Sūkta 32
- Devatā देवता
- 1-22: Indra; 23, 24: Indrāśva (Indra’s Two Horses)
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 8-10, 14, 16, 18, 22, 23); nicṛdgāyatrī (3, 5, 6, 12, 13, 15, 19-21); virāḍgāyatrī (2, 4, 7); pipīlikāmadhyāgāyatrī (11); gāyatrī (pādanicṛdgāyatrī) (17); svarāḍarcīgāyatrī (24)
2nd set of styles gāyatrī
-
Ṛk 1
आ तू न॑ इंद्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि ।
म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि |
महान् महीभिर् ऊतिभिः ||ā́ tū́ na indra vṛtrahannasmā́kamardhámā́ gahi ǀ
mahā́nmahī́bhirūtíbhiḥ ǁā tū na indra vṛtrahann asmākam ardham ā gahi |
mahān mahībhir ūtibhiḥ ||आ । तु । नः॒ । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒स्माक॑म् । अ॒र्धम् । आ । ग॒हि॒ ।
म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ ॥आ । तु । नः । इन्द्र । वृत्रऽहन् । अस्माकम् । अर्धम् । आ । गहि ।
महान् । महीभिः । ऊतिऽभिः ॥ā́ ǀ tú ǀ naḥ ǀ indra ǀ vṛtra-han ǀ asmā́kam ǀ ardhám ǀ ā́ ǀ gahi ǀ
mahā́n ǀ mahī́bhiḥ ǀ ūtí-bhiḥ ǁā ǀ tu ǀ naḥ ǀ indra ǀ vṛtra-han ǀ asmākam ǀ ardham ǀ ā ǀ gahi ǀ
mahān ǀ mahībhiḥ ǀ ūti-bhiḥ ǁ4.32.1 Aṣṭaka 3.6.27.1Anuvāka 4.3.103
-
Ṛk 2
भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा ।
चि॒त्रं कृ॑णोष्यू॒तये॑ ॥भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ |
चित्रं कृणोष्य् ऊतये ||bhṛ́miścidghāsi tū́tujirā́ citra citríṇīṣvā́ ǀ
citrám kṛṇoṣyūtáye ǁbhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā |
citraṃ kṛṇoṣy ūtaye ||भृमिः॑ । चि॒त् । घ॒ । अ॒सि॒ । तूतु॑जिः । आ । चि॒त्र॒ । चि॒त्रिणी॑षु । आ ।
चि॒त्रम् । कृ॒णो॒षि॒ । ऊ॒तये॑ ॥भृमिः । चित् । घ । असि । तूतुजिः । आ । चित्र । चित्रिणीषु । आ ।
चित्रम् । कृणोषि । ऊतये ॥bhṛ́miḥ ǀ cit ǀ gha ǀ asi ǀ tū́tujiḥ ǀ ā́ ǀ citra ǀ citríṇīṣu ǀ ā́ ǀ
citrám ǀ kṛṇoṣi ǀ ūtáye ǁbhṛmiḥ ǀ cit ǀ gha ǀ asi ǀ tūtujiḥ ǀ ā ǀ citra ǀ citriṇīṣu ǀ ā ǀ
citram ǀ kṛṇoṣi ǀ ūtaye ǁ4.32.2 Aṣṭaka 3.6.27.2Anuvāka 4.3.104
-
Ṛk 3
द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राधं॑त॒मोज॑सा ।
सखि॑भि॒र्ये त्वे सचा॑ ॥दभ्रेभिश् चिच् छशीयांसं हंसि व्राधन्तम् ओजसा |
सखिभिर् ये त्वे सचा ||dabhrébhiściccháśīyāṃsam háṃsi vrā́dhantamójasā ǀ
sákhibhiryé tvé sácā ǁdabhrebhiś cic chaśīyāṃsaṃ haṃsi vrādhantam ojasā |
