Sūkta 12
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 5); bhurikpaṅkti (3, 4); triṣṭup (2); paṅktiḥ (6)
2nd set of styles triṣṭubh
-
Ṛk 1
यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् ।
स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् |
स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् ||yástvā́magna inádhate yatásruktríste ánnam kṛṇávatsásminnáhan ǀ
sá sú dyumnáirabhyástu prasákṣattáva krátvā jātavedaścikitvā́n ǁyas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan |
sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān ||यः । त्वाम् । अ॒ग्ने॒ । इ॒नध॑ते । य॒तऽस्रु॑क् । त्रिः । ते॒ । अन्न॑म् । कृ॒णव॑त् । सस्मि॑न् । अह॑न् ।
सः । सु । द्यु॒म्नैः । अ॒भि । अ॒स्तु॒ । प्र॒ऽसक्ष॑त् । तव॑ । क्रत्वा॑ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥यः । त्वाम् । अग्ने । इनधते । यतऽस्रुक् । त्रिः । ते । अन्नम् । कृणवत् । सस्मिन् । अहन् ।
सः । सु । द्युम्नैः । अभि । अस्तु । प्रऽसक्षत् । तव । क्रत्वा । जातऽवेदः । चिकित्वान् ॥yáḥ ǀ tvā́m ǀ agne ǀ inádhate ǀ yatá-sruk ǀ tríḥ ǀ te ǀ ánnam ǀ kṛṇávat ǀ sásmin ǀ áhan ǀ
sáḥ ǀ sú ǀ dyumnáiḥ ǀ abhí ǀ astu ǀ pra-sákṣat ǀ táva ǀ krátvā ǀ jāta-vedaḥ ǀ cikitvā́n ǁyaḥ ǀ tvām ǀ agne ǀ inadhate ǀ yata-sruk ǀ triḥ ǀ te ǀ annam ǀ kṛṇavat ǀ sasmin ǀ ahan ǀ
saḥ ǀ su ǀ dyumnaiḥ ǀ abhi ǀ astu ǀ pra-sakṣat ǀ tava ǀ kratvā ǀ jāta-vedaḥ ǀ cikitvān ǁ4.12.1 Aṣṭaka 3.5.12.1Anuvāka 4.2.7
-
Ṛk 2
इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् ।
स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥इध्मं यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् |
स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न् अमित्रान् ||idhmám yáste jabháracchaśramāṇó mahó agne ánīkamā́ saparyán ǀ
sá idhānáḥ práti doṣā́muṣā́sam púṣyanrayím sacate ghnánnamítrān ǁidhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan |
sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān ||इ॒ध्मम् । यः । ते॒ । ज॒भर॑त् । श॒श्र॒मा॒णः । म॒हः । अ॒ग्ने॒ । अनी॑कम् । आ । स॒प॒र्यन् ।
सः । इ॒धा॒नः । प्रति॑ । दो॒षाम् । उ॒षस॑म् । पुष्य॑न् । र॒यिम् । स॒च॒ते॒ । घ्नन् । अ॒मित्रा॑न् ॥इध्मम् । यः । ते । जभरत् । शश्रमाणः । महः । अग्ने । अनीकम् । आ । सपर्यन् ।
सः । इधानः । प्रति । दोषाम् । उषसम् । पुष्यन् । रयिम् । सचते । घ्नन् । अमित्रान् ॥idhmám ǀ yáḥ ǀ te ǀ jabhárat ǀ śaśramāṇáḥ ǀ maháḥ ǀ agne ǀ ánīkam ǀ ā́ ǀ saparyán ǀ
sáḥ ǀ idhānáḥ ǀ práti ǀ doṣā́m ǀ uṣásam ǀ púṣyan ǀ rayím ǀ sacate ǀ ghnán ǀ amítrān ǁidhmam ǀ yaḥ ǀ te ǀ jabharat ǀ śaśramāṇaḥ ǀ mahaḥ ǀ agne ǀ anīkam ǀ ā ǀ saparyan ǀ
