Sūkta 30
- Devatā देवता
- 1-8, 12-24: Indra; 9-11: Indra, Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 3, 5, 9, 11, 12, 16, 18, 19, 23); gāyatrī (2, 7, 10, 13-15, 17, 21, 22); virāḍgāyatrī (4, 6); virāḍanuṣṭup (8, 24); pipīlikāmadhyāgāyatrī (20)
2nd set of styles gāyatrī (1-7, 9-23); anuṣṭubh (8, 24)
-
Ṛk 1
नकि॑रिंद्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् ।
नकि॑रे॒वा यथा॒ त्वं ॥नकिर् इन्द्र त्वद् उत्तरो न ज्यायां अस्ति वृत्रहन् |
नकिर् एवा यथा त्वम् ||nákirindra tvádúttaro ná jyā́yām̐ asti vṛtrahan ǀ
nákirevā́ yáthā tvám ǁnakir indra tvad uttaro na jyāyāṃ asti vṛtrahan |
nakir evā yathā tvam ||नकिः॑ । इ॒न्द्र॒ । त्वत् । उत्ऽत॑रः । न । ज्याया॑न् । अ॒स्ति॒ । वृ॒त्र॒ऽह॒न् ।
नकिः॑ । ए॒व । यथा॑ । त्वम् ॥नकिः । इन्द्र । त्वत् । उत्ऽतरः । न । ज्यायान् । अस्ति । वृत्रऽहन् ।
नकिः । एव । यथा । त्वम् ॥nákiḥ ǀ indra ǀ tvát ǀ út-taraḥ ǀ ná ǀ jyā́yān ǀ asti ǀ vṛtra-han ǀ
nákiḥ ǀ evá ǀ yáthā ǀ tvám ǁnakiḥ ǀ indra ǀ tvat ǀ ut-taraḥ ǀ na ǀ jyāyān ǀ asti ǀ vṛtra-han ǀ
nakiḥ ǀ eva ǀ yathā ǀ tvam ǁ4.30.1 Aṣṭaka 3.6.19.1Anuvāka 4.3.64
-
Ṛk 2
स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः ।
स॒त्रा म॒हाँ अ॑सि श्रु॒तः ॥सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः |
सत्रा महां असि श्रुतः ||satrā́ te ánu kṛṣṭáyo víśvā cakréva vāvṛtuḥ ǀ
satrā́ mahā́m̐ asi śrutáḥ ǁsatrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ |
satrā mahāṃ asi śrutaḥ ||स॒त्रा । ते॒ । अनु॑ । कृ॒ष्टयः॑ । विश्वा॑ । च॒क्राऽइ॑व । व॒वृ॒तुः॒ ।
स॒त्रा । म॒हान् । अ॒सि॒ । श्रु॒तः ॥सत्रा । ते । अनु । कृष्टयः । विश्वा । चक्राऽइव । ववृतुः ।
सत्रा । महान् । असि । श्रुतः ॥satrā́ ǀ te ǀ ánu ǀ kṛṣṭáyaḥ ǀ víśvā ǀ cakrā́-iva ǀ vavṛtuḥ ǀ
satrā́ ǀ mahā́n ǀ asi ǀ śrutáḥ ǁsatrā ǀ te ǀ anu ǀ kṛṣṭayaḥ ǀ viśvā ǀ cakrā-iva ǀ vavṛtuḥ ǀ
satrā ǀ mahān ǀ asi ǀ śrutaḥ ǁ4.30.2 Aṣṭaka 3.6.19.2Anuvāka 4.3.65
-
Ṛk 3
विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इंद्र युयुधुः ।
यदहा॒ नक्त॒माति॑रः ॥विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः |
यद् अहा नक्तम् आतिरः ||víśve canédanā́ tvā devā́sa indra yuyudhuḥ ǀ
yádáhā náktamā́tiraḥ ǁviśve caned anā tvā devāsa indra yuyudhuḥ |
yad ahā naktam ātiraḥ ||विश्वे॑ । च॒न । इत् । अ॒ना । त्वा॒ । दे॒वासः॑ । इ॒न्द्र॒ । यु॒यु॒धुः॒ ।
यत् । अहा॑ । नक्त॑म् । आ । अति॑रः ॥विश्वे । चन । इत् । अना । त्वा । देवासः । इन्द्र । युयुधुः ।