sakhibhir ye tve sacā ||द॒भ्रेभिः॑ । चि॒त् । शशी॑यांसम् । हंसि॑ । व्राध॑न्तम् । ओज॑सा ।
सखि॑ऽभिः । ये । त्वे इति॑ । सचा॑ ॥दभ्रेभिः । चित् । शशीयांसम् । हंसि । व्राधन्तम् । ओजसा ।
सखिऽभिः । ये । त्वे इति । सचा ॥dabhrébhiḥ ǀ cit ǀ śáśīyāṃsam ǀ háṃsi ǀ vrā́dhantam ǀ ójasā ǀ
sákhi-bhiḥ ǀ yé ǀ tvé íti ǀ sácā ǁdabhrebhiḥ ǀ cit ǀ śaśīyāṃsam ǀ haṃsi ǀ vrādhantam ǀ ojasā ǀ
sakhi-bhiḥ ǀ ye ǀ tve iti ǀ sacā ǁ4.32.3 Aṣṭaka 3.6.27.3Anuvāka 4.3.105
-
Ṛk 4
व॒यमिं॑द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः ।
अ॒स्माँअ॑स्माँ॒ इदुद॑व ॥वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः |
अस्मां-अस्मां इद् उद् अव ||vayámindra tvé sácā vayám tvābhí nonumaḥ ǀ
asmā́m̐asmām̐ ídúdava ǁvayam indra tve sacā vayaṃ tvābhi nonumaḥ |
asmāṃ-asmāṃ id ud ava ||व॒यम् । इ॒न्द्र॒ । त्वे इति॑ । सचा॑ । व॒यम् । त्वा॒ । अ॒भि । नो॒नु॒मः॒ ।
अ॒स्मान्ऽअ॑स्मान् । इत् । उत् । अ॒व॒ ॥वयम् । इन्द्र । त्वे इति । सचा । वयम् । त्वा । अभि । नोनुमः ।
अस्मान्ऽअस्मान् । इत् । उत् । अव ॥vayám ǀ indra ǀ tvé íti ǀ sácā ǀ vayám ǀ tvā ǀ abhí ǀ nonumaḥ ǀ
asmā́n-asmān ǀ ít ǀ út ǀ ava ǁvayam ǀ indra ǀ tve iti ǀ sacā ǀ vayam ǀ tvā ǀ abhi ǀ nonumaḥ ǀ
asmān-asmān ǀ it ǀ ut ǀ ava ǁ4.32.4 Aṣṭaka 3.6.27.4Anuvāka 4.3.106
-
Ṛk 5
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ ।
अना॑धृष्टाभि॒रा ग॑हि ॥स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः |
अनाधृष्टाभिर् आ गहि ||sá naścitrā́bhiradrivo’navadyā́bhirūtíbhiḥ ǀ
ánādhṛṣṭābhirā́ gahi ǁsa naś citrābhir adrivo 'navadyābhir ūtibhiḥ |
anādhṛṣṭābhir ā gahi ||सः । नः॒ । चि॒त्राभिः॑ । अ॒द्रि॒ऽवः॒ । अ॒न॒व॒द्याभिः॑ । ऊ॒तिऽभिः॑ ।
अना॑धृष्टाभिः । आ । ग॒हि॒ ॥सः । नः । चित्राभिः । अद्रिऽवः । अनवद्याभिः । ऊतिऽभिः ।
अनाधृष्टाभिः । आ । गहि ॥sáḥ ǀ naḥ ǀ citrā́bhiḥ ǀ adri-vaḥ ǀ anavadyā́bhiḥ ǀ ūtí-bhiḥ ǀ
ánādhṛṣṭābhiḥ ǀ ā́ ǀ gahi ǁsaḥ ǀ naḥ ǀ citrābhiḥ ǀ adri-vaḥ ǀ anavadyābhiḥ ǀ ūti-bhiḥ ǀ
anādhṛṣṭābhiḥ ǀ ā ǀ gahi ǁ4.32.5 Aṣṭaka 3.6.27.5Anuvāka 4.3.107
-
Ṛk 6
भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इंद्र॒ गोम॑तः ।
युजो॒ वाजा॑य॒ घृष्व॑ये ॥भूयामो षु त्वावतः सखाय इन्द्र गोमतः |
युजो वाजाय घृष्वये ||bhūyā́mo ṣú tvā́vataḥ sákhāya indra gómataḥ ǀ
yújo vā́jāya ghṛ́ṣvaye ǁbhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ |
yujo vājāya ghṛṣvaye ||भू॒यामो॒ इति॑ । सु । त्वाऽव॑तः । सखा॑यः । इ॒न्द्र॒ । गोऽम॑तः ।
