Ṛgveda · Maṇḍala 4

Sūkta 3

Agni · Vāmadeva Gautama · 16 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 5, 8, 10, 12, 15); virāṭtrisṭup (2, 3, 7, 9, 13, 14); paṅktiḥ (6, 11, 16); svarāḍbṛhatī (4)

2nd set of styles triṣṭubh

  1. Ṛk 1

    आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः ।
    अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वं ॥

    आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः |
    अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ||

    ā́ vo rā́jānamadhvarásya rudrám hótāram satyayájam ródasyoḥ ǀ
    agním purā́ tanayitnóracíttāddhíraṇyarūpamávase kṛṇudhvam ǁ

    ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ |
    agnim purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam ||

    आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः ।
    अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥

    आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्यऽयजम् । रोदस्योः ।
    अग्निम् । पुरा । तनयित्नोः । अचित्तात् । हिरण्यऽरूपम् । अवसे । कृणुध्वम् ॥

    ā́ ǀ vaḥ ǀ rā́jānam ǀ adhvarásya ǀ rudrám ǀ hótāram ǀ satya-yájam ǀ ródasyoḥ ǀ
    agním ǀ purā́ ǀ tanayitnóḥ ǀ acíttāt ǀ híraṇya-rūpam ǀ ávase ǀ kṛṇudhvam ǁ

    ā ǀ vaḥ ǀ rājānam ǀ adhvarasya ǀ rudram ǀ hotāram ǀ satya-yajam ǀ rodasyoḥ ǀ
    agnim ǀ purā ǀ tanayitnoḥ ǀ acittāt ǀ hiraṇya-rūpam ǀ avase ǀ kṛṇudhvam ǁ

    4.3.1 Aṣṭaka 3.4.20.1Anuvāka 4.1.41

  2. Ṛk 2

    अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।
    अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥

    अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती सुवासाः |
    अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ||

    ayám yóniścakṛmā́ yám vayám te jāyéva pátya uśatī́ suvā́sāḥ ǀ
    arvācīnáḥ párivīto ní ṣīdemā́ u te svapāka pratīcī́ḥ ǁ

    ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ |
    arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ ||

    अ॒यम् । योनिः॑ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ।
    अ॒र्वा॒ची॒नः । परि॑ऽवीतः । नि । सी॒द॒ । इ॒माः । ऊं॒ इति॑ । ते॒ । सु॒ऽअ॒पा॒क॒ । प्र॒ती॒चीः ॥

    अयम् । योनिः । चकृम । यम् । वयम् । ते । जायाऽइव । पत्ये । उशती । सुऽवासाः ।
    अर्वाचीनः । परिऽवीतः । नि । सीद । इमाः । ऊं इति । ते । सुऽअपाक । प्रतीचीः ॥

    ayám ǀ yóniḥ ǀ cakṛmá ǀ yám ǀ vayám ǀ te ǀ jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǀ
    arvācīnáḥ ǀ pári-vītaḥ ǀ ní ǀ sīda ǀ imā́ḥ ǀ ūṃ íti ǀ te ǀ su-apāka ǀ pratīcī́ḥ ǁ

    ayam ǀ yoniḥ ǀ cakṛma ǀ yam ǀ vayam ǀ te ǀ jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǀ
    arvācīnaḥ ǀ pari-vītaḥ ǀ ni ǀ sīda ǀ imāḥ ǀ ūṃ iti ǀ te ǀ su-apāka ǀ pratīcīḥ ǁ

    4.3.2 Aṣṭaka 3.4.20.2Anuvāka 4.1.42

  3. Ṛk 3

    आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः ।
    दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥

    आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृऌईकाय वेधः |
    देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम् ईळे ||

    āśṛṇvaté ádṛpitāya mánma nṛcákṣase sumṛḷīkā́ya vedhaḥ ǀ
    devā́ya śastímamṛ́tāya śaṃsa grā́veva sótā madhuṣúdyámīḷé ǁ

    āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḷīkāya vedhaḥ |
    devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḷe ||

    आ॒शृ॒ण्व॒ते । अदृ॑पिताय । मन्म॑ । नृ॒ऽचक्ष॑से । सु॒ऽमृ॒ळी॒काय॑ । वे॒धः॒ ।
    दे॒वाय॑ । श॒स्तिम् । अ॒मृता॑य । शं॒स॒ । ग्रावा॑ऽइव । सोता॑ । म॒धु॒ऽसुत् । यम् । ई॒ळे ॥

    आशृण्वते । अदृपिताय । मन्म । नृऽचक्षसे । सुऽमृळीकाय । वेधः ।
    देवाय । शस्तिम् । अमृताय । शंस । ग्रावाऽइव । सोता । मधुऽसुत् । यम् । ईळे ॥

