Ṛgveda · Maṇḍala 4

Sūkta 4

Agni Rakṣohan · Vāmadeva Gautama · 15 ṛks

Link
Devatā देवता
Agni Rakṣohan
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles bhurikpaṅkti (1, 2, 4, 5, 8); nicṛttriṣṭup (3, 10, 11, 15); triṣṭup (7, 13); virāṭtrisṭup (6); svarāṭpaṅkti (9); nicṛtpaṅkti (12); svarāḍbṛhatī (14)

2nd set of styles triṣṭubh

  1. Ṛk 1

    कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न ।
    तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥

    कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन |
    तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ||

    kṛṇuṣvá pā́jaḥ prásitim ná pṛthvī́m yāhí rā́jevā́mavām̐ íbhena ǀ
    tṛṣvī́mánu prásitim drūṇānó’stāsi vídhya rakṣásastápiṣṭhaiḥ ǁ

    kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṃ ibhena |
    tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ ||

    कृ॒णु॒ष्व । पाजः॑ । प्रऽसि॑तिम् । न । पृ॒थ्वीम् । या॒हि । राजा॑ऽइव । अम॑ऽवान् । इभे॑न ।
    तृ॒ष्वीम् । अनु॑ । प्रऽसि॑तिम् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥

    कृणुष्व । पाजः । प्रऽसितिम् । न । पृथ्वीम् । याहि । राजाऽइव । अमऽवान् । इभेन ।
    तृष्वीम् । अनु । प्रऽसितिम् । द्रूणानः । अस्ता । असि । विध्य । रक्षसः । तपिष्ठैः ॥

    kṛṇuṣvá ǀ pā́jaḥ ǀ prá-sitim ǀ ná ǀ pṛthvī́m ǀ yāhí ǀ rā́jā-iva ǀ áma-vān ǀ íbhena ǀ
    tṛṣvī́m ǀ ánu ǀ prá-sitim ǀ drūṇānáḥ ǀ ástā ǀ asi ǀ vídhya ǀ rakṣásaḥ ǀ tápiṣṭhaiḥ ǁ

    kṛṇuṣva ǀ pājaḥ ǀ pra-sitim ǀ na ǀ pṛthvīm ǀ yāhi ǀ rājā-iva ǀ ama-vān ǀ ibhena ǀ
    tṛṣvīm ǀ anu ǀ pra-sitim ǀ drūṇānaḥ ǀ astā ǀ asi ǀ vidhya ǀ rakṣasaḥ ǀ tapiṣṭhaiḥ ǁ

    4.4.1 Aṣṭaka 3.4.23.1Anuvāka 4.1.57

  2. Ṛk 2

    तव॑ भ्र॒मास॑ आशु॒या प॑तं॒त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।
    तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥

    तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः |
    तपूंष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ||

    táva bhramā́sa āśuyā́ patantyánu spṛśa dhṛṣatā́ śóśucānaḥ ǀ
    tápūṃṣyagne juhvā́ pataṃgā́násaṃdito ví sṛja víṣvagulkā́ḥ ǁ

    tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ |
    tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ ||

    तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः ।
    तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥

    तव । भ्रमासः । आशुऽया । पतन्ति । अनु । स्पृश । धृषता । शोशुचानः ।
    तपूंषि । अग्ने । जुह्वा । पतङ्गान् । असम्ऽदितः । वि । सृज । विष्वक् । उल्काः ॥

    táva ǀ bhramā́saḥ ǀ āśu-yā́ ǀ patanti ǀ ánu ǀ spṛśa ǀ dhṛṣatā́ ǀ śóśucānaḥ ǀ
    tápūṃṣi ǀ agne ǀ juhvā́ ǀ pataṅgā́n ǀ ásam-ditaḥ ǀ ví ǀ sṛja ǀ víṣvak ǀ ulkā́ḥ ǁ

    tava ǀ bhramāsaḥ ǀ āśu-yā ǀ patanti ǀ anu ǀ spṛśa ǀ dhṛṣatā ǀ śośucānaḥ ǀ
    tapūṃṣi ǀ agne ǀ juhvā ǀ pataṅgān ǀ asam-ditaḥ ǀ vi ǀ sṛja ǀ viṣvak ǀ ulkāḥ ǁ

