Sūkta 53
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (1, 3, 6, 7); virāḍjagatī (2); svarāḍjagatī (4); jagatī (5)
2nd set of styles jagatī
-
Ṛk 1
तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः ।
छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यांदे॒वो अ॒क्तुभिः॑ ॥तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः |
छर्दिर् येन दाशुषे यच्छति त्मना तन् नो महां उद् अयान् देवो अक्तुभिः ||táddevásya savitúrvā́ryam mahádvṛṇīmáhe ásurasya prácetasaḥ ǀ
chardíryéna dāśúṣe yácchati tmánā tánno mahā́m̐ údayāndevó aktúbhiḥ ǁtad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ |
chardir yena dāśuṣe yacchati tmanā tan no mahāṃ ud ayān devo aktubhiḥ ||तत् । दे॒वस्य॑ । स॒वि॒तुः । वार्य॑म् । म॒हत् । वृ॒णी॒महे॑ । असु॑रस्य । प्रऽचे॑तसः ।
छ॒र्दिः । येन॑ । दा॒शुषे॑ । यच्छ॑ति । त्मना॑ । तत् । नः॒ । म॒हान् । उत् । अ॒या॒न् । दे॒वः । अ॒क्तुऽभिः॑ ॥तत् । देवस्य । सवितुः । वार्यम् । महत् । वृणीमहे । असुरस्य । प्रऽचेतसः ।
छर्दिः । येन । दाशुषे । यच्छति । त्मना । तत् । नः । महान् । उत् । अयान् । देवः । अक्तुऽभिः ॥tát ǀ devásya ǀ savitúḥ ǀ vā́ryam ǀ mahát ǀ vṛṇīmáhe ǀ ásurasya ǀ prá-cetasaḥ ǀ
chardíḥ ǀ yéna ǀ dāśúṣe ǀ yácchati ǀ tmánā ǀ tát ǀ naḥ ǀ mahā́n ǀ út ǀ ayān ǀ deváḥ ǀ aktú-bhiḥ ǁtat ǀ devasya ǀ savituḥ ǀ vāryam ǀ mahat ǀ vṛṇīmahe ǀ asurasya ǀ pra-cetasaḥ ǀ
chardiḥ ǀ yena ǀ dāśuṣe ǀ yacchati ǀ tmanā ǀ tat ǀ naḥ ǀ mahān ǀ ut ǀ ayān ǀ devaḥ ǀ aktu-bhiḥ ǁ4.53.1 Aṣṭaka 3.8.4.1Anuvāka 4.5.52
-
Ṛk 2
दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शंगं॑ द्रा॒पिं प्रति॑ मुंचते क॒विः ।
वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्यं॑ ॥दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिम् प्रति मुञ्चते कविः |
विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम् ||divó dhartā́ bhúvanasya prajā́patiḥ piśáṅgam drāpím práti muñcate kavíḥ ǀ
vicakṣaṇáḥ pratháyannāpṛṇánnurvájījanatsavitā́ sumnámukthyam ǁdivo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ |
vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam ||दि॒वः । ध॒र्ता । भुव॑नस्य । प्र॒जाऽप॑तिः । पि॒शङ्ग॑म् । द्रा॒पिम् । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः ।
वि॒ऽच॒क्ष॒णः । प्र॒थय॑न् । आ॒ऽपृ॒णन् । उ॒रु । अजी॑जनत् । स॒वि॒ता । सु॒म्नम् । उ॒क्थ्य॑म् ॥दिवः । धर्ता । भुवनस्य । प्रजाऽपतिः । पिशङ्गम् । द्रापिम् । प्रति । मुञ्चते । कविः ।