युजः॑ । वाजा॑य । घृष्व॑ये ॥भूयामो इति । सु । त्वाऽवतः । सखायः । इन्द्र । गोऽमतः ।
युजः । वाजाय । घृष्वये ॥bhūyā́mo íti ǀ sú ǀ tvā́-vataḥ ǀ sákhāyaḥ ǀ indra ǀ gó-mataḥ ǀ
yújaḥ ǀ vā́jāya ǀ ghṛ́ṣvaye ǁbhūyāmo iti ǀ su ǀ tvā-vataḥ ǀ sakhāyaḥ ǀ indra ǀ go-mataḥ ǀ
yujaḥ ǀ vājāya ǀ ghṛṣvaye ǁ4.32.6 Aṣṭaka 3.6.28.1Anuvāka 4.3.108
-
Ṛk 7
त्वं ह्येक॒ ईशि॑ष॒ इंद्र॒ वाज॑स्य॒ गोम॑तः ।
स नो॑ यंधि म॒हीमिषं॑ ॥त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः |
स नो यन्धि महीम् इषम् ||tvám hyéka ī́śiṣa índra vā́jasya gómataḥ ǀ
sá no yandhi mahī́míṣam ǁtvaṃ hy eka īśiṣa indra vājasya gomataḥ |
sa no yandhi mahīm iṣam ||त्वम् । हि । एकः॑ । ईशि॑षे । इन्द्र॑ । वाज॑स्य । गोऽम॑तः ।
सः । नः॒ । य॒न्धि॒ । म॒हीम् । इष॑म् ॥त्वम् । हि । एकः । ईशिषे । इन्द्र । वाजस्य । गोऽमतः ।
सः । नः । यन्धि । महीम् । इषम् ॥tvám ǀ hí ǀ ékaḥ ǀ ī́śiṣe ǀ índra ǀ vā́jasya ǀ gó-mataḥ ǀ
sáḥ ǀ naḥ ǀ yandhi ǀ mahī́m ǀ íṣam ǁtvam ǀ hi ǀ ekaḥ ǀ īśiṣe ǀ indra ǀ vājasya ǀ go-mataḥ ǀ
saḥ ǀ naḥ ǀ yandhi ǀ mahīm ǀ iṣam ǁ4.32.7 Aṣṭaka 3.6.28.2Anuvāka 4.3.109
-
Ṛk 8
न त्वा॑ वरंते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घं ।
स्तो॒तृभ्य॑ इंद्र गिर्वणः ॥न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् |
स्तोतृभ्य इन्द्र गिर्वणः ||ná tvā varante anyáthā yáddítsasi stutó maghám ǀ
stotṛ́bhya indra girvaṇaḥ ǁna tvā varante anyathā yad ditsasi stuto magham |
stotṛbhya indra girvaṇaḥ ||न । त्वा॒ । व॒र॒न्ते॒ । अ॒न्यथा॑ । यत् । दित्स॑सि । स्तु॒तः । म॒घम् ।
स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥न । त्वा । वरन्ते । अन्यथा । यत् । दित्ससि । स्तुतः । मघम् ।
स्तोतृऽभ्यः । इन्द्र । गिर्वणः ॥ná ǀ tvā ǀ varante ǀ anyáthā ǀ yát ǀ dítsasi ǀ stutáḥ ǀ maghám ǀ
stotṛ́-bhyaḥ ǀ indra ǀ girvaṇaḥ ǁna ǀ tvā ǀ varante ǀ anyathā ǀ yat ǀ ditsasi ǀ stutaḥ ǀ magham ǀ
stotṛ-bhyaḥ ǀ indra ǀ girvaṇaḥ ǁ4.32.8 Aṣṭaka 3.6.28.3Anuvāka 4.3.110
-
Ṛk 9
अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ ।
इंद्र॒ वाजा॑य॒ घृष्व॑ये ॥अभि त्वा गोतमा गिरानूषत प्र दावने |
इन्द्र वाजाय घृष्वये ||abhí tvā gótamā girā́nūṣata prá dāváne ǀ
índra vā́jāya ghṛ́ṣvaye ǁabhi tvā gotamā girānūṣata pra dāvane |
indra vājāya ghṛṣvaye ||अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । अनू॑षत । प्र । दा॒वने॑ ।