    4.4.2 Aṣṭaka 3.4.23.2Anuvāka 4.1.58

  3. Ṛk 3

    प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
    यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अंत्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥

    प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः |
    यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ||

    práti spáśo ví sṛja tū́rṇitamo bhávā pāyúrviśó asyā́ ádabdhaḥ ǀ
    yó no dūré agháśaṃso yó ántyágne mā́kiṣṭe vyáthirā́ dadharṣīt ǁ

    prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ |
    yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt ||

    प्रति॑ । स्पशः॑ । वि । सृ॒ज॒ । तूर्णि॑ऽतमः । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः ।
    यः । नः॒ । दू॒रे । अ॒घऽशं॑सः । यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । आ । द॒ध॒र्षी॒त् ॥

    प्रति । स्पशः । वि । सृज । तूर्णिऽतमः । भव । पायुः । विशः । अस्याः । अदब्धः ।
    यः । नः । दूरे । अघऽशंसः । यः । अन्ति । अग्ने । माकिः । ते । व्यथिः । आ । दधर्षीत् ॥

    práti ǀ spáśaḥ ǀ ví ǀ sṛja ǀ tū́rṇi-tamaḥ ǀ bháva ǀ pāyúḥ ǀ viśáḥ ǀ asyā́ḥ ǀ ádabdhaḥ ǀ
    yáḥ ǀ naḥ ǀ dūré ǀ aghá-śaṃsaḥ ǀ yáḥ ǀ ánti ǀ ágne ǀ mā́kiḥ ǀ te ǀ vyáthiḥ ǀ ā́ ǀ dadharṣīt ǁ

    prati ǀ spaśaḥ ǀ vi ǀ sṛja ǀ tūrṇi-tamaḥ ǀ bhava ǀ pāyuḥ ǀ viśaḥ ǀ asyāḥ ǀ adabdhaḥ ǀ
    yaḥ ǀ naḥ ǀ dūre ǀ agha-śaṃsaḥ ǀ yaḥ ǀ anti ǀ agne ǀ mākiḥ ǀ te ǀ vyathiḥ ǀ ā ǀ dadharṣīt ǁ

    4.4.3 Aṣṭaka 3.4.23.3Anuvāka 4.1.59

  4. Ṛk 4

    उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्राँ॑ ओषतात्तिग्महेते ।
    यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्कं॑ ॥

    उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रां ओषतात् तिग्महेते |
    यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ||

    údagne tiṣṭha prátyā́ tanuṣva nyámítrām̐ oṣatāttigmahete ǀ
    yó no árātim samidhāna cakré nīcā́ tám dhakṣyatasám ná śúṣkam ǁ

    ud agne tiṣṭha praty ā tanuṣva ny amitrāṃ oṣatāt tigmahete |
    yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam ||

    उत् । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रति॑ । आ । त॒नु॒ष्व॒ । नि । अ॒मित्रा॑न् । ओ॒ष॒ता॒त् । ति॒ग्म॒ऽहे॒ते॒ ।
    यः । नः॒ । अरा॑तिम् । स॒म्ऽइ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क॑म् ॥

    उत् । अग्ने । तिष्ठ । प्रति । आ । तनुष्व । नि । अमित्रान् । ओषतात् । तिग्मऽहेते ।
    यः । नः । अरातिम् । सम्ऽइधान । चक्रे । नीचा । तम् । धक्षि । अतसम् । न । शुष्कम् ॥

