Ṛgveda · Maṇḍala 5

Sūkta 1

Agni · Budha Ātreya; Gaviṣṭhira Ātreya · 12 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Budha Ātreya; Gaviṣṭhira Ātreya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 3, 4, 6, 11, 12); triṣṭup (2, 7, 10); svarāṭpaṅkti (5, 8); paṅktiḥ (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षासं॑ ।
    य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥

    अबोध्य् अग्निः समिधा जनानाम् प्रति धेनुम् इवायतीम् उषासम् |
    यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ||

    ábodhyagníḥ samídhā jánānām práti dhenúmivāyatī́muṣā́sam ǀ
    yahvā́ iva prá vayā́mujjíhānāḥ prá bhānávaḥ sisrate nā́kamáccha ǁ

    abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam |
    yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha ||

    अबो॑धि । अ॒ग्निः । स॒म्ऽइधा॑ । जना॑नाम् । प्रति॑ । धे॒नुम्ऽइ॑व । आ॒ऽय॒तीम् । उ॒षस॑म् ।
    य॒ह्वाःऽइ॑व । प्र । व॒याम् । उ॒त्ऽजिहा॑नाः । प्र । भा॒नवः॑ । सि॒स्र॒ते॒ । नाक॑म् । अच्छ॑ ॥

    अबोधि । अग्निः । सम्ऽइधा । जनानाम् । प्रति । धेनुम्ऽइव । आऽयतीम् । उषसम् ।
    यह्वाःऽइव । प्र । वयाम् । उत्ऽजिहानाः । प्र । भानवः । सिस्रते । नाकम् । अच्छ ॥

    ábodhi ǀ agníḥ ǀ sam-ídhā ǀ jánānām ǀ práti ǀ dhenúm-iva ǀ ā-yatī́m ǀ uṣásam ǀ
    yahvā́ḥ-iva ǀ prá ǀ vayā́m ǀ ut-jíhānāḥ ǀ prá ǀ bhānávaḥ ǀ sisrate ǀ nā́kam ǀ áccha ǁ

    abodhi ǀ agniḥ ǀ sam-idhā ǀ janānām ǀ prati ǀ dhenum-iva ǀ ā-yatīm ǀ uṣasam ǀ
    yahvāḥ-iva ǀ pra ǀ vayām ǀ ut-jihānāḥ ǀ pra ǀ bhānavaḥ ǀ sisrate ǀ nākam ǀ accha ǁ

    5.1.1 Aṣṭaka 3.8.12.1Anuvāka 5.1.1

  2. Ṛk 2

    अबो॑धि॒ होता॑ य॒जथा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मनाः॑ प्रा॒तर॑स्थात् ।
    समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो॑ म॒हांदे॒वस्तम॑सो॒ निर॑मोचि ॥

    अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् |
    समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निर् अमोचि ||

    ábodhi hótā yajáthāya devā́nūrdhvó agníḥ sumánāḥ prātárasthāt ǀ
    sámiddhasya rúśadadarśi pā́jo mahā́ndevástámaso níramoci ǁ

    abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt |
    samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci ||

    अबो॑धि । होता॑ । य॒जथा॑य । दे॒वान् । ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽमनाः॑ । प्रा॒तः । अ॒स्था॒त् ।
    सम्ऽइ॑द्धस्य । रुश॑त् । अ॒द॒र्शि॒ । पाजः॑ । म॒हान् । दे॒वः । तम॑सः । निः । अ॒मो॒चि॒ ॥

    अबोधि । होता । यजथाय । देवान् । ऊर्ध्वः । अग्निः । सुऽमनाः । प्रातः । अस्थात् ।
    सम्ऽइद्धस्य । रुशत् । अदर्शि । पाजः । महान् । देवः । तमसः । निः । अमोचि ॥