इन्द्र॑ । वाजा॑य । घृष्व॑ये ॥अभि । त्वा । गोतमाः । गिरा । अनूषत । प्र । दावने ।
इन्द्र । वाजाय । घृष्वये ॥abhí ǀ tvā ǀ gótamāḥ ǀ girā́ ǀ ánūṣata ǀ prá ǀ dāváne ǀ
índra ǀ vā́jāya ǀ ghṛ́ṣvaye ǁabhi ǀ tvā ǀ gotamāḥ ǀ girā ǀ anūṣata ǀ pra ǀ dāvane ǀ
indra ǀ vājāya ǀ ghṛṣvaye ǁ4.32.9 Aṣṭaka 3.6.28.4Anuvāka 4.3.111
-
Ṛk 10
प्र ते॑ वोचाम वी॒र्या॒३॒॑ या मं॑दसा॒न आरु॑जः ।
पुरो॒ दासी॑र॒भीत्य॑ ॥प्र ते वोचाम वीर्या या मन्दसान आरुजः |
पुरो दासीर् अभीत्य ||prá te vocāma vīryā́ yā́ mandasāná ā́rujaḥ ǀ
púro dā́sīrabhī́tya ǁpra te vocāma vīryā yā mandasāna ārujaḥ |
puro dāsīr abhītya ||प्र । ते॒ । वो॒चा॒म॒ । वी॒र्या॑ । याः । म॒न्द॒सा॒नः । आ । अरु॑जः ।
पुरः॑ । दासीः॑ । अ॒भि॒ऽइत्य॑ ॥प्र । ते । वोचाम । वीर्या । याः । मन्दसानः । आ । अरुजः ।
पुरः । दासीः । अभिऽइत्य ॥prá ǀ te ǀ vocāma ǀ vīryā́ ǀ yā́ḥ ǀ mandasānáḥ ǀ ā́ ǀ árujaḥ ǀ
púraḥ ǀ dā́sīḥ ǀ abhi-ítya ǁpra ǀ te ǀ vocāma ǀ vīryā ǀ yāḥ ǀ mandasānaḥ ǀ ā ǀ arujaḥ ǀ
puraḥ ǀ dāsīḥ ǀ abhi-itya ǁ4.32.10 Aṣṭaka 3.6.28.5Anuvāka 4.3.112
-
Ṛk 11
ता ते॑ गृणंति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ ।
सु॒तेष्विं॑द्र गिर्वणः ॥ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या |
सुतेष्व् इन्द्र गिर्वणः ||tā́ te gṛṇanti vedháso yā́ni cakártha páuṃsyā ǀ
sutéṣvindra girvaṇaḥ ǁtā te gṛṇanti vedhaso yāni cakartha pauṃsyā |
suteṣv indra girvaṇaḥ ||ता । ते॒ । गृ॒ण॒न्ति॒ । वे॒धसः॑ । यानि॑ । च॒कर्थ॑ । पौंस्या॑ ।
सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥ता । ते । गृणन्ति । वेधसः । यानि । चकर्थ । पौंस्या ।
सुतेषु । इन्द्र । गिर्वणः ॥tā́ ǀ te ǀ gṛṇanti ǀ vedhásaḥ ǀ yā́ni ǀ cakártha ǀ páuṃsyā ǀ
sutéṣu ǀ indra ǀ girvaṇaḥ ǁtā ǀ te ǀ gṛṇanti ǀ vedhasaḥ ǀ yāni ǀ cakartha ǀ pauṃsyā ǀ
suteṣu ǀ indra ǀ girvaṇaḥ ǁ4.32.11 Aṣṭaka 3.6.29.1Anuvāka 4.3.113
-
Ṛk 12
अवी॑वृधंत॒ गोत॑मा॒ इंद्र॒ त्वे स्तोम॑वाहसः ।
ऐषु॑ धा वी॒रव॒द्यशः॑ ॥अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः |
ऐषु धा वीरवद् यशः ||ávīvṛdhanta gótamā índra tvé stómavāhasaḥ ǀ
áiṣu dhā vīrávadyáśaḥ ǁavīvṛdhanta gotamā indra tve stomavāhasaḥ |
aiṣu dhā vīravad yaśaḥ ||अवी॑वृधन्त । गोत॑माः । इन्द्र॑ । त्वे इति॑ । स्तोम॑ऽवाहसः ।
आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ ॥अवीवृधन्त । गोतमाः । इन्द्र । त्वे इति । स्तोमऽवाहसः ।
