Ṛk 4.53.7
Saṃhitā
आगं॑दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिषं॑ ।
स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जावं॑तं र॒यिम॒स्मे समि॑न्वतु ॥
आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् |
स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु ||
ā́gandevá ṛtúbhirvárdhatu kṣáyam dádhātu naḥ savitā́ suprajā́míṣam ǀ
sá naḥ kṣapā́bhiráhabhiśca jinvatu prajā́vantam rayímasmé sáminvatu ǁ
āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam |
sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu ||
Padapāṭha
आ । अ॒ग॒न् । दे॒वः । ऋ॒तुऽभिः॑ । वर्ध॑तु । क्षय॑म् । दधा॑तु । नः॒ । स॒वि॒ता । सु॒ऽप्र॒जाम् । इष॑म् ।
सः । नः॒ । क्ष॒पाभिः॑ । अह॑ऽभिः । च॒ । जि॒न्व॒तु॒ । प्र॒जाऽव॑न्तम् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒तु॒ ॥
आ । अगन् । देवः । ऋतुऽभिः । वर्धतु । क्षयम् । दधातु । नः । सविता । सुऽप्रजाम् । इषम् ।
सः । नः । क्षपाभिः । अहऽभिः । च । जिन्वतु । प्रजाऽवन्तम् । रयिम् । अस्मे इति । सम् । इन्वतु ॥
ā́ ǀ agan ǀ deváḥ ǀ ṛtú-bhiḥ ǀ várdhatu ǀ kṣáyam ǀ dádhātu ǀ naḥ ǀ savitā́ ǀ su-prajā́m ǀ íṣam ǀ
sáḥ ǀ naḥ ǀ kṣapā́bhiḥ ǀ áha-bhiḥ ǀ ca ǀ jinvatu ǀ prajā́-vantam ǀ rayím ǀ asmé íti ǀ sám ǀ invatu ǁ
ā ǀ agan ǀ devaḥ ǀ ṛtu-bhiḥ ǀ vardhatu ǀ kṣayam ǀ dadhātu ǀ naḥ ǀ savitā ǀ su-prajām ǀ iṣam ǀ
saḥ ǀ naḥ ǀ kṣapābhiḥ ǀ aha-bhiḥ ǀ ca ǀ jinvatu ǀ prajā-vantam ǀ rayim ǀ asme iti ǀ sam ǀ invatu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.053.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.04.07
- Maṇḍala · Anuvāka · Ṛk
- 04.05.058
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.