यत् । अहा । नक्तम् । आ । अतिरः ॥víśve ǀ caná ǀ ít ǀ anā́ ǀ tvā ǀ devā́saḥ ǀ indra ǀ yuyudhuḥ ǀ
yát ǀ áhā ǀ náktam ǀ ā́ ǀ átiraḥ ǁviśve ǀ cana ǀ it ǀ anā ǀ tvā ǀ devāsaḥ ǀ indra ǀ yuyudhuḥ ǀ
yat ǀ ahā ǀ naktam ǀ ā ǀ atiraḥ ǁ4.30.3 Aṣṭaka 3.6.19.3Anuvāka 4.3.66
-
Ṛk 4
यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते ।
मु॒षा॒य इं॑द्र॒ सूर्यं॑ ॥यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते |
मुषाय इन्द्र सूर्यम् ||yátrotá bādhitébhyaścakrám kútsāya yúdhyate ǀ
muṣāyá indra sū́ryam ǁyatrota bādhitebhyaś cakraṃ kutsāya yudhyate |
muṣāya indra sūryam ||यत्र॑ । उ॒त । बा॒धि॒तेभ्यः॑ । च॒क्रम् । कुत्सा॑य । युध्य॑ते ।
मु॒षा॒यः । इ॒न्द्र॒ । सूर्य॑म् ॥यत्र । उत । बाधितेभ्यः । चक्रम् । कुत्साय । युध्यते ।
मुषायः । इन्द्र । सूर्यम् ॥yátra ǀ utá ǀ bādhitébhyaḥ ǀ cakrám ǀ kútsāya ǀ yúdhyate ǀ
muṣāyáḥ ǀ indra ǀ sū́ryam ǁyatra ǀ uta ǀ bādhitebhyaḥ ǀ cakram ǀ kutsāya ǀ yudhyate ǀ
muṣāyaḥ ǀ indra ǀ sūryam ǁ4.30.4 Aṣṭaka 3.6.19.4Anuvāka 4.3.67
-
Ṛk 5
यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् ।
त्वमिं॑द्र व॒नूँरह॑न् ॥यत्र देवां ऋघायतो विश्वां अयुध्य एक इत् |
त्वम् इन्द्र वनूंर् अहन् ||yátra devā́m̐ ṛghāyató víśvām̐ áyudhya éka ít ǀ
tvámindra vanū́m̐ráhan ǁyatra devāṃ ṛghāyato viśvāṃ ayudhya eka it |
tvam indra vanūṃr ahan ||यत्र॑ । दे॒वान् । ऋ॒घा॒य॒तः । विश्वा॑न् । अयु॑ध्यः । एकः॑ । इत् ।
त्वम् । इ॒न्द्र॒ । व॒नून् । अह॑न् ॥यत्र । देवान् । ऋघायतः । विश्वान् । अयुध्यः । एकः । इत् ।
त्वम् । इन्द्र । वनून् । अहन् ॥yátra ǀ devā́n ǀ ṛghāyatáḥ ǀ víśvān ǀ áyudhyaḥ ǀ ékaḥ ǀ ít ǀ
tvám ǀ indra ǀ vanū́n ǀ áhan ǁyatra ǀ devān ǀ ṛghāyataḥ ǀ viśvān ǀ ayudhyaḥ ǀ ekaḥ ǀ it ǀ
tvam ǀ indra ǀ vanūn ǀ ahan ǁ4.30.5 Aṣṭaka 3.6.19.5Anuvāka 4.3.68
-
Ṛk 6
यत्रो॒त मर्त्या॑य॒ कमरि॑णा इंद्र॒ सूर्यं॑ ।
प्रावः॒ शची॑भि॒रेत॑शं ॥यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् |
प्रावः शचीभिर् एतशम् ||yátrotá mártyāya kámáriṇā indra sū́ryam ǀ
prā́vaḥ śácībhirétaśam ǁyatrota martyāya kam ariṇā indra sūryam |
prāvaḥ śacībhir etaśam ||यत्र॑ । उ॒त । मर्त्या॑य । कम् । अरि॑णाः । इ॒न्द्र॒ । सूर्य॑म् ।
प्र । आ॒वः॒ । शची॑भिः । एत॑शम् ॥यत्र । उत । मर्त्याय । कम् । अरिणाः । इन्द्र । सूर्यम् ।
प्र । आवः । शचीभिः । एतशम् ॥yátra ǀ utá ǀ mártyāya ǀ kám ǀ áriṇāḥ ǀ indra ǀ sū́ryam ǀ
