Sūkta 20
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 6); virāṭtrisṭup (4, 5); svarāṭpaṅkti (7, 9); triṣṭup (8, 10); paṅktiḥ (2); nicṛtpaṅkti (11)
2nd set of styles triṣṭubh
-
Ṛk 1
आ न॒ इंद्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।
ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः |
ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ||ā́ na índro dūrā́dā́ na āsā́dabhiṣṭikṛ́dávase yāsadugráḥ ǀ
ójiṣṭhebhirnṛpátirvájrabāhuḥ saṃgé samátsu turváṇiḥ pṛtanyū́n ǁā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ |
ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn ||आ । नः॒ । इन्द्रः॑ । दू॒रात् । आ । नः॒ । आ॒सात् । अ॒भि॒ष्टि॒ऽकृत् । अव॑से । या॒स॒त् । उ॒ग्रः ।
ओजि॑ष्ठेभिः । नृ॒ऽपतिः॑ । वज्र॑ऽबाहुः । स॒म्ऽगे । स॒मत्ऽसु॑ । तु॒र्वणिः॑ । पृ॒त॒न्यून् ॥आ । नः । इन्द्रः । दूरात् । आ । नः । आसात् । अभिष्टिऽकृत् । अवसे । यासत् । उग्रः ।
ओजिष्ठेभिः । नृऽपतिः । वज्रऽबाहुः । सम्ऽगे । समत्ऽसु । तुर्वणिः । पृतन्यून् ॥ā́ ǀ naḥ ǀ índraḥ ǀ dūrā́t ǀ ā́ ǀ naḥ ǀ āsā́t ǀ abhiṣṭi-kṛ́t ǀ ávase ǀ yāsat ǀ ugráḥ ǀ
ójiṣṭhebhiḥ ǀ nṛ-pátiḥ ǀ vájra-bāhuḥ ǀ sam-gé ǀ samát-su ǀ turváṇiḥ ǀ pṛtanyū́n ǁā ǀ naḥ ǀ indraḥ ǀ dūrāt ǀ ā ǀ naḥ ǀ āsāt ǀ abhiṣṭi-kṛt ǀ avase ǀ yāsat ǀ ugraḥ ǀ
ojiṣṭhebhiḥ ǀ nṛ-patiḥ ǀ vajra-bāhuḥ ǀ sam-ge ǀ samat-su ǀ turvaṇiḥ ǀ pṛtanyūn ǁ4.20.1 Aṣṭaka 3.6.3.1Anuvāka 4.2.99
-
Ṛk 2
आ न॒ इंद्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।
तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च |
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ||ā́ na índro háribhiryātvácchārvācīnó’vase rā́dhase ca ǀ
tíṣṭhāti vajrī́ maghávā virapśī́mám yajñámánu no vā́jasātau ǁā na indro haribhir yātv acchārvācīno 'vase rādhase ca |
tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau ||आ । नः॒ । इन्द्रः॑ । हरि॑ऽभिः । या॒तु॒ । अच्छ॑ । अ॒र्वा॒ची॒नः । अव॑से । राध॑से । च॒ ।
तिष्ठा॑ति । व॒ज्री । म॒घऽवा॑ । वि॒ऽर॒प्शी । इ॒मम् । य॒ज्ञम् । अनु॑ । नः॒ । वाज॑ऽसातौ ॥आ । नः । इन्द्रः । हरिऽभिः । यातु । अच्छ । अर्वाचीनः । अवसे । राधसे । च ।
तिष्ठाति । वज्री । मघऽवा । विऽरप्शी । इमम् । यज्ञम् । अनु । नः । वाजऽसातौ ॥ā́ ǀ naḥ ǀ índraḥ ǀ hári-bhiḥ ǀ yātu ǀ áccha ǀ arvācīnáḥ ǀ ávase ǀ rā́dhase ǀ ca ǀ
tíṣṭhāti ǀ vajrī́ ǀ maghá-vā ǀ vi-rapśī́ ǀ imám ǀ yajñám ǀ ánu ǀ naḥ ǀ vā́ja-sātau ǁā ǀ naḥ ǀ indraḥ ǀ hari-bhiḥ ǀ yātu ǀ accha ǀ arvācīnaḥ ǀ avase ǀ rādhase ǀ ca ǀ
tiṣṭhāti ǀ vajrī ǀ magha-vā ǀ vi-rapśī ǀ imam ǀ yajñam ǀ anu ǀ naḥ ǀ vāja-sātau ǁ4.20.2 Aṣṭaka 3.6.3.2Anuvāka 4.2.100
-
Ṛk 3
इ॒मं य॒ज्ञं त्वम॒स्माक॑मिंद्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः ।