    út ǀ agne ǀ tiṣṭha ǀ práti ǀ ā́ ǀ tanuṣva ǀ ní ǀ amítrān ǀ oṣatāt ǀ tigma-hete ǀ
    yáḥ ǀ naḥ ǀ árātim ǀ sam-idhāna ǀ cakré ǀ nīcā́ ǀ tám ǀ dhakṣi ǀ atasám ǀ ná ǀ śúṣkam ǁ

    ut ǀ agne ǀ tiṣṭha ǀ prati ǀ ā ǀ tanuṣva ǀ ni ǀ amitrān ǀ oṣatāt ǀ tigma-hete ǀ
    yaḥ ǀ naḥ ǀ arātim ǀ sam-idhāna ǀ cakre ǀ nīcā ǀ tam ǀ dhakṣi ǀ atasam ǀ na ǀ śuṣkam ǁ

    4.4.4 Aṣṭaka 3.4.23.4Anuvāka 4.1.60

  5. Ṛk 5

    ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।
    अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥

    ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने |
    अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि शत्रून् ||

    ūrdhvó bhava práti vidhyā́dhyasmádāvíṣkṛṇuṣva dáivyānyagne ǀ
    áva sthirā́ tanuhi yātujū́nām jāmímájāmim prá mṛṇīhi śátrūn ǁ

    ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne |
    ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn ||

    ऊ॒र्ध्वः । भ॒व॒ । प्रति॑ । वि॒ध्य॒ । अधि॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नि । अ॒ग्ने॒ ।
    अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । जा॒मिम् । अजा॑मिम् । प्र । मृ॒णी॒हि॒ । शत्रू॑न् ॥

    ऊर्ध्वः । भव । प्रति । विध्य । अधि । अस्मत् । आविः । कृणुष्व । दैव्यानि । अग्ने ।
    अव । स्थिरा । तनुहि । यातुऽजूनाम् । जामिम् । अजामिम् । प्र । मृणीहि । शत्रून् ॥

    ūrdhváḥ ǀ bhava ǀ práti ǀ vidhya ǀ ádhi ǀ asmát ǀ āvíḥ ǀ kṛṇuṣva ǀ dáivyāni ǀ agne ǀ
    áva ǀ sthirā́ ǀ tanuhi ǀ yātu-jū́nām ǀ jāmím ǀ ájāmim ǀ prá ǀ mṛṇīhi ǀ śátrūn ǁ

    ūrdhvaḥ ǀ bhava ǀ prati ǀ vidhya ǀ adhi ǀ asmat ǀ āviḥ ǀ kṛṇuṣva ǀ daivyāni ǀ agne ǀ
    ava ǀ sthirā ǀ tanuhi ǀ yātu-jūnām ǀ jāmim ǀ ajāmim ǀ pra ǀ mṛṇīhi ǀ śatrūn ǁ

    4.4.5 Aṣṭaka 3.4.23.5Anuvāka 4.1.61

  6. Ṛk 6

    स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् ।
    विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥

    स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् |
    विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ||

    sá te jānāti sumatím yaviṣṭha yá ī́vate bráhmaṇe gātúmáirat ǀ
    víśvānyasmai sudínāni rāyó dyumnā́nyaryó ví dúro abhí dyaut ǁ

    sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat |
    viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut ||

    सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ।
    विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॒त् ॥

    सः । ते । जानाति । सुऽमतिम् । यविष्ठ । यः । ईवते । ब्रह्मणे । गातुम् । ऐरत् ।
    विश्वानि । अस्मै । सुऽदिनानि । रायः । द्युम्नानि । अर्यः । वि । दुरः । अभि । द्यौत् ॥

    sáḥ ǀ te ǀ jānāti ǀ su-matím ǀ yaviṣṭha ǀ yáḥ ǀ ī́vate ǀ bráhmaṇe ǀ gātúm ǀ áirat ǀ
    víśvāni ǀ asmai ǀ su-dínāni ǀ rāyáḥ ǀ dyumnā́ni ǀ aryáḥ ǀ ví ǀ dúraḥ ǀ abhí ǀ dyaut ǁ

    saḥ ǀ te ǀ jānāti ǀ su-matim ǀ yaviṣṭha ǀ yaḥ ǀ īvate ǀ brahmaṇe ǀ gātum ǀ airat ǀ
    viśvāni ǀ asmai ǀ su-dināni ǀ rāyaḥ ǀ dyumnāni ǀ aryaḥ ǀ vi ǀ duraḥ ǀ abhi ǀ dyaut ǁ