विऽचक्षणः । प्रथयन् । आऽपृणन् । उरु । अजीजनत् । सविता । सुम्नम् । उक्थ्यम् ॥diváḥ ǀ dhartā́ ǀ bhúvanasya ǀ prajā́-patiḥ ǀ piśáṅgam ǀ drāpím ǀ práti ǀ muñcate ǀ kavíḥ ǀ
vi-cakṣaṇáḥ ǀ pratháyan ǀ ā-pṛṇán ǀ urú ǀ ájījanat ǀ savitā́ ǀ sumnám ǀ ukthyám ǁdivaḥ ǀ dhartā ǀ bhuvanasya ǀ prajā-patiḥ ǀ piśaṅgam ǀ drāpim ǀ prati ǀ muñcate ǀ kaviḥ ǀ
vi-cakṣaṇaḥ ǀ prathayan ǀ ā-pṛṇan ǀ uru ǀ ajījanat ǀ savitā ǀ sumnam ǀ ukthyam ǁ4.53.2 Aṣṭaka 3.8.4.2Anuvāka 4.5.53
-
Ṛk 3
आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे ।
प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे |
प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत् ||ā́prā rájāṃsi divyā́ni pā́rthivā ślókam deváḥ kṛṇute svā́ya dhármaṇe ǀ
prá bāhū́ asrāksavitā́ sávīmani niveśáyanprasuvánnaktúbhirjágat ǁāprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe |
pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat ||आ । अ॒प्राः॒ । रजां॑सि । दि॒व्यानि॑ । पार्थि॑वा । श्लोक॑म् । दे॒वः । कृ॒णु॒ते॒ । स्वाय॑ । धर्म॑णे ।
प्र । बा॒हू इति॑ । अ॒स्रा॒क् । स॒वि॒ता । सवी॑मनि । नि॒ऽवे॒शय॑न् । प्र॒ऽसु॒वन् । अ॒क्तुऽभिः॑ । जग॑त् ॥आ । अप्राः । रजांसि । दिव्यानि । पार्थिवा । श्लोकम् । देवः । कृणुते । स्वाय । धर्मणे ।
प्र । बाहू इति । अस्राक् । सविता । सवीमनि । निऽवेशयन् । प्रऽसुवन् । अक्तुऽभिः । जगत् ॥ā́ ǀ aprāḥ ǀ rájāṃsi ǀ divyā́ni ǀ pā́rthivā ǀ ślókam ǀ deváḥ ǀ kṛṇute ǀ svā́ya ǀ dhármaṇe ǀ
prá ǀ bāhū́ íti ǀ asrāk ǀ savitā́ ǀ sávīmani ǀ ni-veśáyan ǀ pra-suván ǀ aktú-bhiḥ ǀ jágat ǁā ǀ aprāḥ ǀ rajāṃsi ǀ divyāni ǀ pārthivā ǀ ślokam ǀ devaḥ ǀ kṛṇute ǀ svāya ǀ dharmaṇe ǀ
pra ǀ bāhū iti ǀ asrāk ǀ savitā ǀ savīmani ǀ ni-veśayan ǀ pra-suvan ǀ aktu-bhiḥ ǀ jagat ǁ4.53.3 Aṣṭaka 3.8.4.3Anuvāka 4.5.54
-
Ṛk 4
अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते ।
प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते |
प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ||ádābhyo bhúvanāni pracā́kaśadvratā́ni deváḥ savitā́bhí rakṣate ǀ
prā́srāgbāhū́ bhúvanasya prajā́bhyo dhṛtávrato mahó ájmasya rājati ǁadābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate |
prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati ||अदा॑भ्यः । भुव॑नानि । प्र॒ऽचाक॑शत् । व्र॒तानि॑ । दे॒वः । स॒वि॒ता । अ॒भि । र॒क्ष॒ते॒ ।