prá ǀ āvaḥ ǀ śácībhiḥ ǀ étaśam ǁyatra ǀ uta ǀ martyāya ǀ kam ǀ ariṇāḥ ǀ indra ǀ sūryam ǀ
pra ǀ āvaḥ ǀ śacībhiḥ ǀ etaśam ǁ4.30.6 Aṣṭaka 3.6.20.1Anuvāka 4.3.69
-
Ṛk 7
किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः ।
अत्राह॒ दानु॒माति॑रः ॥किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः |
अत्राह दानुम् आतिरः ||kímā́dutā́si vṛtrahanmághavanmanyumáttamaḥ ǀ
átrā́ha dā́numā́tiraḥ ǁkim ād utāsi vṛtrahan maghavan manyumattamaḥ |
atrāha dānum ātiraḥ ||किम् । आत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । मघ॑ऽवन् । म॒न्यु॒मत्ऽत॑मः ।
अत्र॑ । अह॑ । दानु॑म् । आ । अ॒ति॒रः॒ ॥किम् । आत् । उत । असि । वृत्रऽहन् । मघऽवन् । मन्युमत्ऽतमः ।
अत्र । अह । दानुम् । आ । अतिरः ॥kím ǀ ā́t ǀ utá ǀ asi ǀ vṛtra-han ǀ mágha-van ǀ manyumát-tamaḥ ǀ
átra ǀ áha ǀ dā́num ǀ ā́ ǀ atiraḥ ǁkim ǀ āt ǀ uta ǀ asi ǀ vṛtra-han ǀ magha-van ǀ manyumat-tamaḥ ǀ
atra ǀ aha ǀ dānum ǀ ā ǀ atiraḥ ǁ4.30.7 Aṣṭaka 3.6.20.2Anuvāka 4.3.70
-
Ṛk 8
ए॒तद्घेदु॒त वी॒र्य१॒॑मिंद्र॑ च॒कर्थ॒ पौंस्यं॑ ।
स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः ॥एतद् घेद् उत वीर्यम् इन्द्र चकर्थ पौंस्यम् |
स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः ||etádghédutá vīryámíndra cakártha páuṃsyam ǀ
stríyam yáddurhaṇāyúvam vádhīrduhitáram diváḥ ǁetad ghed uta vīryam indra cakartha pauṃsyam |
striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ ||ए॒तत् । घ॒ । इत् । उ॒त । वी॒र्य॑म् । इन्द्र॑ । च॒कर्थ॑ । पौंस्य॑म् ।
स्त्रिय॑म् । यत् । दुः॒ऽह॒ना॒युव॑म् । वधीः॑ । दु॒हि॒तर॑म् । दि॒वः ॥एतत् । घ । इत् । उत । वीर्यम् । इन्द्र । चकर्थ । पौंस्यम् ।
स्त्रियम् । यत् । दुःऽहनायुवम् । वधीः । दुहितरम् । दिवः ॥etát ǀ gha ǀ ít ǀ utá ǀ vīryám ǀ índra ǀ cakártha ǀ páuṃsyam ǀ
stríyam ǀ yát ǀ duḥ-hanāyúvam ǀ vádhīḥ ǀ duhitáram ǀ diváḥ ǁetat ǀ gha ǀ it ǀ uta ǀ vīryam ǀ indra ǀ cakartha ǀ pauṃsyam ǀ
striyam ǀ yat ǀ duḥ-hanāyuvam ǀ vadhīḥ ǀ duhitaram ǀ divaḥ ǁ4.30.8 Aṣṭaka 3.6.20.3Anuvāka 4.3.71
-
Ṛk 9
दि॒वश्चि॑द्घा दुहि॒तरं॑ म॒हान्म॑ही॒यमा॑नां ।
उ॒षास॑मिंद्र॒ सं पि॑णक् ॥दिवश् चिद् घा दुहितरम् महान् महीयमानाम् |
उषासम् इन्द्र सम् पिणक् ||diváścidghā duhitáram mahā́nmahīyámānām ǀ
uṣā́samindra sám piṇak ǁdivaś cid ghā duhitaram mahān mahīyamānām |
uṣāsam indra sam piṇak ||दि॒वः । चि॒त् । घ॒ । दु॒हि॒तर॑म् । म॒हान् । म॒ही॒यमा॑नाम् ।
उ॒षस॑म् । इ॒न्द्र॒ । सम् । पि॒ण॒क् ॥दिवः । चित् । घ । दुहितरम् । महान् । महीयमानाम् ।