    4.4.6 Aṣṭaka 3.4.24.1Anuvāka 4.1.62

  7. Ṛk 7

    सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
    पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥

    सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः |
    पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ||

    sédagne astu subhágaḥ sudā́nuryástvā nítyena havíṣā yá uktháiḥ ǀ
    píprīṣati svá ā́yuṣi duroṇé víśvédasmai sudínā sā́sadiṣṭíḥ ǁ

    sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ |
    piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ ||

    सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः ।
    पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥

    सः । इत् । अग्ने । अस्तु । सुऽभगः । सुऽदानुः । यः । त्वा । नित्येन । हविषा । यः । उक्थैः ।
    पिप्रीषति । स्वे । आयुषि । दुरोणे । विश्वा । इत् । अस्मै । सुऽदिना । सा । असत् । इष्टिः ॥

    sáḥ ǀ ít ǀ agne ǀ astu ǀ su-bhágaḥ ǀ su-dā́nuḥ ǀ yáḥ ǀ tvā ǀ nítyena ǀ havíṣā ǀ yáḥ ǀ uktháiḥ ǀ
    píprīṣati ǀ své ǀ ā́yuṣi ǀ duroṇé ǀ víśvā ǀ ít ǀ asmai ǀ su-dínā ǀ sā́ ǀ asat ǀ iṣṭíḥ ǁ

    saḥ ǀ it ǀ agne ǀ astu ǀ su-bhagaḥ ǀ su-dānuḥ ǀ yaḥ ǀ tvā ǀ nityena ǀ haviṣā ǀ yaḥ ǀ ukthaiḥ ǀ
    piprīṣati ǀ sve ǀ āyuṣi ǀ duroṇe ǀ viśvā ǀ it ǀ asmai ǀ su-dinā ǀ sā ǀ asat ǀ iṣṭiḥ ǁ

    4.4.7 Aṣṭaka 3.4.24.2Anuvāka 4.1.63

  8. Ṛk 8

    अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः ।
    स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥

    अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः |
    स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ||

    árcāmi te sumatím ghóṣyarvā́ksám te vāvā́tā jaratāmiyám gī́ḥ ǀ
    sváśvāstvā suráthā marjayemāsmé kṣatrā́ṇi dhārayeránu dyū́n ǁ

    arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ |
    svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn ||

    अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः ।
    सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥

    अर्चामि । ते । सुऽमतिम् । घोषि । अर्वाक् । सम् । ते । ववाता । जरताम् । इयम् । गीः ।
    सुऽअश्वाः । त्वा । सुऽरथाः । मर्जयेम । अस्मे इति । क्षत्राणि । धारयेः । अनु । द्यून् ॥

    árcāmi ǀ te ǀ su-matím ǀ ghóṣi ǀ arvā́k ǀ sám ǀ te ǀ vavā́tā ǀ jaratām ǀ iyám ǀ gī́ḥ ǀ
    su-áśvāḥ ǀ tvā ǀ su-ráthāḥ ǀ marjayema ǀ asmé íti ǀ kṣatrā́ṇi ǀ dhārayeḥ ǀ ánu ǀ dyū́n ǁ

    arcāmi ǀ te ǀ su-matim ǀ ghoṣi ǀ arvāk ǀ sam ǀ te ǀ vavātā ǀ jaratām ǀ iyam ǀ gīḥ ǀ
    su-aśvāḥ ǀ tvā ǀ su-rathāḥ ǀ marjayema ǀ asme iti ǀ kṣatrāṇi ǀ dhārayeḥ ǀ anu ǀ dyūn ǁ

    4.4.8 Aṣṭaka 3.4.24.3Anuvāka 4.1.64

  9. Ṛk 9

    इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मंदोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् ।
    क्रीळं॑तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नां ॥