    āśṛṇvaté ǀ ádṛpitāya ǀ mánma ǀ nṛ-cákṣase ǀ su-mṛḷīkā́ya ǀ vedhaḥ ǀ
    devā́ya ǀ śastím ǀ amṛ́tāya ǀ śaṃsa ǀ grā́vā-iva ǀ sótā ǀ madhu-sút ǀ yám ǀ īḷé ǁ

    āśṛṇvate ǀ adṛpitāya ǀ manma ǀ nṛ-cakṣase ǀ su-mṛḷīkāya ǀ vedhaḥ ǀ
    devāya ǀ śastim ǀ amṛtāya ǀ śaṃsa ǀ grāvā-iva ǀ sotā ǀ madhu-sut ǀ yam ǀ īḷe ǁ

    4.3.3 Aṣṭaka 3.4.20.3Anuvāka 4.1.43

  4. Ṛk 4

    त्वं चि॑न्नः॒ शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः ।
    क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वंति स॒ख्या गृ॒हे ते॑ ॥

    त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः |
    कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ||

    tvám cinnaḥ śámyā agne asyā́ ṛtásya bodhyṛtacitsvādhī́ḥ ǀ
    kadā́ ta ukthā́ sadhamā́dyāni kadā́ bhavanti sakhyā́ gṛhé te ǁ

    tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ |
    kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te ||

    त्वम् । चि॒त् । नः॒ । शम्यै॑ । अ॒ग्ने॒ । अ॒स्याः । ऋ॒तस्य॑ । बो॒धि॒ । ऋ॒त॒ऽचि॒त् । सु॒ऽआ॒धीः ।
    क॒दा । ते॒ । उ॒क्था । स॒ध॒ऽमाद्या॑नि । क॒दा । भ॒व॒न्ति॒ । स॒ख्या । गृ॒हे । ते॒ ॥

    त्वम् । चित् । नः । शम्यै । अग्ने । अस्याः । ऋतस्य । बोधि । ऋतऽचित् । सुऽआधीः ।
    कदा । ते । उक्था । सधऽमाद्यानि । कदा । भवन्ति । सख्या । गृहे । ते ॥

    tvám ǀ cit ǀ naḥ ǀ śámyai ǀ agne ǀ asyā́ḥ ǀ ṛtásya ǀ bodhi ǀ ṛta-cit ǀ su-ādhī́ḥ ǀ
    kadā́ ǀ te ǀ ukthā́ ǀ sadha-mā́dyāni ǀ kadā́ ǀ bhavanti ǀ sakhyā́ ǀ gṛhé ǀ te ǁ

    tvam ǀ cit ǀ naḥ ǀ śamyai ǀ agne ǀ asyāḥ ǀ ṛtasya ǀ bodhi ǀ ṛta-cit ǀ su-ādhīḥ ǀ
    kadā ǀ te ǀ ukthā ǀ sadha-mādyāni ǀ kadā ǀ bhavanti ǀ sakhyā ǀ gṛhe ǀ te ǁ

    4.3.4 Aṣṭaka 3.4.20.4Anuvāka 4.1.44

  5. Ṛk 5

    क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ ।
    क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रवः॒ कद॑र्य॒म्णे कद्भगा॑य ॥

    कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः |
    कथा मित्राय मीऌहुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय ||

    kathā́ ha tádváruṇāya tvámagne kathā́ divé garhase kánna ā́gaḥ ǀ
    kathā́ mitrā́ya mīḷhúṣe pṛthivyái brávaḥ kádaryamṇé kádbhágāya ǁ

    kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ |
    kathā mitrāya mīḷhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya ||

    क॒था । ह॒ । तत् । वरु॑णाय । त्वम् । अ॒ग्ने॒ । क॒था । दि॒वे । ग॒र्ह॒से॒ । कत् । नः॒ । आगः॑ ।
    क॒था । मि॒त्राय॑ । मी॒ळ्हुषे॑ । पृ॒थि॒व्यै । ब्रवः॑ । कत् । अ॒र्य॒म्णे । कत् । भगा॑य ॥

    कथा । ह । तत् । वरुणाय । त्वम् । अग्ने । कथा । दिवे । गर्हसे । कत् । नः । आगः ।
    कथा । मित्राय । मीळ्हुषे । पृथिव्यै । ब्रवः । कत् । अर्यम्णे । कत् । भगाय ॥

    kathā́ ǀ ha ǀ tát ǀ váruṇāya ǀ tvám ǀ agne ǀ kathā́ ǀ divé ǀ garhase ǀ kát ǀ naḥ ǀ ā́gaḥ ǀ
    kathā́ ǀ mitrā́ya ǀ mīḷhúṣe ǀ pṛthivyái ǀ brávaḥ ǀ kát ǀ aryamṇé ǀ kát ǀ bhágāya ǁ

    kathā ǀ ha ǀ tat ǀ varuṇāya ǀ tvam ǀ agne ǀ kathā ǀ dive ǀ garhase ǀ kat ǀ naḥ ǀ āgaḥ ǀ
    kathā ǀ mitrāya ǀ mīḷhuṣe ǀ pṛthivyai ǀ bravaḥ ǀ kat ǀ aryamṇe ǀ kat ǀ bhagāya ǁ