उषसम् । इन्द्र । सम् । पिणक् ॥diváḥ ǀ cit ǀ gha ǀ duhitáram ǀ mahā́n ǀ mahīyámānām ǀ
uṣásam ǀ indra ǀ sám ǀ piṇak ǁdivaḥ ǀ cit ǀ gha ǀ duhitaram ǀ mahān ǀ mahīyamānām ǀ
uṣasam ǀ indra ǀ sam ǀ piṇak ǁ4.30.9 Aṣṭaka 3.6.20.4Anuvāka 4.3.72
-
Ṛk 10
अपो॒षा अन॑सः सर॒त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑ ।
नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी |
नि यत् सीं शिश्नथद् वृषा ||ápoṣā́ ánasaḥ saratsámpiṣṭādáha bibhyúṣī ǀ
ní yátsīm śiśnáthadvṛ́ṣā ǁapoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī |
ni yat sīṃ śiśnathad vṛṣā ||अप॑ । उ॒षाः । अन॑सः । स॒र॒त् । सम्ऽपि॑ष्टात् । अह॑ । बि॒भ्युषी॑ ।
नि । यत् । सी॒म् । शि॒श्नथ॑त् । वृषा॑ ॥अप । उषाः । अनसः । सरत् । सम्ऽपिष्टात् । अह । बिभ्युषी ।
नि । यत् । सीम् । शिश्नथत् । वृषा ॥ápa ǀ uṣā́ḥ ǀ ánasaḥ ǀ sarat ǀ sám-piṣṭāt ǀ áha ǀ bibhyúṣī ǀ
ní ǀ yát ǀ sīm ǀ śiśnáthat ǀ vṛ́ṣā ǁapa ǀ uṣāḥ ǀ anasaḥ ǀ sarat ǀ sam-piṣṭāt ǀ aha ǀ bibhyuṣī ǀ
ni ǀ yat ǀ sīm ǀ śiśnathat ǀ vṛṣā ǁ4.30.10 Aṣṭaka 3.6.20.5Anuvāka 4.3.73
-
Ṛk 11
ए॒तद॑स्या॒ अनः॑ शये॒ सुसं॑पिष्टं॒ विपा॒श्या ।
स॒सार॑ सीं परा॒वतः॑ ॥एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ |
ससार सीम् परावतः ||etádasyā ánaḥ śaye súsampiṣṭam vípāśyā́ ǀ
sasā́ra sīm parāvátaḥ ǁetad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā |
sasāra sīm parāvataḥ ||ए॒तत् । अ॒स्याः॒ । अनः॑ । श॒ये॒ । सुऽस॑म्पिष्टम् । विऽपा॑शि । आ ।
स॒सार॑ । सी॒म् । प॒रा॒ऽवतः॑ ॥एतत् । अस्याः । अनः । शये । सुऽसम्पिष्टम् । विऽपाशि । आ ।
ससार । सीम् । पराऽवतः ॥etát ǀ asyāḥ ǀ ánaḥ ǀ śaye ǀ sú-sampiṣṭam ǀ ví-pāśi ǀ ā́ ǀ
sasā́ra ǀ sīm ǀ parā-vátaḥ ǁetat ǀ asyāḥ ǀ anaḥ ǀ śaye ǀ su-sampiṣṭam ǀ vi-pāśi ǀ ā ǀ
sasāra ǀ sīm ǀ parā-vataḥ ǁ4.30.11 Aṣṭaka 3.6.21.1Anuvāka 4.3.74
-
Ṛk 12
उ॒त सिंधुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ ।
परि॑ ष्ठा इंद्र मा॒यया॑ ॥उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि |
परि ष्ठा इन्द्र मायया ||utá síndhum vibālyám vitasthānā́mádhi kṣámi ǀ
pári ṣṭhā indra māyáyā ǁuta sindhuṃ vibālyaṃ vitasthānām adhi kṣami |
pari ṣṭhā indra māyayā ||उ॒त । सिन्धु॑म् । वि॒ऽबा॒ल्य॑म् । वि॒ऽत॒स्था॒नाम् । अधि॑ । क्षमि॑ ।
परि॑ । स्थाः॒ । इ॒न्द्र॒ । मा॒यया॑ ॥उत । सिन्धुम् । विऽबाल्यम् । विऽतस्थानाम् । अधि । क्षमि ।
परि । स्थाः । इन्द्र । मायया ॥utá ǀ síndhum ǀ vi-bālyám ǀ vi-tasthānā́m ǀ ádhi ǀ kṣámi ǀ