    इह त्वा भूर्य् आ चरेद् उप त्मन् दोषावस्तर् दीदिवांसम् अनु द्यून् |
    क्रीऌअन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ||

    ihá tvā bhū́ryā́ caredúpa tmándóṣāvastardīdivā́ṃsamánu dyū́n ǀ
    krī́ḷantastvā sumánasaḥ sapemābhí dyumnā́ tasthivā́ṃso jánānām ǁ

    iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn |
    krīḷantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām ||

    इ॒ह । त्वा॒ । भूरि॑ । आ । च॒रे॒त् । उप॑ । त्मन् । दोषा॑ऽवस्तः । दी॒दि॒ऽवांस॑म् । अनु॑ । द्यून् ।
    क्रीळ॑न्तः । त्वा॒ । सु॒ऽमन॑सः । स॒पे॒म॒ । अ॒भि । द्यु॒म्ना । त॒स्थि॒ऽवांसः॑ । जना॑नाम् ॥

    इह । त्वा । भूरि । आ । चरेत् । उप । त्मन् । दोषाऽवस्तः । दीदिऽवांसम् । अनु । द्यून् ।
    क्रीळन्तः । त्वा । सुऽमनसः । सपेम । अभि । द्युम्ना । तस्थिऽवांसः । जनानाम् ॥

    ihá ǀ tvā ǀ bhū́ri ǀ ā́ ǀ caret ǀ úpa ǀ tmán ǀ dóṣā-vastaḥ ǀ dīdi-vā́ṃsam ǀ ánu ǀ dyū́n ǀ
    krī́ḷantaḥ ǀ tvā ǀ su-mánasaḥ ǀ sapema ǀ abhí ǀ dyumnā́ ǀ tasthi-vā́ṃsaḥ ǀ jánānām ǁ

    iha ǀ tvā ǀ bhūri ǀ ā ǀ caret ǀ upa ǀ tman ǀ doṣā-vastaḥ ǀ dīdi-vāṃsam ǀ anu ǀ dyūn ǀ
    krīḷantaḥ ǀ tvā ǀ su-manasaḥ ǀ sapema ǀ abhi ǀ dyumnā ǀ tasthi-vāṃsaḥ ǀ janānām ǁ

    4.4.9 Aṣṭaka 3.4.24.4Anuvāka 4.1.65

  10. Ṛk 10

    यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न ।
    तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥

    यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन |
    तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ||

    yástvā sváśvaḥ suhiraṇyó agna upayā́ti vásumatā ráthena ǀ
    tásya trātā́ bhavasi tásya sákhā yásta ātithyámānuṣágjújoṣat ǁ

    yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena |
    tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat ||

    यः । त्वा॒ । सु॒ऽअश्वः॑ । सु॒ऽहि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒ऽयाति॑ । वसु॑ऽमता । रथे॑न ।
    तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥

    यः । त्वा । सुऽअश्वः । सुऽहिरण्यः । अग्ने । उपऽयाति । वसुऽमता । रथेन ।
    तस्य । त्राता । भवसि । तस्य । सखा । यः । ते । आतिथ्यम् । आनुषक् । जुजोषत् ॥

    yáḥ ǀ tvā ǀ su-áśvaḥ ǀ su-hiraṇyáḥ ǀ agne ǀ upa-yā́ti ǀ vásu-matā ǀ ráthena ǀ
    tásya ǀ trātā́ ǀ bhavasi ǀ tásya ǀ sákhā ǀ yáḥ ǀ te ǀ ātithyám ǀ ānuṣák ǀ jújoṣat ǁ

    yaḥ ǀ tvā ǀ su-aśvaḥ ǀ su-hiraṇyaḥ ǀ agne ǀ upa-yāti ǀ vasu-matā ǀ rathena ǀ
    tasya ǀ trātā ǀ bhavasi ǀ tasya ǀ sakhā ǀ yaḥ ǀ te ǀ ātithyam ǀ ānuṣak ǀ jujoṣat ǁ

    4.4.10 Aṣṭaka 3.4.24.5Anuvāka 4.1.66

  11. Ṛk 11

    म॒हो रु॑जामि बं॒धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।
    त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥

    महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय |
    त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ||

    mahó rujāmi bandhútā vácobhistánmā pitúrgótamādánviyāya ǀ
    tvám no asyá vácasaścikiddhi hótaryaviṣṭha sukrato dámūnāḥ ǁ

    maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya |
    tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ ||

    म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ ।
    त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥

    महः । रुजामि । बन्धुता । वचःऽभिः । तत् । मा । पितुः । गोतमात् । अनु । इयाय ।
    त्वम् । नः । अस्य । वचसः । चिकिद्धि । होतः । यविष्ठ । सुक्रतो इति सुऽक्रतो । दमूनाः ॥

    maháḥ ǀ rujāmi ǀ bandhútā ǀ vácaḥ-bhiḥ ǀ tát ǀ mā ǀ pitúḥ ǀ gótamāt ǀ ánu ǀ iyāya ǀ
    tvám ǀ naḥ ǀ asyá ǀ vácasaḥ ǀ cikiddhi ǀ hótaḥ ǀ yaviṣṭha ǀ sukrato íti su-krato ǀ dámūnāḥ ǁ

    mahaḥ ǀ rujāmi ǀ bandhutā ǀ vacaḥ-bhiḥ ǀ tat ǀ mā ǀ pituḥ ǀ gotamāt ǀ anu ǀ iyāya ǀ
    tvam ǀ naḥ ǀ asya ǀ vacasaḥ ǀ cikiddhi ǀ hotaḥ ǀ yaviṣṭha ǀ sukrato iti su-krato ǀ damūnāḥ ǁ

    4.4.11 Aṣṭaka 3.4.25.1Anuvāka 4.1.67

  12. Ṛk 12

    अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अतं॑द्रासोऽवृ॒का अश्र॑मिष्ठाः ।
    ते पा॒यवः॑ स॒ध्र्यं॑चो नि॒षद्याग्ने॒ तव॑ नः पांत्वमूर ॥

    अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः |
    ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर ||

    ásvapnajastaráṇayaḥ suśévā átandrāso’vṛkā́ áśramiṣṭhāḥ ǀ
    té pāyávaḥ sadhryáñco niṣádyā́gne táva naḥ pāntvamūra ǁ

    asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ |
    te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra ||

    अस्व॑प्नऽजः । त॒रण॑यः । सु॒ऽशेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः ।
    ते । पा॒यवः॑ । स॒ध्र्य॑ञ्चः । नि॒ऽसद्य॑ । अ॒ग्ने॒ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥

    अस्वप्नऽजः । तरणयः । सुऽशेवाः । अतन्द्रासः । अवृकाः । अश्रमिष्ठाः ।
    ते । पायवः । सध्र्यञ्चः । निऽसद्य । अग्ने । तव । नः । पान्तु । अमूर ॥

    ásvapna-jaḥ ǀ taráṇayaḥ ǀ su-śévāḥ ǀ átandrāsaḥ ǀ avṛkā́ḥ ǀ áśramiṣṭhāḥ ǀ
    té ǀ pāyávaḥ ǀ sadhryáñcaḥ ǀ ni-sádya ǀ agne ǀ táva ǀ naḥ ǀ pāntu ǀ amūra ǁ

    asvapna-jaḥ ǀ taraṇayaḥ ǀ su-śevāḥ ǀ atandrāsaḥ ǀ avṛkāḥ ǀ aśramiṣṭhāḥ ǀ
    te ǀ pāyavaḥ ǀ sadhryañcaḥ ǀ ni-sadya ǀ agne ǀ tava ǀ naḥ ǀ pāntu ǀ amūra ǁ

    4.4.12 Aṣṭaka 3.4.25.2Anuvāka 4.1.68

  13. Ṛk 13

    ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्यं॑तो अं॒धं दु॑रि॒तादर॑क्षन् ।
    र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्सं॑त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥

    ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् |
    ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ||

    yé pāyávo māmateyám te agne páśyanto andhám duritā́dárakṣan ǀ
    rarákṣa tā́ntsukṛ́to viśvávedā dípsanta ídripávo nā́ha debhuḥ ǁ

    ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan |
    rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ ||

    ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् ।
    र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥

    ये । पायवः । मामतेयम् । ते । अग्ने । पश्यन्तः । अन्धम् । दुःऽइतात् । अरक्षन् ।
    ररक्ष । तान् । सुऽकृतः । विश्वऽवेदाः । दिप्सन्तः । इत् । रिपवः । न । अह । देभुः ॥

    yé ǀ pāyávaḥ ǀ māmateyám ǀ te ǀ agne ǀ páśyantaḥ ǀ andhám ǀ duḥ-itā́t ǀ árakṣan ǀ
    rarákṣa ǀ tā́n ǀ su-kṛ́taḥ ǀ viśvá-vedāḥ ǀ dípsantaḥ ǀ ít ǀ ripávaḥ ǀ ná ǀ áha ǀ debhuḥ ǁ

    ye ǀ pāyavaḥ ǀ māmateyam ǀ te ǀ agne ǀ paśyantaḥ ǀ andham ǀ duḥ-itāt ǀ arakṣan ǀ
    rarakṣa ǀ tān ǀ su-kṛtaḥ ǀ viśva-vedāḥ ǀ dipsantaḥ ǀ it ǀ ripavaḥ ǀ na ǀ aha ǀ debhuḥ ǁ

    4.4.13 Aṣṭaka 3.4.25.3Anuvāka 4.1.69

  14. Ṛk 14

    त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् ।
    उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥

    त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् |
    उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ||

    tváyā vayám sadhanyástvótāstáva práṇītyaśyāma vā́jān ǀ
    ubhā́ śáṃsā sūdaya satyatāte’nuṣṭhuyā́ kṛṇuhyahrayāṇa ǁ

    tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān |
    ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa ||

    त्वया॑ । व॒यम् । स॒ऽध॒न्यः॑ । त्वाऽऊ॑ताः । तव॑ । प्रऽनी॑ती । अ॒श्या॒म॒ । वाजा॑न् ।
    उ॒भा । शंसा॑ । सू॒द॒य॒ । स॒त्य॒ऽता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥

    त्वया । वयम् । सऽधन्यः । त्वाऽऊताः । तव । प्रऽनीती । अश्याम । वाजान् ।
    उभा । शंसा । सूदय । सत्यऽताते । अनुष्ठुया । कृणुहि । अह्रयाण ॥

    tváyā ǀ vayám ǀ sa-dhanyáḥ ǀ tvā́-ūtāḥ ǀ táva ǀ prá-nītī ǀ aśyāma ǀ vā́jān ǀ
    ubhā́ ǀ śáṃsā ǀ sūdaya ǀ satya-tāte ǀ anuṣṭhuyā́ ǀ kṛṇuhi ǀ ahrayāṇa ǁ

    tvayā ǀ vayam ǀ sa-dhanyaḥ ǀ tvā-ūtāḥ ǀ tava ǀ pra-nītī ǀ aśyāma ǀ vājān ǀ
    ubhā ǀ śaṃsā ǀ sūdaya ǀ satya-tāte ǀ anuṣṭhuyā ǀ kṛṇuhi ǀ ahrayāṇa ǁ

    4.4.14 Aṣṭaka 3.4.25.4Anuvāka 4.1.70

  15. Ṛk 15

    अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय ।
    दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य१॒॑स्मांद्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥

    अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय |
    दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ||

    ayā́ te agne samídhā vidhema práti stómam śasyámānam gṛbhāya ǀ
    dáhāśáso rakṣásaḥ pāhyásmā́ndruhó nidó mitramaho avadyā́t ǁ

    ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya |
    dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt ||

    अ॒या । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ ।
    दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒ऽम॒हः॒ । अ॒व॒द्यात् ॥