    4.3.5 Aṣṭaka 3.4.20.5Anuvāka 4.1.45

  6. Ṛk 6

    कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये ।
    परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥

    कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये |
    परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ||

    káddhíṣṇyāsu vṛdhasānó agne kádvā́tāya prátavase śubhaṃyé ǀ
    párijmane nā́satyāya kṣé brávaḥ kádagne rudrā́ya nṛghné ǁ

    kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye |
    parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne ||

    कत् । धिष्ण्या॑सु । वृ॒ध॒सा॒नः । अ॒ग्ने॒ । कत् । वाता॑य । प्रऽत॑वसे । शु॒भ॒म्ऽये ।
    परि॑ऽज्मने । नास॑त्याय । क्षे । ब्रवः॑ । कत् । अ॒ग्ने॒ । रु॒द्राय॑ । नृ॒ऽघ्ने ॥

    कत् । धिष्ण्यासु । वृधसानः । अग्ने । कत् । वाताय । प्रऽतवसे । शुभम्ऽये ।
    परिऽज्मने । नासत्याय । क्षे । ब्रवः । कत् । अग्ने । रुद्राय । नृऽघ्ने ॥

    kát ǀ dhíṣṇyāsu ǀ vṛdhasānáḥ ǀ agne ǀ kát ǀ vā́tāya ǀ prá-tavase ǀ śubham-yé ǀ
    pári-jmane ǀ nā́satyāya ǀ kṣé ǀ brávaḥ ǀ kát ǀ agne ǀ rudrā́ya ǀ nṛ-ghné ǁ

    kat ǀ dhiṣṇyāsu ǀ vṛdhasānaḥ ǀ agne ǀ kat ǀ vātāya ǀ pra-tavase ǀ śubham-ye ǀ
    pari-jmane ǀ nāsatyāya ǀ kṣe ǀ bravaḥ ǀ kat ǀ agne ǀ rudrāya ǀ nṛ-ghne ǁ

    4.3.6 Aṣṭaka 3.4.21.1Anuvāka 4.1.46

  7. Ṛk 7

    क॒था म॒हे पु॑ष्टिंभ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे ।
    कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥

    कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे |
    कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै ||

    kathā́ mahé puṣṭimbharā́ya pūṣṇé kádrudrā́ya súmakhāya havirdé ǀ
    kádvíṣṇava urugāyā́ya réto brávaḥ kádagne śárave bṛhatyái ǁ

    kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde |
    kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai ||

    क॒था । म॒हे । पु॒ष्टि॒म्ऽभ॒राय॑ । पू॒ष्णे । कत् । रु॒द्राय॑ । सुऽम॑खाय । ह॒विः॒ऽदे ।
    कत् । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । रेतः॑ । ब्रवः॑ । कत् । अ॒ग्ने॒ । शर॑वे । बृ॒ह॒त्यै ॥

    कथा । महे । पुष्टिम्ऽभराय । पूष्णे । कत् । रुद्राय । सुऽमखाय । हविःऽदे ।
    कत् । विष्णवे । उरुऽगायाय । रेतः । ब्रवः । कत् । अग्ने । शरवे । बृहत्यै ॥

    kathā́ ǀ mahé ǀ puṣṭim-bharā́ya ǀ pūṣṇé ǀ kát ǀ rudrā́ya ǀ sú-makhāya ǀ haviḥ-dé ǀ
    kát ǀ víṣṇave ǀ uru-gāyā́ya ǀ rétaḥ ǀ brávaḥ ǀ kát ǀ agne ǀ śárave ǀ bṛhatyái ǁ

    kathā ǀ mahe ǀ puṣṭim-bharāya ǀ pūṣṇe ǀ kat ǀ rudrāya ǀ su-makhāya ǀ haviḥ-de ǀ
    kat ǀ viṣṇave ǀ uru-gāyāya ǀ retaḥ ǀ bravaḥ ǀ kat ǀ agne ǀ śarave ǀ bṛhatyai ǁ

    4.3.7 Aṣṭaka 3.4.21.2Anuvāka 4.1.47

  8. Ṛk 8

    क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः ।
    प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥

    कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृच्छ्यमानः |
    प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान् ||

    kathā́ śárdhāya marútāmṛtā́ya kathā́ sūré bṛhaté pṛcchyámānaḥ ǀ
    práti bravó’ditaye turā́ya sā́dhā divó jātavedaścikitvā́n ǁ

    kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ |
    prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān ||

