Sūkta 51
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (4, 6, 7, 9, 11); triṣṭup (1, 5, 8); paṅktiḥ (2); virāṭtrisṭup (3); bhurikpaṅkti (10)
2nd set of styles triṣṭubh
-
Ṛk 1
इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् ।
नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् |
नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो जनाय ||idámu tyátpurutámam purástājjyótistámaso vayúnāvadasthāt ǀ
nūnám divó duhitáro vibhātī́rgātúm kṛṇavannuṣáso jánāya ǁidam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt |
nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya ||इ॒दम् । ऊं॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् ।
नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥इदम् । ऊं इति । त्यत् । पुरुऽतमम् । पुरस्तात् । ज्योतिः । तमसः । वयुनऽवत् । अस्थात् ।
नूनम् । दिवः । दुहितरः । विऽभातीः । गातुम् । कृणवन् । उषसः । जनाय ॥idám ǀ ūṃ íti ǀ tyát ǀ puru-támam ǀ purástāt ǀ jyótiḥ ǀ támasaḥ ǀ vayúna-vat ǀ asthāt ǀ
nūnám ǀ diváḥ ǀ duhitáraḥ ǀ vi-bhātī́ḥ ǀ gātúm ǀ kṛṇavan ǀ uṣásaḥ ǀ jánāya ǁidam ǀ ūṃ iti ǀ tyat ǀ puru-tamam ǀ purastāt ǀ jyotiḥ ǀ tamasaḥ ǀ vayuna-vat ǀ asthāt ǀ
nūnam ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātīḥ ǀ gātum ǀ kṛṇavan ǀ uṣasaḥ ǀ janāya ǁ4.51.1 Aṣṭaka 3.8.1.1Anuvāka 4.5.34
-
Ṛk 2
अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ ।
व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छंती॑रव्रं॒छुच॑यः पाव॒काः ॥अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु |
व्य् ऊ व्रजस्य तमसो द्वारोच्छन्तीर् अव्रञ् छुचयः पावकाः ||ásthuru citrā́ uṣásaḥ purástānmitā́ iva sváravo’dhvaréṣu ǀ
vyū́ vrajásya támaso dvā́rocchántīravrañchúcayaḥ pāvakā́ḥ ǁasthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu |
vy ū vrajasya tamaso dvārocchantīr avrañ chucayaḥ pāvakāḥ ||अस्थुः॑ । ऊं॒ इति॑ । चि॒त्राः । उ॒षसः॑ । पु॒रस्ता॑त् । मि॒ताःऽइ॑व । स्वर॑वः । अ॒ध्व॒रेषु॑ ।
वि । ऊं॒ इति॑ । व्र॒जस्य॑ । तम॑सः । द्वारा॑ । उ॒च्छन्तीः॑ । अ॒व्र॒न् । शुच॑यः । पा॒व॒काः ॥अस्थुः । ऊं इति । चित्राः । उषसः । पुरस्तात् । मिताःऽइव । स्वरवः । अध्वरेषु ।
वि । ऊं इति । व्रजस्य । तमसः । द्वारा । उच्छन्तीः । अव्रन् । शुचयः । पावकाः ॥ásthuḥ ǀ ūṃ íti ǀ citrā́ḥ ǀ uṣásaḥ ǀ purástāt ǀ mitā́ḥ-iva ǀ sváravaḥ ǀ adhvaréṣu ǀ
ví ǀ ūṃ íti ǀ vrajásya ǀ támasaḥ ǀ dvā́rā ǀ ucchántīḥ ǀ avran ǀ śúcayaḥ ǀ pāvakā́ḥ ǁasthuḥ ǀ ūṃ iti ǀ citrāḥ ǀ uṣasaḥ ǀ purastāt ǀ mitāḥ-iva ǀ svaravaḥ ǀ adhvareṣu ǀ
vi ǀ ūṃ iti ǀ vrajasya ǀ tamasaḥ ǀ dvārā ǀ ucchantīḥ ǀ avran ǀ śucayaḥ ǀ pāvakāḥ ǁ4.51.2 Aṣṭaka 3.8.1.2Anuvāka 4.5.35
-
Ṛk 3
उ॒च्छंती॑र॒द्य चि॑तयंत भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनीः॑ ।
अ॒चि॒त्रे अं॒तः प॒णयः॑ ससं॒त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥उच्छन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः |
अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये ||ucchántīradyá citayanta bhojā́nrādhodéyāyoṣáso maghónīḥ ǀ
acitré antáḥ paṇáyaḥ sasantvábudhyamānāstámaso vímadhye ǁucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ |
acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye ||उ॒च्छन्तीः॑ । अ॒द्य । चि॒त॒य॒न्त॒ । भो॒जान् । रा॒धः॒ऽदेया॑य । उ॒षसः॑ । म॒घोनीः॑ ।
अ॒चि॒त्रे । अ॒न्तरिति॑ । प॒णयः॑ । स॒स॒न्तु॒ । अबु॑ध्यमानाः । तम॑सः । विऽम॑ध्ये ॥उच्छन्तीः । अद्य । चितयन्त । भोजान् । राधःऽदेयाय । उषसः । मघोनीः ।
अचित्रे । अन्तरिति । पणयः । ससन्तु । अबुध्यमानाः । तमसः । विऽमध्ये ॥ucchántīḥ ǀ adyá ǀ citayanta ǀ bhojā́n ǀ rādhaḥ-déyāya ǀ uṣásaḥ ǀ maghónīḥ ǀ
acitré ǀ antáríti ǀ paṇáyaḥ ǀ sasantu ǀ ábudhyamānāḥ ǀ támasaḥ ǀ ví-madhye ǁucchantīḥ ǀ adya ǀ citayanta ǀ bhojān ǀ rādhaḥ-deyāya ǀ uṣasaḥ ǀ maghonīḥ ǀ
acitre ǀ antariti ǀ paṇayaḥ ǀ sasantu ǀ abudhyamānāḥ ǀ tamasaḥ ǀ vi-madhye ǁ4.51.3 Aṣṭaka 3.8.1.3Anuvāka 4.5.36
-
Ṛk 4
कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य ।
येना॒ नव॑ग्वे॒ अंगि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य |
येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष ||kuvítsá devīḥ sanáyo návo vā yā́mo babhūyā́duṣaso vo adyá ǀ
yénā návagve áṅgire dáśagve saptā́sye revatī revádūṣá ǁkuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya |
yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa ||कु॒वित् । सः । दे॒वीः॒ । स॒नयः॑ । नवः॑ । वा॒ । यामः॑ । ब॒भू॒यात् । उ॒ष॒सः॒ । वः॒ । अ॒द्य ।
येन॑ । नव॑ऽग्वे । अङ्गि॑रे । दश॑ऽग्वे । स॒प्तऽआ॑स्ये । रे॒व॒तीः॒ । रे॒वत् । ऊ॒ष ॥कुवित् । सः । देवीः । सनयः । नवः । वा । यामः । बभूयात् । उषसः । वः । अद्य ।
येन । नवऽग्वे । अङ्गिरे । दशऽग्वे । सप्तऽआस्ये । रेवतीः । रेवत् । ऊष ॥kuvít ǀ sáḥ ǀ devīḥ ǀ sanáyaḥ ǀ návaḥ ǀ vā ǀ yā́maḥ ǀ babhūyā́t ǀ uṣasaḥ ǀ vaḥ ǀ adyá ǀ
yéna ǀ náva-gve ǀ áṅgire ǀ dáśa-gve ǀ saptá-āsye ǀ revatīḥ ǀ revát ǀ ūṣá ǁkuvit ǀ saḥ ǀ devīḥ ǀ sanayaḥ ǀ navaḥ ǀ vā ǀ yāmaḥ ǀ babhūyāt ǀ uṣasaḥ ǀ vaḥ ǀ adya ǀ
yena ǀ nava-gve ǀ aṅgire ǀ daśa-gve ǀ sapta-āsye ǀ revatīḥ ǀ revat ǀ ūṣa ǁ4.51.4 Aṣṭaka 3.8.1.4Anuvāka 4.5.37
-
Ṛk 5
यू॒यं हि दे॑वीर्ऋत॒युग्भि॒रश्वैः॑ परिप्रया॒थ भुव॑नानि स॒द्यः ।
प्र॒बो॒धयं॑तीरुषसः स॒संतं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वं ॥यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः |
प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय जीवम् ||yūyám hí devīrṛtayúgbhiráśvaiḥ pariprayāthá bhúvanāni sadyáḥ ǀ
prabodháyantīruṣasaḥ sasántam dvipā́ccátuṣpāccaráthāya jīvám ǁyūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ |
prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam ||यू॒यम् । हि । दे॒वीः॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । प॒रि॒ऽप्र॒या॒थ । भुव॑नानि । स॒द्यः ।