saḥ ǀ idhānaḥ ǀ prati ǀ doṣām ǀ uṣasam ǀ puṣyan ǀ rayim ǀ sacate ǀ ghnan ǀ amitrān ǁ4.12.2 Aṣṭaka 3.5.12.2Anuvāka 4.2.8
-
Ṛk 3
अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः ।
दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः |
दधाति रत्नं विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान् ||agnírīśe bṛhatáḥ kṣatríyasyāgnírvā́jasya paramásya rāyáḥ ǀ
dádhāti rátnam vidhaté yáviṣṭho vyā́nuṣáṅmártyāya svadhā́vān ǁagnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ |
dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān ||अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । क्ष॒त्रिय॑स्य । अ॒ग्निः । वाज॑स्य । प॒र॒मस्य॑ । रा॒यः ।
दधा॑ति । रत्न॑म् । वि॒ध॒ते । यवि॑ष्ठः । वि । आ॒नु॒षक् । मर्त्या॑य । स्व॒धाऽवा॑न् ॥अग्निः । ईशे । बृहतः । क्षत्रियस्य । अग्निः । वाजस्य । परमस्य । रायः ।
दधाति । रत्नम् । विधते । यविष्ठः । वि । आनुषक् । मर्त्याय । स्वधाऽवान् ॥agníḥ ǀ īśe ǀ bṛhatáḥ ǀ kṣatríyasya ǀ agníḥ ǀ vā́jasya ǀ paramásya ǀ rāyáḥ ǀ
dádhāti ǀ rátnam ǀ vidhaté ǀ yáviṣṭhaḥ ǀ ví ǀ ānuṣák ǀ mártyāya ǀ svadhā́-vān ǁagniḥ ǀ īśe ǀ bṛhataḥ ǀ kṣatriyasya ǀ agniḥ ǀ vājasya ǀ paramasya ǀ rāyaḥ ǀ
dadhāti ǀ ratnam ǀ vidhate ǀ yaviṣṭhaḥ ǀ vi ǀ ānuṣak ǀ martyāya ǀ svadhā-vān ǁ4.12.3 Aṣṭaka 3.5.12.3Anuvāka 4.2.9
-
Ṛk 4
यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ ।
कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः |
कृधी ष्व् अस्मां अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने ||yácciddhí te puruṣatrā́ yaviṣṭhā́cittibhiścakṛmā́ káccidā́gaḥ ǀ
kṛdhī́ ṣvásmā́m̐ áditeránāgānvyénāṃsi śiśratho víṣvagagne ǁyac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ |
kṛdhī ṣv asmāṃ aditer anāgān vy enāṃsi śiśratho viṣvag agne ||यत् । चि॒त् । हि । ते॒ । पु॒रु॒ष॒ऽत्रा । य॒वि॒ष्ठ॒ । अचि॑त्तिऽभिः । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।
कृ॒धि । सु । अ॒स्मान् । अदि॑तेः । अना॑गान् । वि । एनां॑सि । शि॒श्र॒थः॒ । विष्व॑क् । अ॒ग्ने॒ ॥यत् । चित् । हि । ते । पुरुषऽत्रा । यविष्ठ । अचित्तिऽभिः । चकृम । कत् । चित् । आगः ।
कृधि । सु । अस्मान् । अदितेः । अनागान् । वि । एनांसि । शिश्रथः । विष्वक् । अग्ने ॥yát ǀ cit ǀ hí ǀ te ǀ puruṣa-trā́ ǀ yaviṣṭha ǀ ácitti-bhiḥ ǀ cakṛmá ǀ kát ǀ cit ǀ ā́gaḥ ǀ
kṛdhí ǀ sú ǀ asmā́n ǀ áditeḥ ǀ ánāgān ǀ ví ǀ énāṃsi ǀ śiśrathaḥ ǀ víṣvak ǀ agne ǁyat ǀ cit ǀ hi ǀ te ǀ puruṣa-trā ǀ yaviṣṭha ǀ acitti-bhiḥ ǀ cakṛma ǀ kat ǀ cit ǀ āgaḥ ǀ