    क॒था । शर्धा॑य । म॒रुता॑म् । ऋ॒ताय॑ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा॑नः ।
    प्रति॑ । ब्र॒वः॒ । अदि॑तये । तु॒राय॑ । साध॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥

    कथा । शर्धाय । मरुताम् । ऋताय । कथा । सूरे । बृहते । पृच्छ्यमानः ।
    प्रति । ब्रवः । अदितये । तुराय । साध । दिवः । जातऽवेदः । चिकित्वान् ॥

    kathā́ ǀ śárdhāya ǀ marútām ǀ ṛtā́ya ǀ kathā́ ǀ sūré ǀ bṛhaté ǀ pṛcchyámānaḥ ǀ
    práti ǀ bravaḥ ǀ áditaye ǀ turā́ya ǀ sā́dha ǀ diváḥ ǀ jāta-vedaḥ ǀ cikitvā́n ǁ

    kathā ǀ śardhāya ǀ marutām ǀ ṛtāya ǀ kathā ǀ sūre ǀ bṛhate ǀ pṛcchyamānaḥ ǀ
    prati ǀ bravaḥ ǀ aditaye ǀ turāya ǀ sādha ǀ divaḥ ǀ jāta-vedaḥ ǀ cikitvān ǁ

    4.3.8 Aṣṭaka 3.4.21.3Anuvāka 4.1.48

  9. Ṛk 9

    ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने ।
    कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥

    ऋतेन ऋतं नियतम् ईऌअ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने |
    कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ||

    ṛténa ṛtám níyatamīḷa ā́ górāmā́ sácā mádhumatpakvámagne ǀ
    kṛṣṇā́ satī́ rúśatā dhāsínaiṣā́ jā́maryeṇa páyasā pīpāya ǁ

    ṛtena ṛtaṃ niyatam īḷa ā gor āmā sacā madhumat pakvam agne |
    kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya ||

    ऋ॒तेन॑ । ऋ॒तम् । निऽय॑तम् । ई॒ळे॒ । आ । गोः । आ॒मा । सचा॑ । मधु॑ऽमत् । प॒क्वम् । अ॒ग्ने॒ ।
    कृ॒ष्णा । स॒ती । रुश॑ता । धा॒सिना॑ । ए॒षा । जाम॑र्येण । पय॑सा । पी॒पा॒य॒ ॥

    ऋतेन । ऋतम् । निऽयतम् । ईळे । आ । गोः । आमा । सचा । मधुऽमत् । पक्वम् । अग्ने ।
    कृष्णा । सती । रुशता । धासिना । एषा । जामर्येण । पयसा । पीपाय ॥

    ṛténa ǀ ṛtám ǀ ní-yatam ǀ īḷe ǀ ā́ ǀ góḥ ǀ āmā́ ǀ sácā ǀ mádhu-mat ǀ pakvám ǀ agne ǀ
    kṛṣṇā́ ǀ satī́ ǀ rúśatā ǀ dhāsínā ǀ eṣā́ ǀ jā́maryeṇa ǀ páyasā ǀ pīpāya ǁ

    ṛtena ǀ ṛtam ǀ ni-yatam ǀ īḷe ǀ ā ǀ goḥ ǀ āmā ǀ sacā ǀ madhu-mat ǀ pakvam ǀ agne ǀ
    kṛṣṇā ǀ satī ǀ ruśatā ǀ dhāsinā ǀ eṣā ǀ jāmaryeṇa ǀ payasā ǀ pīpāya ǁ

    4.3.9 Aṣṭaka 3.4.21.4Anuvāka 4.1.49

  10. Ṛk 10

    ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न ।
    अस्पं॑दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥

    ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमां अग्निः पयसा पृष्ठ्येन |
    अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर् ऊधः ||

    ṛténa hí ṣmā vṛṣabháścidaktáḥ púmām̐ agníḥ páyasā pṛṣṭhyéna ǀ
    áspandamāno acaradvayodhā́ vṛ́ṣā śukrám duduhe pṛ́śnirū́dhaḥ ǁ

    ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṃ agniḥ payasā pṛṣṭhyena |
    aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ ||

    ऋ॒तेन॑ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा॑न् । अ॒ग्निः । पय॑सा । पृ॒ष्ठ्ये॑न ।
    अस्प॑न्दमानः । अ॒च॒र॒त् । व॒यः॒ऽधाः । वृषा॑ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥

    ऋतेन । हि । स्म । वृषभः । चित् । अक्तः । पुमान् । अग्निः । पयसा । पृष्ठ्येन ।
    अस्पन्दमानः । अचरत् । वयःऽधाः । वृषा । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥

    ṛténa ǀ hí ǀ sma ǀ vṛṣabháḥ ǀ cit ǀ aktáḥ ǀ púmān ǀ agníḥ ǀ páyasā ǀ pṛṣṭhyéna ǀ
    áspandamānaḥ ǀ acarat ǀ vayaḥ-dhā́ḥ ǀ vṛ́ṣā ǀ śukrám ǀ duduhe ǀ pṛ́śniḥ ǀ ū́dhaḥ ǁ

    ṛtena ǀ hi ǀ sma ǀ vṛṣabhaḥ ǀ cit ǀ aktaḥ ǀ pumān ǀ agniḥ ǀ payasā ǀ pṛṣṭhyena ǀ
    aspandamānaḥ ǀ acarat ǀ vayaḥ-dhāḥ ǀ vṛṣā ǀ śukram ǀ duduhe ǀ pṛśniḥ ǀ ūdhaḥ ǁ

    4.3.10 Aṣṭaka 3.4.21.5Anuvāka 4.1.50

  11. Ṛk 11

    ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दंतः॒ समंगि॑रसो नवंत॒ गोभिः॑ ।
    शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥

    ऋतेनाद्रिं व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः |
    शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ ||

    ṛténā́drim vyásanbhidántaḥ sámáṅgiraso navanta góbhiḥ ǀ
    śunám náraḥ pári ṣadannuṣā́samāvíḥ svárabhavajjāté agnáu ǁ

    ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ |
    śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau ||

    ऋ॒तेन॑ । अद्रि॑म् । वि । अ॒स॒न् । भि॒दन्तः॑ । सम् । अङ्गि॑रसः । न॒व॒न्त॒ । गोभिः॑ ।
    शु॒नम् । नरः॑ । परि॑ । स॒द॒न् । उ॒षस॑म् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥

    ऋतेन । अद्रिम् । वि । असन् । भिदन्तः । सम् । अङ्गिरसः । नवन्त । गोभिः ।
    शुनम् । नरः । परि । सदन् । उषसम् । आविः । स्वः । अभवत् । जाते । अग्नौ ॥

    ṛténa ǀ ádrim ǀ ví ǀ asan ǀ bhidántaḥ ǀ sám ǀ áṅgirasaḥ ǀ navanta ǀ góbhiḥ ǀ
    śunám ǀ náraḥ ǀ pári ǀ sadan ǀ uṣásam ǀ āvíḥ ǀ sváḥ ǀ abhavat ǀ jāté ǀ agnáu ǁ

    ṛtena ǀ adrim ǀ vi ǀ asan ǀ bhidantaḥ ǀ sam ǀ aṅgirasaḥ ǀ navanta ǀ gobhiḥ ǀ
    śunam ǀ naraḥ ǀ pari ǀ sadan ǀ uṣasam ǀ āviḥ ǀ svaḥ ǀ abhavat ǀ jāte ǀ agnau ǁ

    4.3.11 Aṣṭaka 3.4.22.1Anuvāka 4.1.51

  12. Ṛk 12

    ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने ।
    वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥

    ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने |
    वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः ||

    ṛténa devī́ramṛ́tā ámṛktā árṇobhirā́po mádhumadbhiragne ǀ
    vājī́ ná sárgeṣu prastubhānáḥ prá sádamítsrávitave dadhanyuḥ ǁ

    ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne |
    vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ ||

    ऋ॒तेन॑ । दे॒वीः । अ॒मृताः॑ । अमृ॑क्ताः । अर्णः॑ऽभिः । आपः॑ । मधु॑मत्ऽभिः । अ॒ग्ने॒ ।
    वा॒जी । न । सर्गे॑षु । प्र॒ऽस्तु॒भा॒नः । प्र । सद॑म् । इत् । स्रवि॑तवे । द॒ध॒न्युः॒ ॥

    ऋतेन । देवीः । अमृताः । अमृक्ताः । अर्णःऽभिः । आपः । मधुमत्ऽभिः । अग्ने ।
    वाजी । न । सर्गेषु । प्रऽस्तुभानः । प्र । सदम् । इत् । स्रवितवे । दधन्युः ॥

    ṛténa ǀ devī́ḥ ǀ amṛ́tāḥ ǀ ámṛktāḥ ǀ árṇaḥ-bhiḥ ǀ ā́paḥ ǀ mádhumat-bhiḥ ǀ agne ǀ
    vājī́ ǀ ná ǀ sárgeṣu ǀ pra-stubhānáḥ ǀ prá ǀ sádam ǀ ít ǀ srávitave ǀ dadhanyuḥ ǁ

    ṛtena ǀ devīḥ ǀ amṛtāḥ ǀ amṛktāḥ ǀ arṇaḥ-bhiḥ ǀ āpaḥ ǀ madhumat-bhiḥ ǀ agne ǀ
    vājī ǀ na ǀ sargeṣu ǀ pra-stubhānaḥ ǀ pra ǀ sadam ǀ it ǀ sravitave ǀ dadhanyuḥ ǁ