प्र॒ऽबो॒धय॑न्तीः । उ॒ष॒सः॒ । स॒सन्त॑म् । द्वि॒ऽपात् । चतुः॑ऽपात् । च॒रथा॑य । जी॒वम् ॥यूयम् । हि । देवीः । ऋतयुक्ऽभिः । अश्वैः । परिऽप्रयाथ । भुवनानि । सद्यः ।
प्रऽबोधयन्तीः । उषसः । ससन्तम् । द्विऽपात् । चतुःऽपात् । चरथाय । जीवम् ॥yūyám ǀ hí ǀ devīḥ ǀ ṛtayúk-bhiḥ ǀ áśvaiḥ ǀ pari-prayāthá ǀ bhúvanāni ǀ sadyáḥ ǀ
pra-bodháyantīḥ ǀ uṣasaḥ ǀ sasántam ǀ dvi-pā́t ǀ cátuḥ-pāt ǀ caráthāya ǀ jīvám ǁyūyam ǀ hi ǀ devīḥ ǀ ṛtayuk-bhiḥ ǀ aśvaiḥ ǀ pari-prayātha ǀ bhuvanāni ǀ sadyaḥ ǀ
pra-bodhayantīḥ ǀ uṣasaḥ ǀ sasantam ǀ dvi-pāt ǀ catuḥ-pāt ǀ carathāya ǀ jīvam ǁ4.51.5 Aṣṭaka 3.8.1.5Anuvāka 4.5.38
-
Ṛk 6
क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुर्ऋ॑भू॒णां ।
शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चरं॑ति॒ न वि ज्ञा॑यंते स॒दृशी॑रजु॒र्याः ॥क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् |
शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः ||kvá svidāsām katamā́ purāṇī́ yáyā vidhā́nā vidadhúrṛbhūṇā́m ǀ
śúbham yácchubhrā́ uṣásaścáranti ná ví jñāyante sadṛ́śīrajuryā́ḥ ǁkva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām |
śubhaṃ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ ||क्व॑ । स्वि॒त् । आ॒सा॒म् । क॒त॒मा । पु॒रा॒णी । यया॑ । वि॒ऽधाना॑ । वि॒ऽद॒धुः । ऋ॒भू॒णाम् ।
शुभ॑म् । यत् । शु॒भ्राः । उ॒षसः॑ । चर॑न्ति । न । वि । ज्ञा॒य॒न्ते॒ । स॒ऽदृशीः॑ । अ॒जु॒र्याः ॥क्व । स्वित् । आसाम् । कतमा । पुराणी । यया । विऽधाना । विऽदधुः । ऋभूणाम् ।
शुभम् । यत् । शुभ्राः । उषसः । चरन्ति । न । वि । ज्ञायन्ते । सऽदृशीः । अजुर्याः ॥kvá ǀ svit ǀ āsām ǀ katamā́ ǀ purāṇī́ ǀ yáyā ǀ vi-dhā́nā ǀ vi-dadhúḥ ǀ ṛbhūṇā́m ǀ
śúbham ǀ yát ǀ śubhrā́ḥ ǀ uṣásaḥ ǀ cáranti ǀ ná ǀ ví ǀ jñāyante ǀ sa-dṛ́śīḥ ǀ ajuryā́ḥ ǁkva ǀ svit ǀ āsām ǀ katamā ǀ purāṇī ǀ yayā ǀ vi-dhānā ǀ vi-dadhuḥ ǀ ṛbhūṇām ǀ
śubham ǀ yat ǀ śubhrāḥ ǀ uṣasaḥ ǀ caranti ǀ na ǀ vi ǀ jñāyante ǀ sa-dṛśīḥ ǀ ajuryāḥ ǁ4.51.6 Aṣṭaka 3.8.2.1Anuvāka 4.5.39
-
Ṛk 7
ता घा॒ ता भ॒द्रा उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः ।
यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वंछंसं॒द्रवि॑णं स॒द्य आप॑ ॥ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः |
यास्व् ईजानः शशमान उक्थै स्तुवञ् छंसन् द्रविणं सद्य आप ||tā́ ghā tā́ bhadrā́ uṣásaḥ purā́surabhiṣṭídyumnā ṛtájātasatyāḥ ǀ
yā́svījānáḥ śaśamāná uktháiḥ stuváñcháṃsandráviṇam sadyá ā́pa ǁtā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ |
yāsv ījānaḥ śaśamāna ukthai stuvañ chaṃsan draviṇaṃ sadya āpa ||ताः । घ॒ । ताः । भ॒द्राः । उ॒षसः॑ । पु॒रा । आ॒सुः॒ । अ॒भि॒ष्टिऽद्यु॑म्नाः । ऋ॒तजा॑तऽसत्याः ।
यासु॑ । ई॒जा॒नः । श॒श॒मा॒नः । उ॒क्थैः । स्तु॒वन् । शंस॑न् । द्रवि॑णम् । स॒द्यः । आप॑ ॥ताः । घ । ताः । भद्राः । उषसः । पुरा । आसुः । अभिष्टिऽद्युम्नाः । ऋतजातऽसत्याः ।