pári ǀ sthāḥ ǀ indra ǀ māyáyā ǁuta ǀ sindhum ǀ vi-bālyam ǀ vi-tasthānām ǀ adhi ǀ kṣami ǀ
pari ǀ sthāḥ ǀ indra ǀ māyayā ǁ4.30.12 Aṣṭaka 3.6.21.2Anuvāka 4.3.75
-
Ṛk 13
उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नं ।
पुरो॒ यद॑स्य संपि॒णक् ॥उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् |
पुरो यद् अस्य सम्पिणक् ||utá śúṣṇasya dhṛṣṇuyā́ prá mṛkṣo abhí védanam ǀ
púro yádasya sampiṇák ǁuta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam |
puro yad asya sampiṇak ||उ॒त । शुष्ण॑स्य । धृ॒ष्णु॒ऽया । प्र । मृ॒क्षः॒ । अ॒भि । वेद॑नम् ।
पुरः॑ । यत् । अ॒स्य॒ । स॒म्ऽपि॒णक् ॥उत । शुष्णस्य । धृष्णुऽया । प्र । मृक्षः । अभि । वेदनम् ।
पुरः । यत् । अस्य । सम्ऽपिणक् ॥utá ǀ śúṣṇasya ǀ dhṛṣṇu-yā́ ǀ prá ǀ mṛkṣaḥ ǀ abhí ǀ védanam ǀ
púraḥ ǀ yát ǀ asya ǀ sam-piṇák ǁuta ǀ śuṣṇasya ǀ dhṛṣṇu-yā ǀ pra ǀ mṛkṣaḥ ǀ abhi ǀ vedanam ǀ
puraḥ ǀ yat ǀ asya ǀ sam-piṇak ǁ4.30.13 Aṣṭaka 3.6.21.3Anuvāka 4.3.76
-
Ṛk 14
उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ ।
अवा॑हन्निंद्र॒ शंब॑रं ॥उत दासं कौलितरम् बृहतः पर्वताद् अधि |
अवाहन्न् इन्द्र शम्बरम् ||utá dāsám kaulitarám bṛhatáḥ párvatādádhi ǀ
ávāhannindra śámbaram ǁuta dāsaṃ kaulitaram bṛhataḥ parvatād adhi |
avāhann indra śambaram ||उ॒त । दा॒सम् । कौ॒लि॒ऽत॒रम् । बृ॒ह॒तः । पर्व॑तात् । अधि॑ ।
अव॑ । अ॒ह॒न् । इ॒न्द्र॒ । शम्ब॑रम् ॥उत । दासम् । कौलिऽतरम् । बृहतः । पर्वतात् । अधि ।
अव । अहन् । इन्द्र । शम्बरम् ॥utá ǀ dāsám ǀ kauli-tarám ǀ bṛhatáḥ ǀ párvatāt ǀ ádhi ǀ
áva ǀ ahan ǀ indra ǀ śámbaram ǁuta ǀ dāsam ǀ kauli-taram ǀ bṛhataḥ ǀ parvatāt ǀ adhi ǀ
ava ǀ ahan ǀ indra ǀ śambaram ǁ4.30.14 Aṣṭaka 3.6.21.4Anuvāka 4.3.77
-
Ṛk 15
उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा॑णि श॒ताव॑धीः ।
अधि॒ पंच॑ प्र॒धीँरि॑व ॥उत दासस्य वर्चिनः सहस्राणि शतावधीः |
अधि पञ्च प्रधींर् इव ||utá dāsásya varcínaḥ sahásrāṇi śatā́vadhīḥ ǀ
ádhi páñca pradhī́m̐riva ǁuta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ |
adhi pañca pradhīṃr iva ||उ॒त । दा॒सस्य॑ । व॒र्चिनः॑ । स॒हस्रा॑णि । श॒ता । अ॒व॒धीः॒ ।
अधि॑ । पञ्च॑ । प्र॒धीन्ऽइ॑व ॥उत । दासस्य । वर्चिनः । सहस्राणि । शता । अवधीः ।
अधि । पञ्च । प्रधीन्ऽइव ॥utá ǀ dāsásya ǀ varcínaḥ ǀ sahásrāṇi ǀ śatā́ ǀ avadhīḥ ǀ
ádhi ǀ páñca ǀ pradhī́n-iva ǁuta ǀ dāsasya ǀ varcinaḥ ǀ sahasrāṇi ǀ śatā ǀ avadhīḥ ǀ