    4.3.12 Aṣṭaka 3.4.22.2Anuvāka 4.1.52

  13. Ṛk 13

    मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः ।
    मा भ्रातु॑रग्ने॒ अनृ॑जोर्ऋ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥

    मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः |
    मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम ||

    mā́ kásya yakṣám sádamíddhuró gā mā́ veśásya praminató mā́péḥ ǀ
    mā́ bhrā́turagne ánṛjorṛṇám vermā́ sákhyurdákṣam ripórbhujema ǁ

    mā kasya yakṣaṃ sadam id dhuro gā mā veśasya praminato māpeḥ |
    mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema ||

    मा । कस्य॑ । य॒क्षम् । सद॑म् । इत् । हु॒रः । गाः॒ । मा । वे॒शस्य॑ । प्र॒ऽमि॒न॒तः । मा । आ॒पेः ।
    मा । भ्रातुः॑ । अ॒ग्ने॒ । अनृ॑जोः । ऋ॒णम् । वेः॒ । मा । सख्युः॑ । दक्ष॑म् । रि॒पोः । भु॒जे॒म॒ ॥

    मा । कस्य । यक्षम् । सदम् । इत् । हुरः । गाः । मा । वेशस्य । प्रऽमिनतः । मा । आपेः ।
    मा । भ्रातुः । अग्ने । अनृजोः । ऋणम् । वेः । मा । सख्युः । दक्षम् । रिपोः । भुजेम ॥

    mā́ ǀ kásya ǀ yakṣám ǀ sádam ǀ ít ǀ huráḥ ǀ gāḥ ǀ mā́ ǀ veśásya ǀ pra-minatáḥ ǀ mā́ ǀ āpéḥ ǀ
    mā́ ǀ bhrā́tuḥ ǀ agne ǀ ánṛjoḥ ǀ ṛṇám ǀ veḥ ǀ mā́ ǀ sákhyuḥ ǀ dákṣam ǀ ripóḥ ǀ bhujema ǁ

    mā ǀ kasya ǀ yakṣam ǀ sadam ǀ it ǀ huraḥ ǀ gāḥ ǀ mā ǀ veśasya ǀ pra-minataḥ ǀ mā ǀ āpeḥ ǀ
    mā ǀ bhrātuḥ ǀ agne ǀ anṛjoḥ ǀ ṛṇam ǀ veḥ ǀ mā ǀ sakhyuḥ ǀ dakṣam ǀ ripoḥ ǀ bhujema ǁ

    4.3.13 Aṣṭaka 3.4.22.3Anuvāka 4.1.53

  14. Ṛk 14

    रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः ।
    प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नं ॥

    रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः |
    प्रति ष्फुर वि रुज वीड्व् अंहो जहि रक्षो महि चिद् वावृधानम् ||

    rákṣā ṇo agne táva rákṣaṇebhī rārakṣāṇáḥ sumakha prīṇānáḥ ǀ
    práti ṣphura ví ruja vīḍváṃho jahí rákṣo máhi cidvāvṛdhānám ǁ

    rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ |
    prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam ||

    रक्ष॑ । नः॒ । अ॒ग्ने॒ । तव॑ । रक्ष॑णेभिः । र॒र॒क्षा॒णः । सु॒ऽम॒ख॒ । प्री॒णा॒नः ।
    प्रति॑ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः॑ । ज॒हि । रक्षः॑ । महि॑ । चि॒त् । व॒वृ॒धा॒नम् ॥

    रक्ष । नः । अग्ने । तव । रक्षणेभिः । ररक्षाणः । सुऽमख । प्रीणानः ।
    प्रति । स्फुर । वि । रुज । वीळु । अंहः । जहि । रक्षः । महि । चित् । ववृधानम् ॥

    rákṣa ǀ naḥ ǀ agne ǀ táva ǀ rákṣaṇebhiḥ ǀ rarakṣāṇáḥ ǀ su-makha ǀ prīṇānáḥ ǀ
    práti ǀ sphura ǀ ví ǀ ruja ǀ vīḷú ǀ áṃhaḥ ǀ jahí ǀ rákṣaḥ ǀ máhi ǀ cit ǀ vavṛdhānám ǁ

    rakṣa ǀ naḥ ǀ agne ǀ tava ǀ rakṣaṇebhiḥ ǀ rarakṣāṇaḥ ǀ su-makha ǀ prīṇānaḥ ǀ
    prati ǀ sphura ǀ vi ǀ ruja ǀ vīḷu ǀ aṃhaḥ ǀ jahi ǀ rakṣaḥ ǀ mahi ǀ cit ǀ vavṛdhānam ǁ