kṛdhi ǀ su ǀ asmān ǀ aditeḥ ǀ anāgān ǀ vi ǀ enāṃsi ǀ śiśrathaḥ ǀ viṣvak ǀ agne ǁ4.12.4 Aṣṭaka 3.5.12.4Anuvāka 4.2.10
-
Ṛk 5
म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नां ।
मा ते॒ सखा॑यः॒ सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् |
मा ते सखायः सदम् इद् रिषाम यच्छा तोकाय तनयाय शं योः ||maháścidagna énaso abhī́ka ūrvā́ddevā́nāmutá mártyānām ǀ
mā́ te sákhāyaḥ sádamídriṣāma yácchā tokā́ya tánayāya śám yóḥ ǁmahaś cid agna enaso abhīka ūrvād devānām uta martyānām |
mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ ||म॒हः । चि॒त् । अ॒ग्ने॒ । एन॑सः । अ॒भीके॑ । ऊ॒र्वात् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।
मा । ते॒ । सखा॑यः । सद॑म् । इत् । रि॒षा॒म॒ । यच्छ॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥महः । चित् । अग्ने । एनसः । अभीके । ऊर्वात् । देवानाम् । उत । मर्त्यानाम् ।
मा । ते । सखायः । सदम् । इत् । रिषाम । यच्छ । तोकाय । तनयाय । शम् । योः ॥maháḥ ǀ cit ǀ agne ǀ énasaḥ ǀ abhī́ke ǀ ūrvā́t ǀ devā́nām ǀ utá ǀ mártyānām ǀ
mā́ ǀ te ǀ sákhāyaḥ ǀ sádam ǀ ít ǀ riṣāma ǀ yáccha ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǁmahaḥ ǀ cit ǀ agne ǀ enasaḥ ǀ abhīke ǀ ūrvāt ǀ devānām ǀ uta ǀ martyānām ǀ
mā ǀ te ǀ sakhāyaḥ ǀ sadam ǀ it ǀ riṣāma ǀ yaccha ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǁ4.12.5 Aṣṭaka 3.5.12.5Anuvāka 4.2.11
-
Ṛk 6
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममुं॑चता यजत्राः ।
ए॒वो ष्व१॒॑स्मन्मुं॑चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः |
एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ||yáthā ha tyádvasavo gauryám citpadí ṣitā́mámuñcatā yajatrāḥ ǀ
evó ṣvásmánmuñcatā vyáṃhaḥ prá tāryagne pratarám na ā́yuḥ ǁyathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ |
evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ ||यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ ।
ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः ।
एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रऽतरम् । नः । आयुः ॥yáthā ǀ ha ǀ tyát ǀ vasavaḥ ǀ gauryám ǀ cit ǀ padí ǀ sitā́m ǀ ámuñcata ǀ yajatrāḥ ǀ
evó íti ǀ sú ǀ asmát ǀ muñcata ǀ ví ǀ áṃhaḥ ǀ prá ǀ tāri ǀ agne ǀ pra-tarám ǀ naḥ ǀ ā́yuḥ ǁyathā ǀ ha ǀ tyat ǀ vasavaḥ ǀ gauryam ǀ cit ǀ padi ǀ sitām ǀ amuñcata ǀ yajatrāḥ ǀ
evo iti ǀ su ǀ asmat ǀ muñcata ǀ vi ǀ aṃhaḥ ǀ pra ǀ tāri ǀ agne ǀ pra-taram ǀ naḥ ǀ āyuḥ ǁ4.12.6 Aṣṭaka 3.5.12.6Anuvāka 4.2.12
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.