यासु । ईजानः । शशमानः । उक्थैः । स्तुवन् । शंसन् । द्रविणम् । सद्यः । आप ॥tā́ḥ ǀ gha ǀ tā́ḥ ǀ bhadrā́ḥ ǀ uṣásaḥ ǀ purā́ ǀ āsuḥ ǀ abhiṣṭí-dyumnāḥ ǀ ṛtájāta-satyāḥ ǀ
yā́su ǀ ījānáḥ ǀ śaśamānáḥ ǀ uktháiḥ ǀ stuván ǀ śáṃsan ǀ dráviṇam ǀ sadyáḥ ǀ ā́pa ǁtāḥ ǀ gha ǀ tāḥ ǀ bhadrāḥ ǀ uṣasaḥ ǀ purā ǀ āsuḥ ǀ abhiṣṭi-dyumnāḥ ǀ ṛtajāta-satyāḥ ǀ
yāsu ǀ ījānaḥ ǀ śaśamānaḥ ǀ ukthaiḥ ǀ stuvan ǀ śaṃsan ǀ draviṇam ǀ sadyaḥ ǀ āpa ǁ4.51.7 Aṣṭaka 3.8.2.2Anuvāka 4.5.40
-
Ṛk 8
ता आ च॑रंति सम॒ना पु॒रस्ता॑त्समा॒नतः॑ सम॒ना प॑प्रथा॒नाः ।
ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरंते ॥ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः |
ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ||tā́ ā́ caranti samanā́ purástātsamānátaḥ samanā́ paprathānā́ḥ ǀ
ṛtásya devī́ḥ sádaso budhānā́ gávām ná sárgā uṣáso jarante ǁtā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ |
ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante ||ताः । आ । च॒र॒न्ति॒ । स॒म॒ना । पु॒रस्ता॑त् । स॒मा॒नतः॑ । स॒म॒ना । प॒प्र॒था॒नाः ।
ऋ॒तस्य॑ । दे॒वीः । सद॑सः । बु॒धा॒नाः । गवा॑म् । न । सर्गाः॑ । उ॒षसः॑ । ज॒र॒न्ते॒ ॥ताः । आ । चरन्ति । समना । पुरस्तात् । समानतः । समना । पप्रथानाः ।
ऋतस्य । देवीः । सदसः । बुधानाः । गवाम् । न । सर्गाः । उषसः । जरन्ते ॥tā́ḥ ǀ ā́ ǀ caranti ǀ samanā́ ǀ purástāt ǀ samānátaḥ ǀ samanā́ ǀ paprathānā́ḥ ǀ
ṛtásya ǀ devī́ḥ ǀ sádasaḥ ǀ budhānā́ḥ ǀ gávām ǀ ná ǀ sárgāḥ ǀ uṣásaḥ ǀ jarante ǁtāḥ ǀ ā ǀ caranti ǀ samanā ǀ purastāt ǀ samānataḥ ǀ samanā ǀ paprathānāḥ ǀ
ṛtasya ǀ devīḥ ǀ sadasaḥ ǀ budhānāḥ ǀ gavām ǀ na ǀ sargāḥ ǀ uṣasaḥ ǀ jarante ǁ4.51.8 Aṣṭaka 3.8.2.3Anuvāka 4.5.41
-
Ṛk 9
ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरंति ।
गूहं॑ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ॥ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति |
गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः ||tā́ ínnvévá samanā́ samānī́rámītavarṇā uṣásaścaranti ǀ
gū́hantīrábhvamásitam rúśadbhiḥ śukrā́stanū́bhiḥ śúcayo rucānā́ḥ ǁtā in nv eva samanā samānīr amītavarṇā uṣasaś caranti |
gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ ||ताः । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नीः । अमी॑तऽवर्णाः । उ॒षसः॑ । च॒र॒न्ति॒ ।
गूह॑न्तीः । अभ्व॑म् । असि॑तम् । रुश॑त्ऽभिः । शु॒क्राः । त॒नूभिः॑ । शुच॑यः । रु॒चा॒नाः ॥ताः । इत् । नु । एव । समना । समानीः । अमीतऽवर्णाः । उषसः । चरन्ति ।
गूहन्तीः । अभ्वम् । असितम् । रुशत्ऽभिः । शुक्राः । तनूभिः । शुचयः । रुचानाः ॥tā́ḥ ǀ ít ǀ nú ǀ evá ǀ samanā́ ǀ samānī́ḥ ǀ ámīta-varṇāḥ ǀ uṣásaḥ ǀ caranti ǀ
gū́hantīḥ ǀ ábhvam ǀ ásitam ǀ rúśat-bhiḥ ǀ śukrā́ḥ ǀ tanū́bhiḥ ǀ śúcayaḥ ǀ rucānā́ḥ ǁtāḥ ǀ it ǀ nu ǀ eva ǀ samanā ǀ samānīḥ ǀ amīta-varṇāḥ ǀ uṣasaḥ ǀ caranti ǀ
