Sūkta 44
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Ajamīḷha Sauhotra; Purumīḷha Sauhotra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 6, 7); triṣṭup (2); bhurikpaṅkti (4); virāṭtrisṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः ।
यः सू॒र्यां वह॑ति वंधुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युं ॥तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना संगतिं गोः |
यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं वसूयुम् ||tám vām rátham vayámadyā́ huvema pṛthujráyamaśvinā sáṃgatim góḥ ǀ
yáḥ sūryā́m váhati vandhurāyúrgírvāhasam purutámam vasūyúm ǁtaṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ |
yaḥ sūryāṃ vahati vandhurāyur girvāhasam purutamaṃ vasūyum ||तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । पृ॒थु॒ऽज्रय॑म् । अ॒श्वि॒ना॒ । सम्ऽग॑तिम् । गोः ।
यः । सू॒र्याम् । वह॑ति । व॒न्धु॒र॒ऽयुः । गिर्वा॑हसम् । पु॒रु॒ऽतम॑म् । व॒सु॒ऽयुम् ॥तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । पृथुऽज्रयम् । अश्विना । सम्ऽगतिम् । गोः ।
यः । सूर्याम् । वहति । वन्धुरऽयुः । गिर्वाहसम् । पुरुऽतमम् । वसुऽयुम् ॥tám ǀ vām ǀ rátham ǀ vayám ǀ adyá ǀ huvema ǀ pṛthu-jráyam ǀ aśvinā ǀ sám-gatim ǀ góḥ ǀ
yáḥ ǀ sūryā́m ǀ váhati ǀ vandhura-yúḥ ǀ gírvāhasam ǀ puru-támam ǀ vasu-yúm ǁtam ǀ vām ǀ ratham ǀ vayam ǀ adya ǀ huvema ǀ pṛthu-jrayam ǀ aśvinā ǀ sam-gatim ǀ goḥ ǀ
yaḥ ǀ sūryām ǀ vahati ǀ vandhura-yuḥ ǀ girvāhasam ǀ puru-tamam ǀ vasu-yum ǁ4.44.1 Aṣṭaka 3.7.20.1Anuvāka 4.4.98
-
Ṛk 2
यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः ।
यु॒वोर्वपु॑र॒भि पृक्षः॑ सचंते॒ वहं॑ति॒ यत्क॑कु॒हासो॒ रथे॑ वां ॥युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः शचीभिः |
युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम् ||yuvám śríyamaśvinā devátā tā́m dívo napātā vanathaḥ śácībhiḥ ǀ
yuvórvápurabhí pṛ́kṣaḥ sacante váhanti yátkakuhā́so ráthe vām ǁyuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ |
yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām ||यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः ।
यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥युवम् । श्रियम् । अश्विना । देवता । तान् । दिवः । नपाता । वनथः । शचीभिः ।
युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम् ॥yuvám ǀ śríyam ǀ aśvinā ǀ devátā ǀ tā́n ǀ dívaḥ ǀ napātā ǀ vanathaḥ ǀ śácībhiḥ ǀ
yuvóḥ ǀ vápuḥ ǀ abhí ǀ pṛ́kṣaḥ ǀ sacante ǀ váhanti ǀ yát ǀ kakuhā́saḥ ǀ ráthe ǀ vām ǁyuvam ǀ śriyam ǀ aśvinā ǀ devatā ǀ tān ǀ divaḥ ǀ napātā ǀ vanathaḥ ǀ śacībhiḥ ǀ
yuvoḥ ǀ vapuḥ ǀ abhi ǀ pṛkṣaḥ ǀ sacante ǀ vahanti ǀ yat ǀ kakuhāsaḥ ǀ rathe ǀ vām ǁ4.44.2 Aṣṭaka 3.7.20.2Anuvāka 4.4.99
-
Ṛk 3
को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः ।
ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः |
ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ||kó vāmadyā́ karate rātáhavya ūtáye vā sutapéyāya vārkáiḥ ǀ
