Ṛk 4.4.8
Saṃhitā
अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः ।
स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥
अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः |
स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ||
árcāmi te sumatím ghóṣyarvā́ksám te vāvā́tā jaratāmiyám gī́ḥ ǀ
sváśvāstvā suráthā marjayemāsmé kṣatrā́ṇi dhārayeránu dyū́n ǁ
arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ |
svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn ||
Padapāṭha
अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः ।
सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥
अर्चामि । ते । सुऽमतिम् । घोषि । अर्वाक् । सम् । ते । ववाता । जरताम् । इयम् । गीः ।
सुऽअश्वाः । त्वा । सुऽरथाः । मर्जयेम । अस्मे इति । क्षत्राणि । धारयेः । अनु । द्यून् ॥
árcāmi ǀ te ǀ su-matím ǀ ghóṣi ǀ arvā́k ǀ sám ǀ te ǀ vavā́tā ǀ jaratām ǀ iyám ǀ gī́ḥ ǀ
su-áśvāḥ ǀ tvā ǀ su-ráthāḥ ǀ marjayema ǀ asmé íti ǀ kṣatrā́ṇi ǀ dhārayeḥ ǀ ánu ǀ dyū́n ǁ
arcāmi ǀ te ǀ su-matim ǀ ghoṣi ǀ arvāk ǀ sam ǀ te ǀ vavātā ǀ jaratām ǀ iyam ǀ gīḥ ǀ
su-aśvāḥ ǀ tvā ǀ su-rathāḥ ǀ marjayema ǀ asme iti ǀ kṣatrāṇi ǀ dhārayeḥ ǀ anu ǀ dyūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.004.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.24.03
- Maṇḍala · Anuvāka · Ṛk
- 04.01.064
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.