Ṛk 4.51.6
Saṃhitā
क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुर्ऋ॑भू॒णां ।
शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चरं॑ति॒ न वि ज्ञा॑यंते स॒दृशी॑रजु॒र्याः ॥
क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् |
शुभं यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः ||
kvá svidāsām katamā́ purāṇī́ yáyā vidhā́nā vidadhúrṛbhūṇā́m ǀ
śúbham yácchubhrā́ uṣásaścáranti ná ví jñāyante sadṛ́śīrajuryā́ḥ ǁ
kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām |
śubhaṃ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ ||
Padapāṭha
क्व॑ । स्वि॒त् । आ॒सा॒म् । क॒त॒मा । पु॒रा॒णी । यया॑ । वि॒ऽधाना॑ । वि॒ऽद॒धुः । ऋ॒भू॒णाम् ।
शुभ॑म् । यत् । शु॒भ्राः । उ॒षसः॑ । चर॑न्ति । न । वि । ज्ञा॒य॒न्ते॒ । स॒ऽदृशीः॑ । अ॒जु॒र्याः ॥
क्व । स्वित् । आसाम् । कतमा । पुराणी । यया । विऽधाना । विऽदधुः । ऋभूणाम् ।
शुभम् । यत् । शुभ्राः । उषसः । चरन्ति । न । वि । ज्ञायन्ते । सऽदृशीः । अजुर्याः ॥
kvá ǀ svit ǀ āsām ǀ katamā́ ǀ purāṇī́ ǀ yáyā ǀ vi-dhā́nā ǀ vi-dadhúḥ ǀ ṛbhūṇā́m ǀ
śúbham ǀ yát ǀ śubhrā́ḥ ǀ uṣásaḥ ǀ cáranti ǀ ná ǀ ví ǀ jñāyante ǀ sa-dṛ́śīḥ ǀ ajuryā́ḥ ǁ
kva ǀ svit ǀ āsām ǀ katamā ǀ purāṇī ǀ yayā ǀ vi-dhānā ǀ vi-dadhuḥ ǀ ṛbhūṇām ǀ
śubham ǀ yat ǀ śubhrāḥ ǀ uṣasaḥ ǀ caranti ǀ na ǀ vi ǀ jñāyante ǀ sa-dṛśīḥ ǀ ajuryāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.051.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.02.01
- Maṇḍala · Anuvāka · Ṛk
- 04.05.039
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.