adhi ǀ pañca ǀ pradhīn-iva ǁ4.30.15 Aṣṭaka 3.6.21.5Anuvāka 4.3.78
-
Ṛk 16
उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा॑वृक्तं श॒तक्र॑तुः ।
उ॒क्थेष्विंद्र॒ आभ॑जत् ॥उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः |
उक्थेष्व् इन्द्र आभजत् ||utá tyám putrámagrúvaḥ párāvṛktam śatákratuḥ ǀ
ukthéṣvíndra ā́bhajat ǁuta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ |
uktheṣv indra ābhajat ||उ॒त । त्यम् । पु॒त्रम् । अ॒ग्रुवः॑ । परा॑ऽवृक्तम् । श॒तऽक्र॑तुः ।
उ॒क्थेषु॑ । इन्द्रः॑ । आ । अ॒भ॒ज॒त् ॥उत । त्यम् । पुत्रम् । अग्रुवः । पराऽवृक्तम् । शतऽक्रतुः ।
उक्थेषु । इन्द्रः । आ । अभजत् ॥utá ǀ tyám ǀ putrám ǀ agrúvaḥ ǀ párā-vṛktam ǀ śatá-kratuḥ ǀ
ukthéṣu ǀ índraḥ ǀ ā́ ǀ abhajat ǁuta ǀ tyam ǀ putram ǀ agruvaḥ ǀ parā-vṛktam ǀ śata-kratuḥ ǀ
uktheṣu ǀ indraḥ ǀ ā ǀ abhajat ǁ4.30.16 Aṣṭaka 3.6.22.1Anuvāka 4.3.79
-
Ṛk 17
उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑ ।
इंद्रो॑ वि॒द्वाँ अ॑पारयत् ॥उत त्या तुर्वशायदू अस्नातारा शचीपतिः |
इन्द्रो विद्वां अपारयत् ||utá tyā́ turváśāyádū asnātā́rā śácīpátiḥ ǀ
índro vidvā́m̐ apārayat ǁuta tyā turvaśāyadū asnātārā śacīpatiḥ |
indro vidvāṃ apārayat ||उ॒त । त्या । तु॒र्वशा॒यदू॒ इति॑ । अ॒स्ना॒तारा॑ । शची॒३॒॑ऽपतिः॑ ।
इन्द्रः॑ । वि॒द्वान् । अ॒पा॒र॒य॒त् ॥उत । त्या । तुर्वशायदू इति । अस्नातारा । शचीऽपतिः ।
इन्द्रः । विद्वान् । अपारयत् ॥utá ǀ tyā́ ǀ turváśāyádū íti ǀ asnātā́rā ǀ śacī́-pátiḥ ǀ
índraḥ ǀ vidvā́n ǀ apārayat ǁuta ǀ tyā ǀ turvaśāyadū iti ǀ asnātārā ǀ śacī-patiḥ ǀ
indraḥ ǀ vidvān ǀ apārayat ǁ4.30.17 Aṣṭaka 3.6.22.2Anuvāka 4.3.80
-
Ṛk 18
उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिंद्र पा॒रतः॑ ।
अर्णा॑चि॒त्रर॑थावधीः ॥उत त्या सद्य आर्या सरयोर् इन्द्र पारतः |
अर्णाचित्ररथावधीः ||utá tyā́ sadyá ā́ryā saráyorindra pārátaḥ ǀ
árṇācitrárathāvadhīḥ ǁuta tyā sadya āryā sarayor indra pārataḥ |
arṇācitrarathāvadhīḥ ||उ॒त । त्या । स॒द्यः । आर्या॑ । स॒रयोः॑ । इ॒न्द्र॒ । पा॒रतः॑ ।
अर्णा॑चि॒त्रर॑था । अ॒व॒धीः॒ ॥उत । त्या । सद्यः । आर्या । सरयोः । इन्द्र । पारतः ।
अर्णाचित्ररथा । अवधीः ॥utá ǀ tyā́ ǀ sadyáḥ ǀ ā́ryā ǀ saráyoḥ ǀ indra ǀ pārátaḥ ǀ
árṇācitrárathā ǀ avadhīḥ ǁuta ǀ tyā ǀ sadyaḥ ǀ āryā ǀ sarayoḥ ǀ indra ǀ pārataḥ ǀ
arṇācitrarathā ǀ avadhīḥ ǁ4.30.18 Aṣṭaka 3.6.22.3Anuvāka 4.3.81
-
Ṛk 19
अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽंधं श्रो॒णं च॑ वृत्रहन् ।