प्र । अ॒स्रा॒क् । बा॒हू इति॑ । भुव॑नस्य । प्र॒ऽजाभ्यः॑ । धृ॒तऽव्र॑तः । म॒हः । अज्म॑स्य । रा॒ज॒ति॒ ॥अदाभ्यः । भुवनानि । प्रऽचाकशत् । व्रतानि । देवः । सविता । अभि । रक्षते ।
प्र । अस्राक् । बाहू इति । भुवनस्य । प्रऽजाभ्यः । धृतऽव्रतः । महः । अज्मस्य । राजति ॥ádābhyaḥ ǀ bhúvanāni ǀ pra-cā́kaśat ǀ vratā́ni ǀ deváḥ ǀ savitā́ ǀ abhí ǀ rakṣate ǀ
prá ǀ asrāk ǀ bāhū́ íti ǀ bhúvanasya ǀ pra-jā́bhyaḥ ǀ dhṛtá-vrataḥ ǀ maháḥ ǀ ájmasya ǀ rājati ǁadābhyaḥ ǀ bhuvanāni ǀ pra-cākaśat ǀ vratāni ǀ devaḥ ǀ savitā ǀ abhi ǀ rakṣate ǀ
pra ǀ asrāk ǀ bāhū iti ǀ bhuvanasya ǀ pra-jābhyaḥ ǀ dhṛta-vrataḥ ǀ mahaḥ ǀ ajmasya ǀ rājati ǁ4.53.4 Aṣṭaka 3.8.4.4Anuvāka 4.5.55
-
Ṛk 5
त्रिरं॒तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना ।
ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना |
तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना ||trírantárikṣam savitā́ mahitvanā́ trī́ rájāṃsi paribhústrī́ṇi rocanā́ ǀ
tisró dívaḥ pṛthivī́stisrá invati tribhírvratáirabhí no rakṣati tmánā ǁtrir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā |
tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā ||त्रिः । अ॒न्तरि॑क्षम् । स॒वि॒ता । म॒हि॒ऽत्व॒ना । त्री । रजां॑सि । प॒रि॒ऽभूः । त्रीणि॑ । रो॒च॒ना ।
ति॒स्रः । दिवः॑ । पृ॒थि॒वीः । ति॒स्रः । इ॒न्व॒ति॒ । त्रि॒ऽभिः । व्र॒तैः । अ॒भि । नः॒ । र॒क्ष॒ति॒ । त्मना॑ ॥त्रिः । अन्तरिक्षम् । सविता । महिऽत्वना । त्री । रजांसि । परिऽभूः । त्रीणि । रोचना ।
तिस्रः । दिवः । पृथिवीः । तिस्रः । इन्वति । त्रिऽभिः । व्रतैः । अभि । नः । रक्षति । त्मना ॥tríḥ ǀ antárikṣam ǀ savitā́ ǀ mahi-tvanā́ ǀ trī́ ǀ rájāṃsi ǀ pari-bhū́ḥ ǀ trī́ṇi ǀ rocanā́ ǀ
tisráḥ ǀ dívaḥ ǀ pṛthivī́ḥ ǀ tisráḥ ǀ invati ǀ tri-bhíḥ ǀ vratáiḥ ǀ abhí ǀ naḥ ǀ rakṣati ǀ tmánā ǁtriḥ ǀ antarikṣam ǀ savitā ǀ mahi-tvanā ǀ trī ǀ rajāṃsi ǀ pari-bhūḥ ǀ trīṇi ǀ rocanā ǀ
tisraḥ ǀ divaḥ ǀ pṛthivīḥ ǀ tisraḥ ǀ invati ǀ tri-bhiḥ ǀ vrataiḥ ǀ abhi ǀ naḥ ǀ rakṣati ǀ tmanā ǁ4.53.5 Aṣṭaka 3.8.4.5Anuvāka 4.5.56
-
Ṛk 6
बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी ।
स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुर् उभयस्य यो वशी |
स नो देवः सविता शर्म यच्छत्व् अस्मे क्षयाय त्रिवरूथम् अंहसः ||bṛhátsumnaḥ prasavītā́ nivéśano jágataḥ sthātúrubháyasya yó vaśī́ ǀ
sá no deváḥ savitā́ śárma yacchatvasmé kṣáyāya trivárūthamáṃhasaḥ ǁbṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī |
sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ ||बृ॒हत्ऽसु॑म्नः । प्र॒ऽस॒वि॒ता । नि॒ऽवेश॑नः । जग॑तः । स्था॒तुः । उ॒भय॑स्य । यः । व॒शी ।
सः । नः॒ । दे॒वः । स॒वि॒ता । शर्म॑ । य॒च्छ॒तु॒ । अ॒स्मे इति॑ । क्षया॑य । त्रि॒ऽवरू॑थम् । अंह॑सः ॥बृहत्ऽसुम्नः । प्रऽसविता । निऽवेशनः । जगतः । स्थातुः । उभयस्य । यः । वशी ।
सः । नः । देवः । सविता । शर्म । यच्छतु । अस्मे इति । क्षयाय । त्रिऽवरूथम् । अंहसः ॥bṛhát-sumnaḥ ǀ pra-savitā́ ǀ ni-véśanaḥ ǀ jágataḥ ǀ sthātúḥ ǀ ubháyasya ǀ yáḥ ǀ vaśī́ ǀ
sáḥ ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ śárma ǀ yacchatu ǀ asmé íti ǀ kṣáyāya ǀ tri-várūtham ǀ áṃhasaḥ ǁbṛhat-sumnaḥ ǀ pra-savitā ǀ ni-veśanaḥ ǀ jagataḥ ǀ sthātuḥ ǀ ubhayasya ǀ yaḥ ǀ vaśī ǀ
saḥ ǀ naḥ ǀ devaḥ ǀ savitā ǀ śarma ǀ yacchatu ǀ asme iti ǀ kṣayāya ǀ tri-varūtham ǀ aṃhasaḥ ǁ4.53.6 Aṣṭaka 3.8.4.6Anuvāka 4.5.57
-
Ṛk 7
आगं॑दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिषं॑ ।
स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जावं॑तं र॒यिम॒स्मे समि॑न्वतु ॥आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् |
स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु ||ā́gandevá ṛtúbhirvárdhatu kṣáyam dádhātu naḥ savitā́ suprajā́míṣam ǀ
sá naḥ kṣapā́bhiráhabhiśca jinvatu prajā́vantam rayímasmé sáminvatu ǁāgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam |
sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu ||आ । अ॒ग॒न् । दे॒वः । ऋ॒तुऽभिः॑ । वर्ध॑तु । क्षय॑म् । दधा॑तु । नः॒ । स॒वि॒ता । सु॒ऽप्र॒जाम् । इष॑म् ।
सः । नः॒ । क्ष॒पाभिः॑ । अह॑ऽभिः । च॒ । जि॒न्व॒तु॒ । प्र॒जाऽव॑न्तम् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒तु॒ ॥आ । अगन् । देवः । ऋतुऽभिः । वर्धतु । क्षयम् । दधातु । नः । सविता । सुऽप्रजाम् । इषम् ।
सः । नः । क्षपाभिः । अहऽभिः । च । जिन्वतु । प्रजाऽवन्तम् । रयिम् । अस्मे इति । सम् । इन्वतु ॥ā́ ǀ agan ǀ deváḥ ǀ ṛtú-bhiḥ ǀ várdhatu ǀ kṣáyam ǀ dádhātu ǀ naḥ ǀ savitā́ ǀ su-prajā́m ǀ íṣam ǀ
sáḥ ǀ naḥ ǀ kṣapā́bhiḥ ǀ áha-bhiḥ ǀ ca ǀ jinvatu ǀ prajā́-vantam ǀ rayím ǀ asmé íti ǀ sám ǀ invatu ǁā ǀ agan ǀ devaḥ ǀ ṛtu-bhiḥ ǀ vardhatu ǀ kṣayam ǀ dadhātu ǀ naḥ ǀ savitā ǀ su-prajām ǀ iṣam ǀ
saḥ ǀ naḥ ǀ kṣapābhiḥ ǀ aha-bhiḥ ǀ ca ǀ jinvatu ǀ prajā-vantam ǀ rayim ǀ asme iti ǀ sam ǀ invatu ǁ4.53.7 Aṣṭaka 3.8.4.7Anuvāka 4.5.58
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.