आ । एषु । धाः । वीरऽवत् । यशः ॥ávīvṛdhanta ǀ gótamāḥ ǀ índra ǀ tvé íti ǀ stóma-vāhasaḥ ǀ
ā́ ǀ eṣu ǀ dhāḥ ǀ vīrá-vat ǀ yáśaḥ ǁavīvṛdhanta ǀ gotamāḥ ǀ indra ǀ tve iti ǀ stoma-vāhasaḥ ǀ
ā ǀ eṣu ǀ dhāḥ ǀ vīra-vat ǀ yaśaḥ ǁ4.32.12 Aṣṭaka 3.6.29.2Anuvāka 4.3.114
-
Ṛk 13
यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं ।
तं त्वा॑ व॒यं ह॑वामहे ॥यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् |
तं त्वा वयं हवामहे ||yácciddhí śáśvatāmásī́ndra sā́dhāraṇastvám ǀ
tám tvā vayám havāmahe ǁyac cid dhi śaśvatām asīndra sādhāraṇas tvam |
taṃ tvā vayaṃ havāmahe ||यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।
तम् । त्वा । वयम् । हवामहे ॥yát ǀ cit ǀ hí ǀ śáśvatām ǀ ási ǀ índra ǀ sā́dhāraṇaḥ ǀ tvám ǀ
tám ǀ tvā ǀ vayám ǀ havāmahe ǁyat ǀ cit ǀ hi ǀ śaśvatām ǀ asi ǀ indra ǀ sādhāraṇaḥ ǀ tvam ǀ
tam ǀ tvā ǀ vayam ǀ havāmahe ǁ4.32.13 Aṣṭaka 3.6.29.3Anuvāka 4.3.115
-
Ṛk 14
अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वांध॑सः ।
सोमा॑नामिंद्र सोमपाः ॥अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः |
सोमानाम् इन्द्र सोमपाः ||arvācīnó vaso bhavāsmé sú matsvā́ndhasaḥ ǀ
sómānāmindra somapāḥ ǁarvācīno vaso bhavāsme su matsvāndhasaḥ |
somānām indra somapāḥ ||अ॒र्वा॒ची॒नः । व॒सो॒ इति॑ । भ॒व॒ । अ॒स्मे इति॑ । सु । म॒त्स्व॒ । अन्ध॑सः ।
सोमा॑नाम् । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ ॥अर्वाचीनः । वसो इति । भव । अस्मे इति । सु । मत्स्व । अन्धसः ।
सोमानाम् । इन्द्र । सोमऽपाः ॥arvācīnáḥ ǀ vaso íti ǀ bhava ǀ asmé íti ǀ sú ǀ matsva ǀ ándhasaḥ ǀ
sómānām ǀ indra ǀ soma-pāḥ ǁarvācīnaḥ ǀ vaso iti ǀ bhava ǀ asme iti ǀ su ǀ matsva ǀ andhasaḥ ǀ
somānām ǀ indra ǀ soma-pāḥ ǁ4.32.14 Aṣṭaka 3.6.29.4Anuvāka 4.3.116
-
Ṛk 15
अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इंद्र यच्छतु ।
अ॒र्वागा व॑र्तया॒ हरी॑ ॥अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यच्छतु |
अर्वाग् आ वर्तया हरी ||asmā́kam tvā matīnā́mā́ stóma indra yacchatu ǀ
arvā́gā́ vartayā hárī ǁasmākaṃ tvā matīnām ā stoma indra yacchatu |
arvāg ā vartayā harī ||अ॒स्माक॑म् । त्वा॒ । म॒ती॒नाम् । आ । स्तोमः॑ । इ॒न्द्र॒ । य॒च्छ॒तु॒ ।
अ॒र्वाक् । आ । व॒र्त॒य॒ । हरी॒ इति॑ ॥अस्माकम् । त्वा । मतीनाम् । आ । स्तोमः । इन्द्र । यच्छतु ।
