Ṛgveda · Maṇḍala 4 · Sūkta 29

Ṛk 4.29.5

Indra · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

त्वोता॑सो मघवन्निंद्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णंतः॑ ।
भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥

त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः |
भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ||

tvótāso maghavannindra víprā vayám te syāma sūráyo gṛṇántaḥ ǀ
bhejānā́so bṛháddivasya rāyá ākāyyásya dāváne purukṣóḥ ǁ

tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ |
bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ ||

Padapāṭha

त्वाऽऊ॑तासः । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । विप्राः॑ । व॒यम् । ते॒ । स्या॒म॒ । सू॒रयः॑ । गृ॒णन्तः॑ ।
भे॒जा॒नासः॑ । बृ॒हत्ऽदि॑वस्य । रा॒यः । आ॒ऽका॒य्य॑स्य । दा॒वने॑ । पु॒रु॒ऽक्षोः ॥

त्वाऽऊतासः । मघऽवन् । इन्द्र । विप्राः । वयम् । ते । स्याम । सूरयः । गृणन्तः ।
भेजानासः । बृहत्ऽदिवस्य । रायः । आऽकाय्यस्य । दावने । पुरुऽक्षोः ॥

tvā́-ūtāsaḥ ǀ magha-van ǀ indra ǀ víprāḥ ǀ vayám ǀ te ǀ syāma ǀ sūráyaḥ ǀ gṛṇántaḥ ǀ
bhejānā́saḥ ǀ bṛhát-divasya ǀ rāyáḥ ǀ ā-kāyyásya ǀ dāváne ǀ puru-kṣóḥ ǁ

tvā-ūtāsaḥ ǀ magha-van ǀ indra ǀ viprāḥ ǀ vayam ǀ te ǀ syāma ǀ sūrayaḥ ǀ gṛṇantaḥ ǀ
bhejānāsaḥ ǀ bṛhat-divasya ǀ rāyaḥ ǀ ā-kāyyasya ǀ dāvane ǀ puru-kṣoḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
04.029.05
Aṣṭaka · Adhyāya · Varga · Ṛk
3.6.18.05
Maṇḍala · Anuvāka · Ṛk
04.03.063
Devatā देवता
Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.29.5

Interpretations

Sāyaṇa

हे मघवन्धनवन्निन्द्र त्वोतासस्त्वया रक्षिता विप्रा मेधाविनो गृनन्तस्त्वां स्तुवन्तः सूरयः स्तोतारो वयं बृहद्दिवस्य महद्दीप्तेराकाय्यस्य आ समन्तात्त्सुत्यस्य पुरुक्षोर्बह्वन्नस्य बहुकीर्तेर्वा ते त्वदीयस्य रायो धनस्य दावने दाने निमित्ते सति भेजानासस्त्वां भजमानाः स्याम । भवेम ॥ ५ ॥