशाः । अभि । यन्तु । वाहैः ।
शुनम् । पर्जन्यः । मधुना । पयःऽभिः । शुनासीरा । शुनम् । अस्मासु । धत्तम् ॥śunám ǀ naḥ ǀ phā́lāḥ ǀ ví ǀ kṛṣantu ǀ bhū́mim ǀ śunám ǀ kīnā́śāḥ ǀ abhí ǀ yantu ǀ vāháiḥ ǀ
śunám ǀ parjányaḥ ǀ mádhunā ǀ páyaḥ-bhiḥ ǀ śúnāsīrā ǀ śunám ǀ asmā́su ǀ dhattam ǁśunam ǀ naḥ ǀ phālāḥ ǀ vi ǀ kṛṣantu ǀ bhūmim ǀ śunam ǀ kīnāśāḥ ǀ abhi ǀ yantu ǀ vāhaiḥ ǀ
śunam ǀ parjanyaḥ ǀ madhunā ǀ payaḥ-bhiḥ ǀ śunāsīrā ǀ śunam ǀ asmāsu ǀ dhattam ǁ4.57.8 Aṣṭaka 3.8.9.8Anuvāka 4.5.89
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.