न तत्ते॑ सु॒म्नमष्ट॑वे ॥अनु द्वा जहिता नयो ऽन्धं श्रोणं च वृत्रहन् |
न तत् ते सुम्नम् अष्टवे ||ánu dvā́ jahitā́ nayo’ndhám śroṇám ca vṛtrahan ǀ
ná tátte sumnámáṣṭave ǁanu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan |
na tat te sumnam aṣṭave ||अनु॑ । द्वा । ज॒हि॒ता । न॒यः॒ । अ॒न्धम् । श्रो॒णम् । च॒ । वृ॒त्र॒ऽह॒न् ।
न । तत् । ते॒ । सु॒म्नम् । अष्ट॑वे ॥अनु । द्वा । जहिता । नयः । अन्धम् । श्रोणम् । च । वृत्रऽहन् ।
न । तत् । ते । सुम्नम् । अष्टवे ॥ánu ǀ dvā́ ǀ jahitā́ ǀ nayaḥ ǀ andhám ǀ śroṇám ǀ ca ǀ vṛtra-han ǀ
ná ǀ tát ǀ te ǀ sumnám ǀ áṣṭave ǁanu ǀ dvā ǀ jahitā ǀ nayaḥ ǀ andham ǀ śroṇam ǀ ca ǀ vṛtra-han ǀ
na ǀ tat ǀ te ǀ sumnam ǀ aṣṭave ǁ4.30.19 Aṣṭaka 3.6.22.4Anuvāka 4.3.82
-
Ṛk 20
श॒तम॑श्म॒न्मयी॑नां पु॒रामिंद्रो॒ व्या॑स्यत् ।
दिवो॑दासाय दा॒शुषे॑ ॥शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् |
दिवोदासाय दाशुषे ||śatámaśmanmáyīnām purā́míndro vyā́syat ǀ
dívodāsāya dāśúṣe ǁśatam aśmanmayīnām purām indro vy āsyat |
divodāsāya dāśuṣe ||श॒तम् । अ॒श्म॒न्ऽमयी॑नाम् । पु॒राम् । इन्द्रः॑ । वि । आ॒स्य॒त् ।
दिवः॑ऽदासाय । दा॒शुषे॑ ॥शतम् । अश्मन्ऽमयीनाम् । पुराम् । इन्द्रः । वि । आस्यत् ।
दिवःऽदासाय । दाशुषे ॥śatám ǀ aśman-máyīnām ǀ purā́m ǀ índraḥ ǀ ví ǀ āsyat ǀ
dívaḥ-dāsāya ǀ dāśúṣe ǁśatam ǀ aśman-mayīnām ǀ purām ǀ indraḥ ǀ vi ǀ āsyat ǀ
divaḥ-dāsāya ǀ dāśuṣe ǁ4.30.20 Aṣṭaka 3.6.22.5Anuvāka 4.3.83
-
Ṛk 21
अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथैः॑ ।
दा॒साना॒मिंद्रो॑ मा॒यया॑ ॥अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः |
दासानाम् इन्द्रो मायया ||ásvāpayaddabhī́taye sahásrā triṃśátam háthaiḥ ǀ
dāsā́nāmíndro māyáyā ǁasvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ |
dāsānām indro māyayā ||अस्वा॑पयत् । द॒भीत॑ये । स॒हस्रा॑ । त्रिं॒शत॑म् । हथैः॑ ।
दा॒साना॑म् । इन्द्रः॑ । मा॒यया॑ ॥अस्वापयत् । दभीतये । सहस्रा । त्रिंशतम् । हथैः ।
दासानाम् । इन्द्रः । मायया ॥ásvāpayat ǀ dabhī́taye ǀ sahásrā ǀ triṃśátam ǀ háthaiḥ ǀ
dāsā́nām ǀ índraḥ ǀ māyáyā ǁasvāpayat ǀ dabhītaye ǀ sahasrā ǀ triṃśatam ǀ hathaiḥ ǀ
dāsānām ǀ indraḥ ǀ māyayā ǁ4.30.21 Aṣṭaka 3.6.23.1Anuvāka 4.3.84
-
Ṛk 22
स घेदु॒तासि॑ वृत्रहन्त्समा॒न इं॑द्र॒ गोप॑तिः ।
यस्ता विश्वा॑नि चिच्यु॒षे ॥स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः |
यस् ता विश्वानि चिच्युषे ||sá ghédutā́si vṛtrahantsamāná indra gópatiḥ ǀ
