Ṛk 4.20.5
Saṃhitā
वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ ।
मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिंद्रं॑ ॥
वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता |
मर्यो न योषाम् अभि मन्यमानो ऽच्छा विवक्मि पुरुहूतम् इन्द्रम् ||
ví yó rarapśá ṛ́ṣibhirnávebhirvṛkṣó ná pakváḥ sṛ́ṇyo ná jétā ǀ
máryo ná yóṣāmabhí mányamānó’cchā vivakmi puruhūtámíndram ǁ
vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā |
maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram ||
Padapāṭha
वि । यः । र॒रप्शे । ऋषि॑ऽभिः । नवे॑भिः । वृ॒क्षः । न । प॒क्वः । सृण्यः॑ । न । जेता॑ ।
मर्यः॑ । न । योषा॑म् । अ॒भि । मन्य॑मानः । अच्छ॑ । वि॒व॒क्मि॒ । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् ॥
वि । यः । ररप्शे । ऋषिऽभिः । नवेभिः । वृक्षः । न । पक्वः । सृण्यः । न । जेता ।
मर्यः । न । योषाम् । अभि । मन्यमानः । अच्छ । विवक्मि । पुरुऽहूतम् । इन्द्रम् ॥
ví ǀ yáḥ ǀ rarápśé ǀ ṛ́ṣi-bhiḥ ǀ návebhiḥ ǀ vṛkṣáḥ ǀ ná ǀ pakváḥ ǀ sṛ́ṇyaḥ ǀ ná ǀ jétā ǀ
máryaḥ ǀ ná ǀ yóṣām ǀ abhí ǀ mányamānaḥ ǀ áccha ǀ vivakmi ǀ puru-hūtám ǀ índram ǁ
vi ǀ yaḥ ǀ rarapśe ǀ ṛṣi-bhiḥ ǀ navebhiḥ ǀ vṛkṣaḥ ǀ na ǀ pakvaḥ ǀ sṛṇyaḥ ǀ na ǀ jetā ǀ
maryaḥ ǀ na ǀ yoṣām ǀ abhi ǀ manyamānaḥ ǀ accha ǀ vivakmi ǀ puru-hūtam ǀ indram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.020.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.03.05
- Maṇḍala · Anuvāka · Ṛk
- 04.02.103
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.