    4.3.14 Aṣṭaka 3.4.22.4Anuvāka 4.1.54

  15. Ṛk 15

    ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् ।
    उ॒त ब्रह्मा॑ण्यंगिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥

    एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् |
    उत ब्रह्माण्य् अङ्गिरो जुषस्व सं ते शस्तिर् देववाता जरेत ||

    ebhírbhava sumánā agne arkáirimā́ntspṛśa mánmabhiḥ śūra vā́jān ǀ
    utá bráhmāṇyaṅgiro juṣasva sám te śastírdevávātā jareta ǁ

    ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān |
    uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta ||

    ए॒भिः । भ॒व॒ । सु॒ऽमनाः॑ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म॑ऽभिः । शू॒र॒ । वाजा॑न् ।
    उ॒त । ब्रह्मा॑णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒वऽवा॑ता । ज॒रे॒त॒ ॥

    एभिः । भव । सुऽमनाः । अग्ने । अर्कैः । इमान् । स्पृश । मन्मऽभिः । शूर । वाजान् ।
    उत । ब्रह्माणि । अङ्गिरः । जुषस्व । सम् । ते । शस्तिः । देवऽवाता । जरेत ॥

    ebhíḥ ǀ bhava ǀ su-mánāḥ ǀ agne ǀ arkáiḥ ǀ imā́n ǀ spṛśa ǀ mánma-bhiḥ ǀ śūra ǀ vā́jān ǀ
    utá ǀ bráhmāṇi ǀ aṅgiraḥ ǀ juṣasva ǀ sám ǀ te ǀ śastíḥ ǀ devá-vātā ǀ jareta ǁ

    ebhiḥ ǀ bhava ǀ su-manāḥ ǀ agne ǀ arkaiḥ ǀ imān ǀ spṛśa ǀ manma-bhiḥ ǀ śūra ǀ vājān ǀ
    uta ǀ brahmāṇi ǀ aṅgiraḥ ǀ juṣasva ǀ sam ǀ te ǀ śastiḥ ǀ deva-vātā ǀ jareta ǁ

    4.3.15 Aṣṭaka 3.4.22.5Anuvāka 4.1.55

  16. Ṛk 16

    ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि ।
    नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥

    एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या वचांसि |
    निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः ||

    etā́ víśvā vidúṣe túbhyam vedho nīthā́nyagne niṇyā́ vácāṃsi ǀ
    nivácanā kaváye kā́vyānyáśaṃsiṣam matíbhirvípra uktháiḥ ǁ

    etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi |
    nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ ||

    ए॒ता । विश्वा॑ । वि॒दुषे॑ । तुभ्य॑म् । वे॒धः॒ । नी॒थानि॑ । अ॒ग्ने॒ । नि॒ण्या । वचां॑सि ।
    नि॒ऽवच॑ना । क॒वये॑ । काव्या॑नि । अशं॑सिषम् । म॒तिऽभिः॑ । विप्रः॑ । उ॒क्थैः ॥

    एता । विश्वा । विदुषे । तुभ्यम् । वेधः । नीथानि । अग्ने । निण्या । वचांसि ।
    निऽवचना । कवये । काव्यानि । अशंसिषम् । मतिऽभिः । विप्रः । उक्थैः ॥

    etā́ ǀ víśvā ǀ vidúṣe ǀ túbhyam ǀ vedhaḥ ǀ nīthā́ni ǀ agne ǀ niṇyā́ ǀ vácāṃsi ǀ
    ni-vácanā ǀ kaváye ǀ kā́vyāni ǀ áśaṃsiṣam ǀ matí-bhiḥ ǀ vípraḥ ǀ uktháiḥ ǁ

    etā ǀ viśvā ǀ viduṣe ǀ tubhyam ǀ vedhaḥ ǀ nīthāni ǀ agne ǀ niṇyā ǀ vacāṃsi ǀ
    ni-vacanā ǀ kavaye ǀ kāvyāni ǀ aśaṃsiṣam ǀ mati-bhiḥ ǀ vipraḥ ǀ ukthaiḥ ǁ

    4.3.16 Aṣṭaka 3.4.22.6Anuvāka 4.1.56

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.3 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

Create for yourselves the King of the pilgrim-rite, the Terrible, the priest of the invocation who wins by sacrifice the Truth in earth and heaven,30 create Fire golden in his form for your protection before the outspreading of the Ignorance.31 (223)

Ṛk 2

This is thy seat which we have made for thee, even as, desiring, a wife richly robed for her lord; thou art turned towards us and wide-extended around, sit here within: O once far distant Fire,32 these are now fronting thee. (224)

Ṛk 3

O ordinant of sacrifice, to Fire that hears, inviolate, the strong in vision, the happy, the immortal Godhead speak the Thought, the word expressing him, whom I pray as with the voice of the stone of the pressing when it presses out the honey-wine. (224)