श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥इमं यज्ञं त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुं नः |
श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं जयेम ||imám yajñám tvámasmā́kamindra puró dádhatsaniṣyasi krátum naḥ ǀ
śvaghnī́va vajrintsanáye dhánānām tváyā vayámaryá ājím jayema ǁimaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ |
śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema ||इ॒मम् । य॒ज्ञम् । त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒सि॒ । क्रतु॑म् । नः॒ ।
श्व॒घ्नीऽइ॑व । व॒ज्रि॒न् । स॒नये॑ । धना॑नाम् । त्वया॑ । व॒यम् । अ॒र्यः । आ॒जिम् । ज॒ये॒म॒ ॥इमम् । यज्ञम् । त्वम् । अस्माकम् । इन्द्र । पुरः । दधत् । सनिष्यसि । क्रतुम् । नः ।
श्वघ्नीऽइव । वज्रिन् । सनये । धनानाम् । त्वया । वयम् । अर्यः । आजिम् । जयेम ॥imám ǀ yajñám ǀ tvám ǀ asmā́kam ǀ indra ǀ puráḥ ǀ dádhat ǀ saniṣyasi ǀ krátum ǀ naḥ ǀ
śvaghnī́-iva ǀ vajrin ǀ sanáye ǀ dhánānām ǀ tváyā ǀ vayám ǀ aryáḥ ǀ ājím ǀ jayema ǁimam ǀ yajñam ǀ tvam ǀ asmākam ǀ indra ǀ puraḥ ǀ dadhat ǀ saniṣyasi ǀ kratum ǀ naḥ ǀ
śvaghnī-iva ǀ vajrin ǀ sanaye ǀ dhanānām ǀ tvayā ǀ vayam ǀ aryaḥ ǀ ājim ǀ jayema ǁ4.20.3 Aṣṭaka 3.6.3.3Anuvāka 4.2.101
-
Ṛk 4
उ॒शन्नु॒ षु णः॑ सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः ।
पा इं॑द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समंध॑सा ममदः पृ॒ष्ठ्ये॑न ॥उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः |
पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन ||uśánnu ṣú ṇaḥ sumánā upāké sómasya nú súṣutasya svadhāvaḥ ǀ
pā́ indra prátibhṛtasya mádhvaḥ sámándhasā mamadaḥ pṛṣṭhyéna ǁuśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ |
pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena ||उ॒शन् । ऊं॒ इति॑ । सु । नः॒ । सु॒ऽमनाः॑ । उ॒पा॒के । सोम॑स्य । नु । सुऽसु॑तस्य । स्व॒धा॒ऽवः॒ ।
पाः । इ॒न्द्र॒ । प्रति॑ऽभृतस्य । मध्वः॑ । सम् । अन्ध॑सा । म॒म॒दः॒ । पृ॒ष्ठ्ये॑न ॥उशन् । ऊं इति । सु । नः । सुऽमनाः । उपाके । सोमस्य । नु । सुऽसुतस्य । स्वधाऽवः ।
पाः । इन्द्र । प्रतिऽभृतस्य । मध्वः । सम् । अन्धसा । ममदः । पृष्ठ्येन ॥uśán ǀ ūṃ íti ǀ sú ǀ naḥ ǀ su-mánāḥ ǀ upāké ǀ sómasya ǀ nú ǀ sú-sutasya ǀ svadhā-vaḥ ǀ
pā́ḥ ǀ indra ǀ práti-bhṛtasya ǀ mádhvaḥ ǀ sám ǀ ándhasā ǀ mamadaḥ ǀ pṛṣṭhyéna ǁuśan ǀ ūṃ iti ǀ su ǀ naḥ ǀ su-manāḥ ǀ upāke ǀ somasya ǀ nu ǀ su-sutasya ǀ svadhā-vaḥ ǀ
pāḥ ǀ indra ǀ prati-bhṛtasya ǀ madhvaḥ ǀ sam ǀ andhasā ǀ mamadaḥ ǀ pṛṣṭhyena ǁ4.20.4 Aṣṭaka 3.6.3.4Anuvāka 4.2.102
-
Ṛk 5
वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ ।
मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिंद्रं॑ ॥वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता |
मर्यो न योषाम् अभि मन्यमानो ऽच्छा विवक्मि पुरुहूतम् इन्द्रम् ||ví yó rarapśá ṛ́ṣibhirnávebhirvṛkṣó ná pakváḥ sṛ́ṇyo ná jétā ǀ
máryo ná yóṣāmabhí mányamānó’cchā vivakmi puruhūtámíndram ǁvi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā |
maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram ||वि । यः । र॒रप्शे । ऋषि॑ऽभिः । नवे॑भिः । वृ॒क्षः । न । प॒क्वः । सृण्यः॑ । न । जेता॑ ।
मर्यः॑ । न । योषा॑म् । अ॒भि । मन्य॑मानः । अच्छ॑ । वि॒व॒क्मि॒ । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् ॥वि । यः । ररप्शे । ऋषिऽभिः । नवेभिः । वृक्षः । न । पक्वः । सृण्यः । न । जेता ।
मर्यः । न । योषाम् । अभि । मन्यमानः । अच्छ । विवक्मि । पुरुऽहूतम् । इन्द्रम् ॥ví ǀ yáḥ ǀ rarápśé ǀ ṛ́ṣi-bhiḥ ǀ návebhiḥ ǀ vṛkṣáḥ ǀ ná ǀ pakváḥ ǀ sṛ́ṇyaḥ ǀ ná ǀ jétā ǀ
máryaḥ ǀ ná ǀ yóṣām ǀ abhí ǀ mányamānaḥ ǀ áccha ǀ vivakmi ǀ puru-hūtám ǀ índram ǁvi ǀ yaḥ ǀ rarapśe ǀ ṛṣi-bhiḥ ǀ navebhiḥ ǀ vṛkṣaḥ ǀ na ǀ pakvaḥ ǀ sṛṇyaḥ ǀ na ǀ jetā ǀ
maryaḥ ǀ na ǀ yoṣām ǀ abhi ǀ manyamānaḥ ǀ accha ǀ vivakmi ǀ puru-hūtam ǀ indram ǁ4.20.5 Aṣṭaka 3.6.3.5Anuvāka 4.2.103
-
Ṛk 6
गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इंद्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः ।
आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टं ॥गिरिर् न यः स्वतवां ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः |
आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ||girírná yáḥ svátavām̐ ṛṣvá índraḥ sanā́devá sáhase jātá ugráḥ ǀ
ā́dartā vájram stháviram ná bhīmá udnéva kóśam vásunā nyṛ́ṣṭam ǁgirir na yaḥ svatavāṃ ṛṣva indraḥ sanād eva sahase jāta ugraḥ |
ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam ||गि॒रिः । न । यः । स्वऽत॑वान् । ऋ॒ष्वः । इन्द्रः॑ । स॒नात् । ए॒व । सह॑से । जा॒तः । उ॒ग्रः ।
आऽद॑र्ता । वज्र॑म् । स्थवि॑रम् । न । भी॒मः । उ॒द्नाऽइ॑व । कोश॑म् । वसु॑ना । निऽऋ॑ष्टम् ॥गिरिः । न । यः । स्वऽतवान् । ऋष्वः । इन्द्रः । सनात् । एव । सहसे । जातः । उग्रः ।
आऽदर्ता । वज्रम् । स्थविरम् । न । भीमः । उद्नाऽइव । कोशम् । वसुना । निऽऋष्टम् ॥giríḥ ǀ ná ǀ yáḥ ǀ svá-tavān ǀ ṛṣváḥ ǀ índraḥ ǀ sanā́t ǀ evá ǀ sáhase ǀ jātáḥ ǀ ugráḥ ǀ
ā́-dartā ǀ vájram ǀ stháviram ǀ ná ǀ bhīmáḥ ǀ udnā́-iva ǀ kóśam ǀ vásunā ǀ ní-ṛṣṭam ǁgiriḥ ǀ na ǀ yaḥ ǀ sva-tavān ǀ ṛṣvaḥ ǀ indraḥ ǀ sanāt ǀ eva ǀ sahase ǀ jātaḥ ǀ ugraḥ ǀ
ā-dartā ǀ vajram ǀ sthaviram ǀ na ǀ bhīmaḥ ǀ udnā-iva ǀ kośam ǀ vasunā ǀ ni-ṛṣṭam ǁ4.20.6 Aṣṭaka 3.6.4.1Anuvāka 4.2.104
-
Ṛk 7
न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ ।
उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं॑ दद्धि पुरुहूत रा॒यः ॥न यस्य वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य |
उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ||ná yásya vartā́ janúṣā nvásti ná rā́dhasa āmarītā́ maghásya ǀ