gūhantīḥ ǀ abhvam ǀ asitam ǀ ruśat-bhiḥ ǀ śukrāḥ ǀ tanūbhiḥ ǀ śucayaḥ ǀ rucānāḥ ǁ4.51.9 Aṣṭaka 3.8.2.4Anuvāka 4.5.42
-
Ṛk 10
र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जावं॑तं यच्छता॒स्मासु॑ देवीः ।
स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः |
स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ||rayím divo duhitaro vibhātī́ḥ prajā́vantam yacchatāsmā́su devīḥ ǀ
syonā́dā́ vaḥ pratibúdhyamānāḥ suvī́ryasya pátayaḥ syāma ǁrayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ |
syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma ||र॒यिम् । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । प्र॒जाऽव॑न्तम् । य॒च्छ॒त॒ । अ॒स्मासु॑ । दे॒वीः॒ ।
स्यो॒नात् । आ । वः॒ । प्र॒ति॒ऽबुध्य॑मानाः । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥रयिम् । दिवः । दुहितरः । विऽभातीः । प्रजाऽवन्तम् । यच्छत । अस्मासु । देवीः ।
स्योनात् । आ । वः । प्रतिऽबुध्यमानाः । सुऽवीर्यस्य । पतयः । स्याम ॥rayím ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātī́ḥ ǀ prajā́-vantam ǀ yacchata ǀ asmā́su ǀ devīḥ ǀ
syonā́t ǀ ā́ ǀ vaḥ ǀ prati-búdhyamānāḥ ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁrayim ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātīḥ ǀ prajā-vantam ǀ yacchata ǀ asmāsu ǀ devīḥ ǀ
syonāt ǀ ā ǀ vaḥ ǀ prati-budhyamānāḥ ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ4.51.10 Aṣṭaka 3.8.2.5Anuvāka 4.5.43
-
Ṛk 11
तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः ।
व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः |
वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी ||tádvo divo duhitaro vibhātī́rúpa bruva uṣaso yajñáketuḥ ǀ
vayám syāma yaśáso jáneṣu táddyáuśca dhattā́m pṛthivī́ ca devī́ ǁtad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ |
vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī ||तत् । वः॒ । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । उप॑ । ब्रु॒वे॒ । उ॒ष॒सः॒ । य॒ज्ञऽके॑तुः ।
व॒यम् । स्या॒म॒ । य॒शसः॑ । जने॑षु । तत् । द्यौः । च॒ । ध॒त्ताम् । पृ॒थि॒वी । च॒ । दे॒वी ॥तत् । वः । दिवः । दुहितरः । विऽभातीः । उप । ब्रुवे । उषसः । यज्ञऽकेतुः ।
वयम् । स्याम । यशसः । जनेषु । तत् । द्यौः । च । धत्ताम् । पृथिवी । च । देवी ॥tát ǀ vaḥ ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātī́ḥ ǀ úpa ǀ bruve ǀ uṣasaḥ ǀ yajñá-ketuḥ ǀ
vayám ǀ syāma ǀ yaśásaḥ ǀ jáneṣu ǀ tát ǀ dyáuḥ ǀ ca ǀ dhattā́m ǀ pṛthivī́ ǀ ca ǀ devī́ ǁtat ǀ vaḥ ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātīḥ ǀ upa ǀ bruve ǀ uṣasaḥ ǀ yajña-ketuḥ ǀ
vayam ǀ syāma ǀ yaśasaḥ ǀ janeṣu ǀ tat ǀ dyauḥ ǀ ca ǀ dhattām ǀ pṛthivī ǀ ca ǀ devī ǁ4.51.11 Aṣṭaka 3.8.2.6Anuvāka 4.5.44
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.