Ṛk 4.30.1
Saṃhitā
नकि॑रिंद्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् ।
नकि॑रे॒वा यथा॒ त्वं ॥
नकिर् इन्द्र त्वद् उत्तरो न ज्यायां अस्ति वृत्रहन् |
नकिर् एवा यथा त्वम् ||
nákirindra tvádúttaro ná jyā́yām̐ asti vṛtrahan ǀ
nákirevā́ yáthā tvám ǁ
nakir indra tvad uttaro na jyāyāṃ asti vṛtrahan |
nakir evā yathā tvam ||
Padapāṭha
नकिः॑ । इ॒न्द्र॒ । त्वत् । उत्ऽत॑रः । न । ज्याया॑न् । अ॒स्ति॒ । वृ॒त्र॒ऽह॒न् ।
नकिः॑ । ए॒व । यथा॑ । त्वम् ॥
नकिः । इन्द्र । त्वत् । उत्ऽतरः । न । ज्यायान् । अस्ति । वृत्रऽहन् ।
नकिः । एव । यथा । त्वम् ॥
nákiḥ ǀ indra ǀ tvát ǀ út-taraḥ ǀ ná ǀ jyā́yān ǀ asti ǀ vṛtra-han ǀ
nákiḥ ǀ evá ǀ yáthā ǀ tvám ǁ
nakiḥ ǀ indra ǀ tvat ǀ ut-taraḥ ǀ na ǀ jyāyān ǀ asti ǀ vṛtra-han ǀ
nakiḥ ǀ eva ǀ yathā ǀ tvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.030.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.19.01
- Maṇḍala · Anuvāka · Ṛk
- 04.03.064
- Devatā देवता
- 1-8, 12-24: Indra; 9-11: Indra, Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.