Ṛk 4.4.7
Saṃhitā
सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥
सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः |
पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ||
sédagne astu subhágaḥ sudā́nuryástvā nítyena havíṣā yá uktháiḥ ǀ
píprīṣati svá ā́yuṣi duroṇé víśvédasmai sudínā sā́sadiṣṭíḥ ǁ
sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ |
piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ ||
Padapāṭha
सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः ।
पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥
सः । इत् । अग्ने । अस्तु । सुऽभगः । सुऽदानुः । यः । त्वा । नित्येन । हविषा । यः । उक्थैः ।
पिप्रीषति । स्वे । आयुषि । दुरोणे । विश्वा । इत् । अस्मै । सुऽदिना । सा । असत् । इष्टिः ॥
sáḥ ǀ ít ǀ agne ǀ astu ǀ su-bhágaḥ ǀ su-dā́nuḥ ǀ yáḥ ǀ tvā ǀ nítyena ǀ havíṣā ǀ yáḥ ǀ uktháiḥ ǀ
píprīṣati ǀ své ǀ ā́yuṣi ǀ duroṇé ǀ víśvā ǀ ít ǀ asmai ǀ su-dínā ǀ sā́ ǀ asat ǀ iṣṭíḥ ǁ
saḥ ǀ it ǀ agne ǀ astu ǀ su-bhagaḥ ǀ su-dānuḥ ǀ yaḥ ǀ tvā ǀ nityena ǀ haviṣā ǀ yaḥ ǀ ukthaiḥ ǀ
piprīṣati ǀ sve ǀ āyuṣi ǀ duroṇe ǀ viśvā ǀ it ǀ asmai ǀ su-dinā ǀ sā ǀ asat ǀ iṣṭiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.004.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.24.02
- Maṇḍala · Anuvāka · Ṛk
- 04.01.063
- Devatā देवता
- Agni Rakṣohan
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.