Ṛk 4.20.9
Saṃhitā
कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः ।
पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥
कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः |
पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति द्रविणं जरित्रे ||
káyā tácchṛṇve śácyā śáciṣṭho yáyā kṛṇóti múhu kā́ cidṛṣváḥ ǀ
purú dāśúṣe vícayiṣṭho áṃhó’thā dadhāti dráviṇam jaritré ǁ
kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ |
puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre ||
Padapāṭha
कया॑ । तत् । शृ॒ण्वे॒ । शच्या॑ । शचि॑ष्ठः । यया॑ । कृ॒णोति॑ । मुहु॑ । का । चि॒त् । ऋ॒ष्वः ।
पु॒रु । दा॒शुषे॑ । विऽच॑यिष्ठः । अंहः॑ । अथ॑ । द॒धा॒ति॒ । द्रवि॑णम् । ज॒रि॒त्रे ॥
कया । तत् । शृण्वे । शच्या । शचिष्ठः । यया । कृणोति । मुहु । का । चित् । ऋष्वः ।
पुरु । दाशुषे । विऽचयिष्ठः । अंहः । अथ । दधाति । द्रविणम् । जरित्रे ॥
káyā ǀ tát ǀ śṛṇve ǀ śácyā ǀ śáciṣṭhaḥ ǀ yáyā ǀ kṛṇóti ǀ múhu ǀ kā́ ǀ cit ǀ ṛṣváḥ ǀ
purú ǀ dāśúṣe ǀ ví-cayiṣṭhaḥ ǀ áṃhaḥ ǀ átha ǀ dadhāti ǀ dráviṇam ǀ jaritré ǁ
kayā ǀ tat ǀ śṛṇve ǀ śacyā ǀ śaciṣṭhaḥ ǀ yayā ǀ kṛṇoti ǀ muhu ǀ kā ǀ cit ǀ ṛṣvaḥ ǀ
puru ǀ dāśuṣe ǀ vi-cayiṣṭhaḥ ǀ aṃhaḥ ǀ atha ǀ dadhāti ǀ draviṇam ǀ jaritre ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.020.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.04.04
- Maṇḍala · Anuvāka · Ṛk
- 04.02.107
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.