अर्वाक् । आ । वर्तय । हरी इति ॥asmā́kam ǀ tvā ǀ matīnā́m ǀ ā́ ǀ stómaḥ ǀ indra ǀ yacchatu ǀ
arvā́k ǀ ā́ ǀ vartaya ǀ hárī íti ǁasmākam ǀ tvā ǀ matīnām ǀ ā ǀ stomaḥ ǀ indra ǀ yacchatu ǀ
arvāk ǀ ā ǀ vartaya ǀ harī iti ǁ4.32.15 Aṣṭaka 3.6.29.5Anuvāka 4.3.117
-
Ṛk 16
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
व॒धू॒युरि॑व॒ योष॑णां ॥पुरोऌआशं च नो घसो जोषयासे गिरश् च नः |
वधूयुर् इव योषणाम् ||puroḷā́śam ca no gháso joṣáyāse gíraśca naḥ ǀ
vadhūyúriva yóṣaṇām ǁpuroḷāśaṃ ca no ghaso joṣayāse giraś ca naḥ |
vadhūyur iva yoṣaṇām ||पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।
व॒धू॒युःऽइ॑व । योष॑णाम् ॥पुरोळाशम् । च । नः । घसः । जोषयासे । गिरः । च । नः ।
वधूयुःऽइव । योषणाम् ॥puroḷā́śam ǀ ca ǀ naḥ ǀ ghásaḥ ǀ joṣáyāse ǀ gíraḥ ǀ ca ǀ naḥ ǀ
vadhūyúḥ-iva ǀ yóṣaṇām ǁpuroḷāśam ǀ ca ǀ naḥ ǀ ghasaḥ ǀ joṣayāse ǀ giraḥ ǀ ca ǀ naḥ ǀ
vadhūyuḥ-iva ǀ yoṣaṇām ǁ4.32.16 Aṣṭaka 3.6.29.6Anuvāka 4.3.118
-
Ṛk 17
स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिंद्र॑मीमहे ।
श॒तं सोम॑स्य खा॒र्यः॑ ॥सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे |
शतं सोमस्य खार्यः ||sahásram vyátīnām yuktā́nāmíndramīmahe ǀ
śatám sómasya khāryáḥ ǁsahasraṃ vyatīnāṃ yuktānām indram īmahe |
śataṃ somasya khāryaḥ ||स॒हस्र॑म् । व्यती॑नाम् । यु॒क्ताना॑म् । इन्द्र॑म् । ई॒म॒हे॒ ।
श॒तम् । सोम॑स्य । खा॒र्यः॑ ॥सहस्रम् । व्यतीनाम् । युक्तानाम् । इन्द्रम् । ईमहे ।
शतम् । सोमस्य । खार्यः ॥sahásram ǀ vyátīnām ǀ yuktā́nām ǀ índram ǀ īmahe ǀ
śatám ǀ sómasya ǀ khāryáḥ ǁsahasram ǀ vyatīnām ǀ yuktānām ǀ indram ǀ īmahe ǀ
śatam ǀ somasya ǀ khāryaḥ ǁ4.32.17 Aṣṭaka 3.6.30.1Anuvāka 4.3.119
-
Ṛk 18
स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि ।
अ॒स्म॒त्रा राध॑ एतु ते ॥सहस्रा ते शता वयं गवाम् आ च्यावयामसि |
अस्मत्रा राध एतु ते ||sahásrā te śatā́ vayám gávāmā́ cyāvayāmasi ǀ
asmatrā́ rā́dha etu te ǁsahasrā te śatā vayaṃ gavām ā cyāvayāmasi |
asmatrā rādha etu te ||स॒हस्रा॑ । ते॒ । श॒ता । व॒यम् । गवा॑म् । आ । च्य॒व॒या॒म॒सि॒ ।
अ॒स्म॒ऽत्रा । राधः॑ । ए॒तु॒ । ते॒ ॥सहस्रा । ते । शता । वयम् । गवाम् । आ । च्यवयामसि ।
अस्मऽत्रा । राधः । एतु । ते ॥sahásrā ǀ te ǀ śatā́ ǀ vayám ǀ gávām ǀ ā́ ǀ cyavayāmasi ǀ
asma-trā́ ǀ rā́dhaḥ ǀ etu ǀ te ǁsahasrā ǀ te ǀ śatā ǀ vayam ǀ gavām ǀ ā ǀ cyavayāmasi ǀ