udvāvṛṣāṇástaviṣīva ugrāsmábhyam daddhi puruhūta rāyáḥ ǁna yasya vartā januṣā nv asti na rādhasa āmarītā maghasya |
udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ ||न । यस्य॑ । व॒र्ता । ज॒नुषा॑ । नु । अस्ति॑ । न । राध॑सः । आ॒ऽम॒री॒ता । म॒घस्य॑ ।
उ॒त्ऽव॒वृ॒षा॒णः । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । अ॒स्मभ्य॑म् । द॒द्धि॒ । पु॒रु॒ऽहू॒त॒ । रा॒यः ॥न । यस्य । वर्ता । जनुषा । नु । अस्ति । न । राधसः । आऽमरीता । मघस्य ।
उत्ऽववृषाणः । तविषीऽवः । उग्र । अस्मभ्यम् । दद्धि । पुरुऽहूत । रायः ॥ná ǀ yásya ǀ vartā́ ǀ janúṣā ǀ nú ǀ ásti ǀ ná ǀ rā́dhasaḥ ǀ ā-marītā́ ǀ maghásya ǀ
ut-vavṛṣāṇáḥ ǀ taviṣī-vaḥ ǀ ugra ǀ asmábhyam ǀ daddhi ǀ puru-hūta ǀ rāyáḥ ǁna ǀ yasya ǀ vartā ǀ januṣā ǀ nu ǀ asti ǀ na ǀ rādhasaḥ ǀ ā-marītā ǀ maghasya ǀ
ut-vavṛṣāṇaḥ ǀ taviṣī-vaḥ ǀ ugra ǀ asmabhyam ǀ daddhi ǀ puru-hūta ǀ rāyaḥ ǁ4.20.7 Aṣṭaka 3.6.4.2Anuvāka 4.2.105
-
Ṛk 8
ईक्षे॑ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोनां॑ ।
शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो॑ रा॒शिम॑भिने॒तासि॒ भूरिं॑ ॥ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् |
शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम् ||ī́kṣe rāyáḥ kṣáyasya carṣaṇīnā́mutá vrajámapavartā́si gónām ǀ
śikṣānaráḥ samithéṣu prahā́vānvásvo rāśímabhinetā́si bhū́rim ǁīkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām |
śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim ||ईक्षे॑ । रा॒यः । क्षय॑स्य । च॒र्ष॒णी॒नाम् । उ॒त । व्र॒जम् । अ॒प॒ऽव॒र्ता । अ॒सि॒ । गोना॑म् ।
शि॒क्षा॒ऽन॒रः । स॒म्ऽइ॒थेषु॑ । प्र॒हाऽवा॑न् । वस्वः॑ । रा॒शिम् । अ॒भि॒ऽने॒ता । अ॒सि॒ । भूरि॑म् ॥ईक्षे । रायः । क्षयस्य । चर्षणीनाम् । उत । व्रजम् । अपऽवर्ता । असि । गोनाम् ।
शिक्षाऽनरः । सम्ऽइथेषु । प्रहाऽवान् । वस्वः । राशिम् । अभिऽनेता । असि । भूरिम् ॥ī́kṣe ǀ rāyáḥ ǀ kṣáyasya ǀ carṣaṇīnā́m ǀ utá ǀ vrajám ǀ apa-vartā́ ǀ asi ǀ gónām ǀ
śikṣā-naráḥ ǀ sam-ithéṣu ǀ prahā́-vān ǀ vásvaḥ ǀ rāśím ǀ abhi-netā́ ǀ asi ǀ bhū́rim ǁīkṣe ǀ rāyaḥ ǀ kṣayasya ǀ carṣaṇīnām ǀ uta ǀ vrajam ǀ apa-vartā ǀ asi ǀ gonām ǀ
śikṣā-naraḥ ǀ sam-itheṣu ǀ prahā-vān ǀ vasvaḥ ǀ rāśim ǀ abhi-netā ǀ asi ǀ bhūrim ǁ4.20.8 Aṣṭaka 3.6.4.3Anuvāka 4.2.106
-
Ṛk 9
कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः ।
पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः |
पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे ||káyā tácchṛṇve śácyā śáciṣṭho yáyā kṛṇóti múhu kā́ cidṛṣváḥ ǀ
purú dāśúṣe vícayiṣṭho áṃhó’thā dadhāti dráviṇam jaritré ǁkayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ |
puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre ||कया॑ । तत् । शृ॒ण्वे॒ । शच्या॑ । शचि॑ष्ठः । यया॑ । कृ॒णोति॑ । मुहु॑ । का । चि॒त् । ऋ॒ष्वः ।
पु॒रु । दा॒शुषे॑ । विऽच॑यिष्ठः । अंहः॑ । अथ॑ । द॒धा॒ति॒ । द्रवि॑णम् । ज॒रि॒त्रे ॥कया । तत् । शृण्वे । शच्या । शचिष्ठः । यया । कृणोति । मुहु । का । चित् । ऋष्वः ।
पुरु । दाशुषे । विऽचयिष्ठः । अंहः । अथ । दधाति । द्रविणम् । जरित्रे ॥káyā ǀ tát ǀ śṛṇve ǀ śácyā ǀ śáciṣṭhaḥ ǀ yáyā ǀ kṛṇóti ǀ múhu ǀ kā́ ǀ cit ǀ ṛṣváḥ ǀ
purú ǀ dāśúṣe ǀ ví-cayiṣṭhaḥ ǀ áṃhaḥ ǀ átha ǀ dadhāti ǀ dráviṇam ǀ jaritré ǁkayā ǀ tat ǀ śṛṇve ǀ śacyā ǀ śaciṣṭhaḥ ǀ yayā ǀ kṛṇoti ǀ muhu ǀ kā ǀ cit ǀ ṛṣvaḥ ǀ
puru ǀ dāśuṣe ǀ vi-cayiṣṭhaḥ ǀ aṃhaḥ ǀ atha ǀ dadhāti ǀ draviṇam ǀ jaritre ǁ4.20.9 Aṣṭaka 3.6.4.4Anuvāka 4.2.107
-
Ṛk 10
मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते॑ ।
नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिंत॑ उ॒क्थे प्र ब्र॑वाम व॒यमिं॑द्र स्तु॒वंतः॑ ॥मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते |
नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ||mā́ no mardhīrā́ bharā daddhí tánnaḥ prá dāśúṣe dā́tave bhū́ri yátte ǀ
návye deṣṇé śasté asmínta ukthé prá bravāma vayámindra stuvántaḥ ǁmā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te |
navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ ||मा । नः॒ । म॒र्धीः॒ । आ । भ॒र॒ । द॒द्धि । तत् । नः॒ । प्र । दा॒शुषे॑ । दात॑वे । भूरि॑ । यत् । ते॒ ।
नव्ये॑ । दे॒ष्णे । श॒स्ते । अ॒स्मिन् । ते॒ । उ॒क्थे । प्र । ब्र॒वा॒म॒ । व॒यम् । इ॒न्द्र॒ । स्तु॒वन्तः॑ ॥मा । नः । मर्धीः । आ । भर । दद्धि । तत् । नः । प्र । दाशुषे । दातवे । भूरि । यत् । ते ।
नव्ये । देष्णे । शस्ते । अस्मिन् । ते । उक्थे । प्र । ब्रवाम । वयम् । इन्द्र । स्तुवन्तः ॥mā́ ǀ naḥ ǀ mardhīḥ ǀ ā́ ǀ bhara ǀ daddhí ǀ tát ǀ naḥ ǀ prá ǀ dāśúṣe ǀ dā́tave ǀ bhū́ri ǀ yát ǀ te ǀ
návye ǀ deṣṇé ǀ śasté ǀ asmín ǀ te ǀ ukthé ǀ prá ǀ bravāma ǀ vayám ǀ indra ǀ stuvántaḥ ǁmā ǀ naḥ ǀ mardhīḥ ǀ ā ǀ bhara ǀ daddhi ǀ tat ǀ naḥ ǀ pra ǀ dāśuṣe ǀ dātave ǀ bhūri ǀ yat ǀ te ǀ
navye ǀ deṣṇe ǀ śaste ǀ asmin ǀ te ǀ ukthe ǀ pra ǀ bravāma ǀ vayam ǀ indra ǀ stuvantaḥ ǁ4.20.10 Aṣṭaka 3.6.4.5Anuvāka 4.2.108
-
Ṛk 11
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ||nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ
ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁnū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।
अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ
ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁnu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ
akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ4.20.11 Aṣṭaka 3.6.4.6Anuvāka 4.2.109
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.