Ṛk 4

Thou, too, O Fire, turn towards our labour, become aware of this word, in perfect answer of thy thought, Truth conscious, become aware of the Truth. When shall there be thy utterances that share in our ecstasy, when thy acts of companionship in the house? (224)

Ṛk 5

How dost thou blame it, O Fire, to Varuna, to Heaven, what is that sin we have done? How wouldst thou speak of us to Mitra, the bountiful, how to earth? What wilt thou say to Aryaman, what to Bhaga? (224)

Ṛk 6

What, O Fire, growing in thy abodes, wouldst thou say for us, what to the wind most forceful, to the seeker of the Good, the all-pervading, to the lord of the journey, to the earth? What, O Fire, to Rudra the slayer of men? (225)

Ṛk 7

How wilt thou speak of us to Pushan, the mighty bringer of increase, what to Rudra great in sacrifice, giver of the offering? What seed of things to wide-striding Vishnu, or what, O Fire, to vast doom? (225)

Ṛk 8

How when they question thee wouldst thou answer to the host of the Life-Gods in their Truth, or to the Sun in his vastness, to the mother indivisible, to the swift traveler ? O knower of all things born, thou knowest the Heaven, for us accomplish. (225)

Ṛk 9

The Truth controlled by the Truth I desire (i.e. the human by the divine), together the unripe things of the Cow and her ripe and honeyed yield (again the imperfect human and the perfect and blissful divine fruits of the universal consciousness and existence); she (the cow) being black (the dark and divided existence, Diti) is nourished by the shining water of the foundation, the water of the companion streams ( jDmaryeKa). (SABCL, Vol. 10, p. 201)

I ask for the truth governed by the Truth, together the unripe things of the Cow of light and that of her which is sweet and ripe, O Fire. Even black of hue, she nourishes with a luminous supporting, with a kindred milk. (SABCL, Vol. 11, p. 172)

Ṛk 10

By the Truth Agni the Bull, the Male, sprinkled with the water of its levels, ranges unquivering, establishing wideness (wide space or manifestation); the dappled Bull milks the pure shining teat. (SABCL, Vol. 10, p. 201)

For the Fire the Bull, the Male, is inundated with the Truth, with milk of the heights: unstirred he ranges abroad establishing the wideness, the dappled Bull has milked out the bright udder. (SABCL, Vol. 11, p. 173)

Ṛk 11

By the Truth the Angirasas broke open and hurled asunder the hill and came to union with the Cows; human souls, they took up their dwelling Dawn, Swar became manifest when Agni was born. (SABCL, Vol. 10, p. 202)

BY the Truth the Angiras-seers broke the hill, they parted it asunder, they moved together with the Ray-Cows; men sat happily around Dawn, the Sun-world was manifested when the Fire was born. (SABCL, Vol. 11, p. 173)

Ṛk 12

By the Truth the divine and immortal, inviolate Waters with their honied floods, like a steed of swiftness pressing forward37 in its gallopings, raced ever on to their flow. (226)

By Truth the divine immortal waters, unoppressed, with their honeyed floods, O Agni, like a horse breasting forward in its gallopings ran in an eternal flowing. (SABCL, Vol. 10, p. 202)

By the Truth, divine, immortal and inviolate, the Waters with their honied floods, Fire, like a steed of swiftness pressing forward in its gallopings, recede ever on to their flow. (SABCL, Vol. 11, p. 173)

Ṛk 13

By Truth the divine immortal waters, unoppressed, with their honeyed floods, O Agni, like a horse breasting forward in its gallopings ran in an eternal flowing. (SABCL, Vol. 10, p. 202)

By the Truth, divine, immortal and inviolate, the Waters with their honied floods, Fire, like a steed of swiftness pressing forward in its gallopings, recede ever on to their flow. (SABCL, Vol. 11, p. 173)

Ṛk 14

O Fire, strong in sacrifice, protect us ever guarding us with thy keepings, taking pleasure in us; burst out in flame, break the strong evil, slay the (Rakshasa) demon even when he is increasing into greatness. (227)

Ṛk 15

O Fire, become great of mind by these hymns of illumination, by our thinkings touch these plenitudes, O heroic Flame, so take joy in the words of knowledge, O Angiras, let our speech expressing thee come close to thee, enjoyed by the gods. (227)

Ṛk 16

All these are secret words that I have uttered to thee who knowest, O Agni, O Disposer, words of leading, words of seer-knowledge that express their meaning to the seer, I have spoken them illumined in my words and my thinkings. (SABCL, Vol. 10, p. 202)

Thus have I, an illumined sage, by my thoughts and utterances spoken to thee, who knowest, O Fire, O creator, secret words of guidance, seer-wisdoms that speak out their sense to the seer. (SABCL, Vol. 11, p. 174)