asma-trā ǀ rādhaḥ ǀ etu ǀ te ǁ4.32.18 Aṣṭaka 3.6.30.2Anuvāka 4.3.120
-
Ṛk 19
दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि ।
भू॒रि॒दा अ॑सि वृत्रहन् ॥दश ते कलशानां हिरण्यानाम् अधीमहि |
भूरिदा असि वृत्रहन् ||dáśa te kaláśānām híraṇyānāmadhīmahi ǀ
bhūridā́ asi vṛtrahan ǁdaśa te kalaśānāṃ hiraṇyānām adhīmahi |
bhūridā asi vṛtrahan ||दश॑ । ते॒ । क॒लशा॑नाम् । हिर॑ण्यानाम् । अ॒धी॒म॒हि॒ ।
भू॒रि॒ऽदाः । अ॒सि॒ । वृ॒त्र॒ऽह॒न् ॥दश । ते । कलशानाम् । हिरण्यानाम् । अधीमहि ।
भूरिऽदाः । असि । वृत्रऽहन् ॥dáśa ǀ te ǀ kaláśānām ǀ híraṇyānām ǀ adhīmahi ǀ
bhūri-dā́ḥ ǀ asi ǀ vṛtra-han ǁdaśa ǀ te ǀ kalaśānām ǀ hiraṇyānām ǀ adhīmahi ǀ
bhūri-dāḥ ǀ asi ǀ vṛtra-han ǁ4.32.19 Aṣṭaka 3.6.30.3Anuvāka 4.3.121
-
Ṛk 20
भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र ।
भूरि॒ घेदिं॑द्र दित्ससि ॥भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर |
भूरि घेद् इन्द्र दित्ससि ||bhū́ridā bhū́ri dehi no mā́ dabhrám bhū́ryā́ bhara ǀ
bhū́ri ghédindra ditsasi ǁbhūridā bhūri dehi no mā dabhram bhūry ā bhara |
bhūri ghed indra ditsasi ||भूरि॑ऽदाः । भूरि॑ । दे॒हि॒ । नः॒ । मा । द॒भ्रम् । भूरि॑ । आ । भ॒र॒ ।
भूरि॑ । घ॒ । इत् । इ॒न्द्र॒ । दि॒त्स॒सि॒ ॥भूरिऽदाः । भूरि । देहि । नः । मा । दभ्रम् । भूरि । आ । भर ।
भूरि । घ । इत् । इन्द्र । दित्ससि ॥bhū́ri-dāḥ ǀ bhū́ri ǀ dehi ǀ naḥ ǀ mā́ ǀ dabhrám ǀ bhū́ri ǀ ā́ ǀ bhara ǀ
bhū́ri ǀ gha ǀ ít ǀ indra ǀ ditsasi ǁbhūri-dāḥ ǀ bhūri ǀ dehi ǀ naḥ ǀ mā ǀ dabhram ǀ bhūri ǀ ā ǀ bhara ǀ
bhūri ǀ gha ǀ it ǀ indra ǀ ditsasi ǁ4.32.20 Aṣṭaka 3.6.30.4Anuvāka 4.3.122
-
Ṛk 21
भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् ।
आ नो॑ भजस्व॒ राध॑सि ॥भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् |
आ नो भजस्व राधसि ||bhūridā́ hyási śrutáḥ purutrā́ śūra vṛtrahan ǀ
ā́ no bhajasva rā́dhasi ǁbhūridā hy asi śrutaḥ purutrā śūra vṛtrahan |
ā no bhajasva rādhasi ||भू॒रि॒ऽदाः । हि । असि॑ । श्रु॒तः । पु॒रु॒ऽत्रा । शू॒र॒ । वृ॒त्र॒ऽह॒न् ।
आ । नः॒ । भ॒ज॒स्व॒ । राध॑सि ॥भूरिऽदाः । हि । असि । श्रुतः । पुरुऽत्रा । शूर । वृत्रऽहन् ।
आ । नः । भजस्व । राधसि ॥bhūri-dā́ḥ ǀ hí ǀ ási ǀ śrutáḥ ǀ puru-trā́ ǀ śūra ǀ vṛtra-han ǀ
ā́ ǀ naḥ ǀ bhajasva ǀ rā́dhasi ǁbhūri-dāḥ ǀ hi ǀ asi ǀ śrutaḥ ǀ puru-trā ǀ śūra ǀ vṛtra-han ǀ
ā ǀ naḥ ǀ bhajasva ǀ rādhasi ǁ4.32.21 Aṣṭaka 3.6.30.5Anuvāka 4.3.123
