Sūkta 13
- Devatā देवता
- 1: Agni, Aśvins, Sūrya; 2: Agni, Mitra, Varuṇa, Savitṛ, Sūrya; 3, 4: Agni, Sūrya; 5: Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 2, 4, 5); nicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेयं॑ ।
या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ॥प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना रत्नधेयम् |
यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति ||prátyagníruṣásāmágramakhyadvibhātīnā́m sumánā ratnadhéyam ǀ
yātámaśvinā sukṛ́to duroṇámútsū́ryo jyótiṣā devá eti ǁpraty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam |
yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti ||प्रति॑ । अ॒ग्निः । उ॒षसा॑म् । अग्र॑म् । अ॒ख्य॒त् । वि॒ऽभा॒ती॒नाम् । सु॒ऽमनाः॑ । र॒त्न॒ऽधेय॑म् ।
या॒तम् । अ॒श्वि॒ना॒ । सु॒ऽकृतः॑ । दु॒रो॒णम् । उत् । सूर्यः॑ । ज्योति॑षा । दे॒वः । ए॒ति॒ ॥प्रति । अग्निः । उषसाम् । अग्रम् । अख्यत् । विऽभातीनाम् । सुऽमनाः । रत्नऽधेयम् ।
यातम् । अश्विना । सुऽकृतः । दुरोणम् । उत् । सूर्यः । ज्योतिषा । देवः । एति ॥práti ǀ agníḥ ǀ uṣásām ǀ ágram ǀ akhyat ǀ vi-bhātīnā́m ǀ su-mánāḥ ǀ ratna-dhéyam ǀ
yātám ǀ aśvinā ǀ su-kṛ́taḥ ǀ duroṇám ǀ út ǀ sū́ryaḥ ǀ jyótiṣā ǀ deváḥ ǀ eti ǁprati ǀ agniḥ ǀ uṣasām ǀ agram ǀ akhyat ǀ vi-bhātīnām ǀ su-manāḥ ǀ ratna-dheyam ǀ
yātam ǀ aśvinā ǀ su-kṛtaḥ ǀ duroṇam ǀ ut ǀ sūryaḥ ǀ jyotiṣā ǀ devaḥ ǀ eti ǁ4.13.1 Aṣṭaka 3.5.13.1Anuvāka 4.2.13
-
Ṛk 2
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ ।
अनु॑ व्र॒तं वरु॑णो यंति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हयं॑ति ॥ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा |
अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति ||ūrdhvám bhānúm savitā́ devó aśreddrapsám dávidhvadgaviṣó ná sátvā ǀ
ánu vratám váruṇo yanti mitró yátsū́ryam divyā́roháyanti ǁūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā |
anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti ||ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । द्र॒प्सम् । दवि॑ध्वत् । गो॒ऽइ॒षः । न । सत्वा॑ ।
अनु॑ । व्र॒तम् । वरु॑णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य॑म् । दि॒वि । आ॒ऽरो॒हय॑न्ति ॥ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । द्रप्सम् । दविध्वत् । गोऽइषः । न । सत्वा ।
अनु । व्रतम् । वरुणः । यन्ति । मित्रः । यत् । सूर्यम् । दिवि । आऽरोहयन्ति ॥ūrdhvám ǀ bhānúm ǀ savitā́ ǀ deváḥ ǀ aśret ǀ drapsám ǀ dávidhvat ǀ go-iṣáḥ ǀ ná ǀ sátvā ǀ
ánu ǀ vratám ǀ váruṇaḥ ǀ yanti ǀ mitráḥ ǀ yát ǀ sū́ryam ǀ diví ǀ ā-roháyanti ǁūrdhvam ǀ bhānum ǀ savitā ǀ devaḥ ǀ aśret ǀ drapsam ǀ davidhvat ǀ go-iṣaḥ ǀ na ǀ satvā ǀ
anu ǀ vratam ǀ varuṇaḥ ǀ yanti ǀ mitraḥ ǀ yat ǀ sūryam ǀ divi ǀ ā-rohayanti ǁ4.13.2 Aṣṭaka 3.5.13.2Anuvāka 4.2.14
-
Ṛk 3
यं सी॒मकृ॑ण्वं॒तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यंतो॒ अर्थं॑ ।
तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहंति ॥यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् |
तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति ||yám sīmákṛṇvantámase vipṛ́ce dhruvákṣemā ánavasyanto ártham ǀ
tám sū́ryam harítaḥ saptá yahvī́ḥ spáśam víśvasya jágato vahanti ǁyaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham |
taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti ||यम् । सी॒म् । अकृ॑ण्वन् । तम॑से । वि॒ऽपृचे॑ । ध्रु॒वऽक्षे॑माः । अन॑वऽस्यन्तः । अर्थ॑म् ।
तम् । सूर्य॑म् । ह॒रितः॑ । स॒प्त । य॒ह्वीः । स्पश॑म् । विश्व॑स्य । जग॑तः । व॒ह॒न्ति॒ ॥यम् । सीम् । अकृण्वन् । तमसे । विऽपृचे । ध्रुवऽक्षेमाः । अनवऽस्यन्तः । अर्थम् ।
तम् । सूर्यम् । हरितः । सप्त । यह्वीः । स्पशम् । विश्वस्य । जगतः । वहन्ति ॥yám ǀ sīm ǀ ákṛṇvan ǀ támase ǀ vi-pṛ́ce ǀ dhruvá-kṣemāḥ ǀ ánava-syantaḥ ǀ ártham ǀ
tám ǀ sū́ryam ǀ harítaḥ ǀ saptá ǀ yahvī́ḥ ǀ spáśam ǀ víśvasya ǀ jágataḥ ǀ vahanti ǁyam ǀ sīm ǀ akṛṇvan ǀ tamase ǀ vi-pṛce ǀ dhruva-kṣemāḥ ǀ anava-syantaḥ ǀ artham ǀ
tam ǀ sūryam ǀ haritaḥ ǀ sapta ǀ yahvīḥ ǀ spaśam ǀ viśvasya ǀ jagataḥ ǀ vahanti ǁ4.13.3 Aṣṭaka 3.5.13.3Anuvāka 4.2.15
-
Ṛk 4
वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तंतु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ ।
दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्वं१॒॑तः ॥वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म |
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः ||váhiṣṭhebhirviháranyāsi tántumavavyáyannásitam deva vásma ǀ
dávidhvato raśmáyaḥ sū́ryasya cármevā́vādhustámo apsvántáḥ ǁvahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma |
davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ ||वहि॑ष्ठेभिः । वि॒ऽहर॑न् । या॒सि॒ । तन्तु॑म् । अ॒व॒ऽव्यय॑न् । असि॑तम् । दे॒व॒ । वस्म॑ ।
दवि॑ध्वतः । र॒श्मयः॑ । सूर्य॑स्य । चर्म॑ऽइव । अव॑ । अ॒धुः॒ । तमः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ ॥वहिष्ठेभिः । विऽहरन् । यासि । तन्तुम् । अवऽव्ययन् । असितम् । देव । वस्म ।
दविध्वतः । रश्मयः । सूर्यस्य । चर्मऽइव । अव । अधुः । तमः । अप्ऽसु । अन्तरिति ॥váhiṣṭhebhiḥ ǀ vi-háran ǀ yāsi ǀ tántum ǀ ava-vyáyan ǀ ásitam ǀ deva ǀ vásma ǀ
dávidhvataḥ ǀ raśmáyaḥ ǀ sū́ryasya ǀ cárma-iva ǀ áva ǀ adhuḥ ǀ támaḥ ǀ ap-sú ǀ antáríti ǁvahiṣṭhebhiḥ ǀ vi-haran ǀ yāsi ǀ tantum ǀ ava-vyayan ǀ asitam ǀ deva ǀ vasma ǀ
davidhvataḥ ǀ raśmayaḥ ǀ sūryasya ǀ carma-iva ǀ ava ǀ adhuḥ ǀ tamaḥ ǀ ap-su ǀ antariti ǁ4.13.4 Aṣṭaka 3.5.13.4Anuvāka 4.2.16
-
Ṛk 5
अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।
कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्कं॒भः समृ॑तः पाति॒ नाकं॑ ॥अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न |
कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ||ánāyato ánibaddhaḥ kathā́yám nyáṅṅuttānó’va padyate ná ǀ
káyā yāti svadháyā kó dadarśa diváḥ skambháḥ sámṛtaḥ pāti nā́kam ǁanāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |
kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam ||अना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न ।
कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥अनायतः । अनिऽबद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न ।
कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्ऽऋतः । पाति । नाकम् ॥ánāyataḥ ǀ áni-baddhaḥ ǀ kathā́ ǀ ayám ǀ nyáṅ ǀ uttānáḥ ǀ áva ǀ padyate ǀ ná ǀ
káyā ǀ yāti ǀ svadháyā ǀ káḥ ǀ dadarśa ǀ diváḥ ǀ skambháḥ ǀ sám-ṛtaḥ ǀ pāti ǀ nā́kam ǁanāyataḥ ǀ ani-baddhaḥ ǀ kathā ǀ ayam ǀ nyaṅ ǀ uttānaḥ ǀ ava ǀ padyate ǀ na ǀ
kayā ǀ yāti ǀ svadhayā ǀ kaḥ ǀ dadarśa ǀ divaḥ ǀ skambhaḥ ǀ sam-ṛtaḥ ǀ pāti ǀ nākam ǁ4.13.5 Aṣṭaka 3.5.13.5Anuvāka 4.2.17
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.