Ṛk 4.3.5
Saṃhitā
क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ ।
क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रवः॒ कद॑र्य॒म्णे कद्भगा॑य ॥
कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः |
कथा मित्राय मीऌहुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय ||
kathā́ ha tádváruṇāya tvámagne kathā́ divé garhase kánna ā́gaḥ ǀ
kathā́ mitrā́ya mīḷhúṣe pṛthivyái brávaḥ kádaryamṇé kádbhágāya ǁ
kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ |
kathā mitrāya mīḷhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya ||
Padapāṭha
क॒था । ह॒ । तत् । वरु॑णाय । त्वम् । अ॒ग्ने॒ । क॒था । दि॒वे । ग॒र्ह॒से॒ । कत् । नः॒ । आगः॑ ।
क॒था । मि॒त्राय॑ । मी॒ळ्हुषे॑ । पृ॒थि॒व्यै । ब्रवः॑ । कत् । अ॒र्य॒म्णे । कत् । भगा॑य ॥
कथा । ह । तत् । वरुणाय । त्वम् । अग्ने । कथा । दिवे । गर्हसे । कत् । नः । आगः ।
कथा । मित्राय । मीळ्हुषे । पृथिव्यै । ब्रवः । कत् । अर्यम्णे । कत् । भगाय ॥
kathā́ ǀ ha ǀ tát ǀ váruṇāya ǀ tvám ǀ agne ǀ kathā́ ǀ divé ǀ garhase ǀ kát ǀ naḥ ǀ ā́gaḥ ǀ
kathā́ ǀ mitrā́ya ǀ mīḷhúṣe ǀ pṛthivyái ǀ brávaḥ ǀ kát ǀ aryamṇé ǀ kát ǀ bhágāya ǁ
kathā ǀ ha ǀ tat ǀ varuṇāya ǀ tvam ǀ agne ǀ kathā ǀ dive ǀ garhase ǀ kat ǀ naḥ ǀ āgaḥ ǀ
kathā ǀ mitrāya ǀ mīḷhuṣe ǀ pṛthivyai ǀ bravaḥ ǀ kat ǀ aryamṇe ǀ kat ǀ bhagāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.003.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.20.05
- Maṇḍala · Anuvāka · Ṛk
- 04.01.045
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.