yástā́ víśvāni cicyuṣé ǁsa ghed utāsi vṛtrahan samāna indra gopatiḥ |
yas tā viśvāni cicyuṣe ||सः । घ॒ । इत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । स॒मा॒नः । इ॒न्द्र॒ । गोऽप॑तिः ।
यः । ता । विश्वा॑नि । चि॒च्यु॒षे ॥सः । घ । इत् । उत । असि । वृत्रऽहन् । समानः । इन्द्र । गोऽपतिः ।
यः । ता । विश्वानि । चिच्युषे ॥sáḥ ǀ gha ǀ ít ǀ utá ǀ asi ǀ vṛtra-han ǀ samānáḥ ǀ indra ǀ gó-patiḥ ǀ
yáḥ ǀ tā́ ǀ víśvāni ǀ cicyuṣé ǁsaḥ ǀ gha ǀ it ǀ uta ǀ asi ǀ vṛtra-han ǀ samānaḥ ǀ indra ǀ go-patiḥ ǀ
yaḥ ǀ tā ǀ viśvāni ǀ cicyuṣe ǁ4.30.22 Aṣṭaka 3.6.23.2Anuvāka 4.3.85
-
Ṛk 23
उ॒त नू॒नं यदिं॑द्रि॒यं क॑रि॒ष्या इं॑द्र॒ पौंस्यं॑ ।
अ॒द्या नकि॒ष्टदा मि॑नत् ॥उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् |
अद्या नकिष् टद् आ मिनत् ||utá nūnám yádindriyám kariṣyā́ indra páuṃsyam ǀ
adyā́ nákiṣṭádā́ minat ǁuta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam |
adyā nakiṣ ṭad ā minat ||उ॒त । नू॒नम् । यत् । इ॒न्द्रि॒यम् । क॒रि॒ष्याः । इ॒न्द्र॒ । पौंस्य॑म् ।
अ॒द्य । नकिः॑ । तत् । आ । मि॒न॒त् ॥उत । नूनम् । यत् । इन्द्रियम् । करिष्याः । इन्द्र । पौंस्यम् ।
अद्य । नकिः । तत् । आ । मिनत् ॥utá ǀ nūnám ǀ yát ǀ indriyám ǀ kariṣyā́ḥ ǀ indra ǀ páuṃsyam ǀ
adyá ǀ nákiḥ ǀ tát ǀ ā́ ǀ minat ǁuta ǀ nūnam ǀ yat ǀ indriyam ǀ kariṣyāḥ ǀ indra ǀ pauṃsyam ǀ
adya ǀ nakiḥ ǀ tat ǀ ā ǀ minat ǁ4.30.23 Aṣṭaka 3.6.23.3Anuvāka 4.3.86
-
Ṛk 24
वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा ।
वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती ॥वामं-वामं त आदुरे देवो ददात्व् अर्यमा |
वामम् पूषा वामम् भगो वामं देवः करूऌअती ||vāmáṃvāmam ta ādure devó dadātvaryamā́ ǀ
vāmám pūṣā́ vāmám bhágo vāmám deváḥ kárūḷatī ǁvāmaṃ-vāmaṃ ta ādure devo dadātv aryamā |
vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūḷatī ||व॒मम्ऽवा॑मम् । ते॒ । आ॒ऽदु॒रे॒ । दे॒वः । द॒दा॒तु॒ । अ॒र्य॒मा ।
वा॒मम् । पू॒षा । वा॒मम् । भगः॑ । वा॒मम् । दे॒वः । करू॑ळती ॥वमम्ऽवामम् । ते । आऽदुरे । देवः । ददातु । अर्यमा ।
वामम् । पूषा । वामम् । भगः । वामम् । देवः । करूळती ॥vamám-vāmam ǀ te ǀ ā-dure ǀ deváḥ ǀ dadātu ǀ aryamā́ ǀ
vāmám ǀ pūṣā́ ǀ vāmám ǀ bhágaḥ ǀ vāmám ǀ deváḥ ǀ kárūḷatī ǁvamam-vāmam ǀ te ǀ ā-dure ǀ devaḥ ǀ dadātu ǀ aryamā ǀ
vāmam ǀ pūṣā ǀ vāmam ǀ bhagaḥ ǀ vāmam ǀ devaḥ ǀ karūḷatī ǁ4.30.24 Aṣṭaka 3.6.23.4Anuvāka 4.3.87
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.