Ṛk 4.3.13
Saṃhitā
मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः ।
मा भ्रातु॑रग्ने॒ अनृ॑जोर्ऋ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥
मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः |
मा भ्रातुर् अग्ने अनृजोर् ऋणं वेर् मा सख्युर् दक्षं रिपोर् भुजेम ||
mā́ kásya yakṣám sádamíddhuró gā mā́ veśásya praminató mā́péḥ ǀ
mā́ bhrā́turagne ánṛjorṛṇám vermā́ sákhyurdákṣam ripórbhujema ǁ
mā kasya yakṣaṃ sadam id dhuro gā mā veśasya praminato māpeḥ |
mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema ||
Padapāṭha
मा । कस्य॑ । य॒क्षम् । सद॑म् । इत् । हु॒रः । गाः॒ । मा । वे॒शस्य॑ । प्र॒ऽमि॒न॒तः । मा । आ॒पेः ।
मा । भ्रातुः॑ । अ॒ग्ने॒ । अनृ॑जोः । ऋ॒णम् । वेः॒ । मा । सख्युः॑ । दक्ष॑म् । रि॒पोः । भु॒जे॒म॒ ॥
मा । कस्य । यक्षम् । सदम् । इत् । हुरः । गाः । मा । वेशस्य । प्रऽमिनतः । मा । आपेः ।
मा । भ्रातुः । अग्ने । अनृजोः । ऋणम् । वेः । मा । सख्युः । दक्षम् । रिपोः । भुजेम ॥
mā́ ǀ kásya ǀ yakṣám ǀ sádam ǀ ít ǀ huráḥ ǀ gāḥ ǀ mā́ ǀ veśásya ǀ pra-minatáḥ ǀ mā́ ǀ āpéḥ ǀ
mā́ ǀ bhrā́tuḥ ǀ agne ǀ ánṛjoḥ ǀ ṛṇám ǀ veḥ ǀ mā́ ǀ sákhyuḥ ǀ dákṣam ǀ ripóḥ ǀ bhujema ǁ
mā ǀ kasya ǀ yakṣam ǀ sadam ǀ it ǀ huraḥ ǀ gāḥ ǀ mā ǀ veśasya ǀ pra-minataḥ ǀ mā ǀ āpeḥ ǀ
mā ǀ bhrātuḥ ǀ agne ǀ anṛjoḥ ǀ ṛṇam ǀ veḥ ǀ mā ǀ sakhyuḥ ǀ dakṣam ǀ ripoḥ ǀ bhujema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.003.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.22.03
- Maṇḍala · Anuvāka · Ṛk
- 04.01.053
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.