Ṛk 4.51.9
Saṃhitā
ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरंति ।
गूहं॑ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ॥
ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति |
गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः ||
tā́ ínnvévá samanā́ samānī́rámītavarṇā uṣásaścaranti ǀ
gū́hantīrábhvamásitam rúśadbhiḥ śukrā́stanū́bhiḥ śúcayo rucānā́ḥ ǁ
tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti |
gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ ||
Padapāṭha
ताः । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नीः । अमी॑तऽवर्णाः । उ॒षसः॑ । च॒र॒न्ति॒ ।
गूह॑न्तीः । अभ्व॑म् । असि॑तम् । रुश॑त्ऽभिः । शु॒क्राः । त॒नूभिः॑ । शुच॑यः । रु॒चा॒नाः ॥
ताः । इत् । नु । एव । समना । समानीः । अमीतऽवर्णाः । उषसः । चरन्ति ।
गूहन्तीः । अभ्वम् । असितम् । रुशत्ऽभिः । शुक्राः । तनूभिः । शुचयः । रुचानाः ॥
tā́ḥ ǀ ít ǀ nú ǀ evá ǀ samanā́ ǀ samānī́ḥ ǀ ámīta-varṇāḥ ǀ uṣásaḥ ǀ caranti ǀ
gū́hantīḥ ǀ ábhvam ǀ ásitam ǀ rúśat-bhiḥ ǀ śukrā́ḥ ǀ tanū́bhiḥ ǀ śúcayaḥ ǀ rucānā́ḥ ǁ
tāḥ ǀ it ǀ nu ǀ eva ǀ samanā ǀ samānīḥ ǀ amīta-varṇāḥ ǀ uṣasaḥ ǀ caranti ǀ
gūhantīḥ ǀ abhvam ǀ asitam ǀ ruśat-bhiḥ ǀ śukrāḥ ǀ tanūbhiḥ ǀ śucayaḥ ǀ rucānāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.051.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.02.04
- Maṇḍala · Anuvāka · Ṛk
- 04.05.042
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.