    अया । ते । अग्ने । सम्ऽइधा । विधेम । प्रति । स्तोमम् । शस्यमानम् । गृभाय ।
    दह । अशसः । रक्षसः । पाहि । अस्मान् । द्रुहः । निदः । मित्रऽमहः । अवद्यात् ॥

    ayā́ ǀ te ǀ agne ǀ sam-ídhā ǀ vidhema ǀ práti ǀ stómam ǀ śasyámānam ǀ gṛbhāya ǀ
    dáha ǀ aśásaḥ ǀ rakṣásaḥ ǀ pāhí ǀ asmā́n ǀ druháḥ ǀ nidáḥ ǀ mitra-mahaḥ ǀ avadyā́t ǁ

    ayā ǀ te ǀ agne ǀ sam-idhā ǀ vidhema ǀ prati ǀ stomam ǀ śasyamānam ǀ gṛbhāya ǀ
    daha ǀ aśasaḥ ǀ rakṣasaḥ ǀ pāhi ǀ asmān ǀ druhaḥ ǀ nidaḥ ǀ mitra-mahaḥ ǀ avadyāt ǁ

    4.4.15 Aṣṭaka 3.4.25.5Anuvāka 4.1.71

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.4 · Agni Rakṣohan

Interpretations

Sri Aurobindo

Ṛk 1

Make thy mass like a wide marching, go like a king full of strength with his following, running in the rapid passage of thy march; thou art the Archer, pierce the demons with thy most burning shafts. (227)

Ṛk 2

Swiftly rush thy wanderings; blazing up follow and touch with thy violence; O Fire, spread by thy tongue thy burning heats and thy winged sparks; unleashed, scatter on every side thy meteors. (228)

Ṛk 3

Swiftest to act, spread abroad thy scouts to their places, and become the indomitable protector of this being: he who would bring evil by speech against us from afar or one from near, let not any such bringer of anguish do violence to thee, O Fire! (228)

Ṛk 4

Arise, O Fire, spread out towards us, consume utterly the unfriendly, O sharp-missiled Flame; O high-kindled! Whoever has done enmity against us burn him down like a dry log. (228)

Ṛk 5

High-uplifted be, piercing through reveal in us the things divine, O Fire; lay low what the demon forces42 have established: companion or single, crush the foe. (228)

Ṛk 6

He knows thy right-mindedness, O youngest of the Gods, who hastens the journey43 for the Word in its march. For him the high doer of works has made to shine about his doors all brightnesses of the day, all treasures and splendours of the light. (229)

Ṛk 7

May he, O Fire, be fortunate and munificent who with the eternal offering, who with his utterances, seeks to satisfy thee in his own life, in his gated house; may there be for him all brightnesses of the day, may such be his sacrificing.44 (229)

Ṛk 8

I make to shine thy right thought in me, may this word diffused in its peal approach close to thee. Rich in horses and chariots may we make all bright and pure for thee, mayst thou hold up thy mights in us from day to day.

Ṛk 9

Here in this world should one largely act from one’s self in the presence of thee as day by day thou shinest out in morn and in dusk: right-minded may we touch thee as we play, taking our stand on the luminous inspirations45 of men. (229)

Ṛk 10

He who comes to thee, O Fire, with strong horses, with fine gold, with his chariot full of riches, thou becomest his deliverer, his friend and comrade,—he who takes joy in thy uninterrupted guesthood. (230)

Ṛk 11

I break great ones by my words, by my friendship with thee; that came down to me from Gotama, my father: domiciled in the house do thou become conscious of this word of ours, O youngest God! O priest of the call! O strong Will! (230)

Ṛk 12

Undreaming, ever in movement, blissful, undrowsing, untorn, untired may thy guardian powers sitting linked together guard us, O thou untouched by ignorance, O Fire! (230)

Ṛk 13

Thy guardian powers, O Fire, which protected the son of Mamata from evil, for they saw and he was blind, the Omniscient guarded them in their good work; the foe who would have hurt him could not hurt. (230)

Ṛk 14

By thee as thy companions, guarded by thee, by thy leading, may we win the plenitudes; impel to their way both annunciations, O builder of Truth: straightway, confident, create. (230)

Ṛk 15

With the fuel may we do thee worship, O Fire, accept the hymn which we utter, burn the demons who speak not the word of blessing, guard us from the doer of harm, from the censurer and his blame, O friendly Light! (231)