ṛtásya vā vanúṣe pūrvyā́ya námo yemānó aśvinā́ vavartat ǁko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ |
ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat ||कः । वा॒म् । अ॒द्य । क॒र॒ते॒ । रा॒तऽह॑व्यः । ऊ॒तये॑ । वा॒ । सु॒त॒ऽपेया॑य । वा॒ । अ॒र्कैः ।
ऋ॒तस्य॑ । वा॒ । व॒नुषे॑ । पू॒र्व्याय॑ । नमः॑ । ये॒मा॒नः । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥कः । वाम् । अद्य । करते । रातऽहव्यः । ऊतये । वा । सुतऽपेयाय । वा । अर्कैः ।
ऋतस्य । वा । वनुषे । पूर्व्याय । नमः । येमानः । अश्विना । आ । ववर्तत् ॥káḥ ǀ vām ǀ adyá ǀ karate ǀ rātá-havyaḥ ǀ ūtáye ǀ vā ǀ suta-péyāya ǀ vā ǀ arkáiḥ ǀ
ṛtásya ǀ vā ǀ vanúṣe ǀ pūrvyā́ya ǀ námaḥ ǀ yemānáḥ ǀ aśvinā ǀ ā́ ǀ vavartat ǁkaḥ ǀ vām ǀ adya ǀ karate ǀ rāta-havyaḥ ǀ ūtaye ǀ vā ǀ suta-peyāya ǀ vā ǀ arkaiḥ ǀ
ṛtasya ǀ vā ǀ vanuṣe ǀ pūrvyāya ǀ namaḥ ǀ yemānaḥ ǀ aśvinā ǀ ā ǀ vavartat ǁ4.44.3 Aṣṭaka 3.7.20.3Anuvāka 4.4.100
-
Ṛk 4
हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातं ।
पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् |
पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ||hiraṇyáyena purubhū ráthenemám yajñám nāsatyópa yātam ǀ
píbātha ínmádhunaḥ somyásya dádhatho rátnam vidhaté jánāya ǁhiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam |
pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya ||हि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।
पिबा॑थः । इत् । मधु॑नः । सो॒म्यस्य॑ । दध॑थः । रत्न॑म् । वि॒ध॒ते । जना॑य ॥हिरण्ययेन । पुरुभू इति पुरुऽभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् ।
पिबाथः । इत् । मधुनः । सोम्यस्य । दधथः । रत्नम् । विधते । जनाय ॥hiraṇyáyena ǀ purubhū íti puru-bhū ǀ ráthena ǀ imám ǀ yajñám ǀ nāsatyā ǀ úpa ǀ yātam ǀ
píbāthaḥ ǀ ít ǀ mádhunaḥ ǀ somyásya ǀ dádhathaḥ ǀ rátnam ǀ vidhaté ǀ jánāya ǁhiraṇyayena ǀ purubhū iti puru-bhū ǀ rathena ǀ imam ǀ yajñam ǀ nāsatyā ǀ upa ǀ yātam ǀ
pibāthaḥ ǀ it ǀ madhunaḥ ǀ somyasya ǀ dadhathaḥ ǀ ratnam ǀ vidhate ǀ janāya ǁ4.44.4 Aṣṭaka 3.7.20.4Anuvāka 4.4.101
-
Ṛk 5
आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न ।
मा वा॑म॒न्ये नि य॑मंदेव॒यंतः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वां॑ ॥आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन |
मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या वाम् ||ā́ no yātam divó ácchā pṛthivyā́ hiraṇyáyena suvṛ́tā ráthena ǀ
mā́ vāmanyé ní yamandevayántaḥ sám yáddadé nā́bhiḥ pūrvyā́ vām ǁā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena |
mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām ||आ । नः॒ । या॒त॒म् । दि॒वः । अच्छ॑ । पृ॒थि॒व्याः । हि॒र॒ण्यये॑न । सु॒ऽवृता॑ । रथे॑न ।
मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ । सम् । यत् । द॒दे । नाभिः॑ । पू॒र्व्या । वा॒म् ॥आ । नः । यातम् । दिवः । अच्छ । पृथिव्याः । हिरण्ययेन । सुऽवृता । रथेन ।
मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः । सम् । यत् । ददे । नाभिः । पूर्व्या । वाम् ॥ā́ ǀ naḥ ǀ yātam ǀ diváḥ ǀ áccha ǀ pṛthivyā́ḥ ǀ hiraṇyáyena ǀ su-vṛ́tā ǀ ráthena ǀ
mā́ ǀ vām ǀ anyé ǀ ní ǀ yaman ǀ deva-yántaḥ ǀ sám ǀ yát ǀ dadé ǀ nā́bhiḥ ǀ pūrvyā́ ǀ vām ǁā ǀ naḥ ǀ yātam ǀ divaḥ ǀ accha ǀ pṛthivyāḥ ǀ hiraṇyayena ǀ su-vṛtā ǀ rathena ǀ
mā ǀ vām ǀ anye ǀ ni ǀ yaman ǀ deva-yantaḥ ǀ sam ǀ yat ǀ dade ǀ nābhiḥ ǀ pūrvyā ǀ vām ǁ4.44.5 Aṣṭaka 3.7.20.5Anuvāka 4.4.102
-
Ṛk 6
नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हंतं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे ।
नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ळ्हासो॑ अग्मन् ॥नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व् अस्मे |
नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीऌहासो अग्मन् ||nū́ no rayím puruvī́ram bṛhántam dásrā mímāthāmubháyeṣvasmé ǀ
náro yádvāmaśvinā stómamā́vantsadhástutimājamīḷhā́so agman ǁnū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme |
naro yad vām aśvinā stomam āvan sadhastutim ājamīḷhāso agman ||नु । नः॒ । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । दस्रा॑ । मिमा॑थाम् । उ॒भये॑षु । अ॒स्मे इति॑ ।
नरः॑ । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् । आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमी॒ळ्हासः॑ । अ॒ग्म॒न् ॥नु । नः । रयिम् । पुरुऽवीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति ।
नरः । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधऽस्तुतिम् । आजऽमीळ्हासः । अग्मन् ॥nú ǀ naḥ ǀ rayím ǀ puru-vī́ram ǀ bṛhántam ǀ dásrā ǀ mímāthām ǀ ubháyeṣu ǀ asmé íti ǀ
náraḥ ǀ yát ǀ vām ǀ aśvinā ǀ stómam ǀ ā́van ǀ sadhá-stutim ǀ āja-mīḷhā́saḥ ǀ agman ǁnu ǀ naḥ ǀ rayim ǀ puru-vīram ǀ bṛhantam ǀ dasrā ǀ mimāthām ǀ ubhayeṣu ǀ asme iti ǀ
naraḥ ǀ yat ǀ vām ǀ aśvinā ǀ stomam ǀ āvan ǀ sadha-stutim ǀ āja-mīḷhāsaḥ ǀ agman ǁ4.44.6 Aṣṭaka 3.7.20.6Anuvāka 4.4.103
-
Ṛk 7
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना |
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ||ihéha yádvām samanā́ papṛkṣé séyámasmé sumatírvājaratnā ǀ
uruṣyátam jaritā́ram yuvám ha śritáḥ kā́mo nāsatyā yuvadrík ǁiheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।
उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुऽमतिः । वाजऽरत्ना ।
उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥ihá-iha ǀ yát ǀ vām ǀ samanā́ ǀ papṛkṣé ǀ sā́ ǀ iyám ǀ asmé íti ǀ su-matíḥ ǀ vāja-ratnā ǀ
uruṣyátam ǀ jaritā́ram ǀ yuvám ǀ ha ǀ śritáḥ ǀ kā́maḥ ǀ nāsatyā ǀ yuvadrík ǁiha-iha ǀ yat ǀ vām ǀ samanā ǀ papṛkṣe ǀ sā ǀ iyam ǀ asme iti ǀ su-matiḥ ǀ vāja-ratnā ǀ
uruṣyatam ǀ jaritāram ǀ yuvam ǀ ha ǀ śritaḥ ǀ kāmaḥ ǀ nāsatyā ǀ yuvadrik ǁ4.44.7 Aṣṭaka 3.7.20.7Anuvāka 4.4.104
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.