-
Ṛk 22
प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् ।
माभ्यां॒ गा अनु॑ शिश्रथः ॥प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् |
माभ्यां गा अनु शिश्रथः ||prá te babhrū́ vicakṣaṇa śáṃsāmi goṣaṇo napāt ǀ
mā́bhyām gā́ ánu śiśrathaḥ ǁpra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt |
mābhyāṃ gā anu śiśrathaḥ ||प्र । ते॒ । ब॒भ्रू इति॑ । वि॒ऽच॒क्ष॒ण॒ । शंसा॑मि । गो॒ऽस॒नः॒ । न॒पा॒त् ।
मा । आ॒भ्या॒म् । गाः । अनु॑ । शि॒श्र॒थः॒ ॥प्र । ते । बभ्रू इति । विऽचक्षण । शंसामि । गोऽसनः । नपात् ।
मा । आभ्याम् । गाः । अनु । शिश्रथः ॥prá ǀ te ǀ babhrū́ íti ǀ vi-cakṣaṇa ǀ śáṃsāmi ǀ go-sanaḥ ǀ napāt ǀ
mā́ ǀ ābhyām ǀ gā́ḥ ǀ ánu ǀ śiśrathaḥ ǁpra ǀ te ǀ babhrū iti ǀ vi-cakṣaṇa ǀ śaṃsāmi ǀ go-sanaḥ ǀ napāt ǀ
mā ǀ ābhyām ǀ gāḥ ǀ anu ǀ śiśrathaḥ ǁ4.32.22 Aṣṭaka 3.6.30.6Anuvāka 4.3.124
-
Ṛk 23
क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के ।
ब॒भ्रू यामे॑षु शोभेते ॥कनीनकेव विद्रधे नवे द्रुपदे अर्भके |
बभ्रू यामेषु शोभेते ||kanīnakéva vidradhé náve drupadé arbhaké ǀ
babhrū́ yā́meṣu śobhete ǁkanīnakeva vidradhe nave drupade arbhake |
babhrū yāmeṣu śobhete ||क॒नी॒न॒काऽइ॑व । वि॒द्र॒धे । नवे॑ । द्रु॒ऽप॒दे । अ॒र्भ॒के ।
ब॒भ्रू इति॑ । यामे॑षु । शो॒भे॒ते॒ इति॑ ॥कनीनकाऽइव । विद्रधे । नवे । द्रुऽपदे । अर्भके ।
बभ्रू इति । यामेषु । शोभेते इति ॥kanīnakā́-iva ǀ vidradhé ǀ náve ǀ dru-padé ǀ arbhaké ǀ
babhrū́ íti ǀ yā́meṣu ǀ śobhete íti ǁkanīnakā-iva ǀ vidradhe ǀ nave ǀ dru-pade ǀ arbhake ǀ
babhrū iti ǀ yāmeṣu ǀ śobhete iti ǁ4.32.23 Aṣṭaka 3.6.30.7Anuvāka 4.3.125
-
Ṛk 24
अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे ।
ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे |
बभ्रू यामेष्व् अस्रिधा ||áram ma usráyāmṇé’ramánusrayāmṇe ǀ
babhrū́ yā́meṣvasrídhā ǁaram ma usrayāmṇe 'ram anusrayāmṇe |
babhrū yāmeṣv asridhā ||अर॑म् । मे॒ । उ॒स्रऽया॑म्ने । अर॑म् । अनु॑स्रऽयाम्ने ।
ब॒भ्रू इति॑ । यामे॑षु । अ॒स्रिधा॑ ॥अरम् । मे । उस्रऽयाम्ने । अरम् । अनुस्रऽयाम्ने ।
बभ्रू इति । यामेषु । अस्रिधा ॥áram ǀ me ǀ usrá-yāmne ǀ áram ǀ ánusra-yāmne ǀ
babhrū́ íti ǀ yā́meṣu ǀ asrídhā ǁaram ǀ me ǀ usra-yāmne ǀ aram ǀ anusra-yāmne ǀ
babhrū iti ǀ yāmeṣu ǀ asridhā ǁ4.32.24 Aṣṭaka 3.6.30.8Anuvāka 4.3.126
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.