    ábodhi ǀ hótā ǀ yajáthāya ǀ devā́n ǀ ūrdhváḥ ǀ agníḥ ǀ su-mánāḥ ǀ prātáḥ ǀ asthāt ǀ
    sám-iddhasya ǀ rúśat ǀ adarśi ǀ pā́jaḥ ǀ mahā́n ǀ deváḥ ǀ támasaḥ ǀ níḥ ǀ amoci ǁ

    abodhi ǀ hotā ǀ yajathāya ǀ devān ǀ ūrdhvaḥ ǀ agniḥ ǀ su-manāḥ ǀ prātaḥ ǀ asthāt ǀ
    sam-iddhasya ǀ ruśat ǀ adarśi ǀ pājaḥ ǀ mahān ǀ devaḥ ǀ tamasaḥ ǀ niḥ ǀ amoci ǁ

    5.1.2 Aṣṭaka 3.8.12.2Anuvāka 5.1.2

  3. Ṛk 3

    यदीं॑ ग॒णस्य॑ रश॒नामजी॑गः॒ शुचि॑रंक्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः ।
    आद्दक्षि॑णा युज्यते वाज॒यंत्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभिः॑ ॥

    यद् ईं गणस्य रशनाम् अजीगः शुचिर् अङ्क्ते शुचिभिर् गोभिर् अग्निः |
    आद् दक्षिणा युज्यते वाजयन्त्य् उत्तानाम् ऊर्ध्वो अधयज् जुहूभिः ||

    yádīm gaṇásya raśanā́májīgaḥ śúciraṅkte śúcibhirgóbhiragníḥ ǀ
    ā́ddákṣiṇā yujyate vājayántyuttānā́mūrdhvó adhayajjuhū́bhiḥ ǁ

    yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ |
    ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ ||

    यत् । ई॒म् । ग॒णस्य॑ । र॒श॒नाम् । अजी॑ग॒रिति॑ । शुचिः॑ । अ॒ङ्क्ते॒ । शुचि॑ऽभिः । गोभिः॑ । अ॒ग्निः ।
    आत् । दक्षि॑णा । यु॒ज्य॒ते॒ । वा॒ज॒ऽयन्ती॑ । उ॒त्ता॒नाम् । ऊ॒र्ध्वः । अ॒ध॒य॒त् । जु॒हूभिः॑ ॥

    यत् । ईम् । गणस्य । रशनाम् । अजीगरिति । शुचिः । अङ्क्ते । शुचिऽभिः । गोभिः । अग्निः ।
    आत् । दक्षिणा । युज्यते । वाजऽयन्ती । उत्तानाम् । ऊर्ध्वः । अधयत् । जुहूभिः ॥

    yát ǀ īm ǀ gaṇásya ǀ raśanā́m ǀ ájīgaríti ǀ śúciḥ ǀ aṅkte ǀ śúci-bhiḥ ǀ góbhiḥ ǀ agníḥ ǀ
    ā́t ǀ dákṣiṇā ǀ yujyate ǀ vāja-yántī ǀ uttānā́m ǀ ūrdhváḥ ǀ adhayat ǀ juhū́bhiḥ ǁ

    yat ǀ īm ǀ gaṇasya ǀ raśanām ǀ ajīgariti ǀ śuciḥ ǀ aṅkte ǀ śuci-bhiḥ ǀ gobhiḥ ǀ agniḥ ǀ
    āt ǀ dakṣiṇā ǀ yujyate ǀ vāja-yantī ǀ uttānām ǀ ūrdhvaḥ ǀ adhayat ǀ juhūbhiḥ ǁ

    5.1.3 Aṣṭaka 3.8.12.3Anuvāka 5.1.3

  4. Ṛk 4

    अ॒ग्निमच्छा॑ देवय॒तां मनां॑सि॒ चक्षूं॑षीव॒ सूर्ये॒ सं च॑रंति ।
    यदीं॒ सुवा॑ते उ॒षसा॒ विरू॑पे श्वे॒तो वा॒जी जा॑यते॒ अग्रे॒ अह्नां॑ ॥

    अग्निम् अच्छा देवयताम् मनांसि चक्षूंषीव सूर्ये सं चरन्ति |
    यद् ईं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ||

    agnímácchā devayatā́m mánāṃsi cákṣūṃṣīva sū́rye sám caranti ǀ
    yádīm súvāte uṣásā vírūpe śvetó vājī́ jāyate ágre áhnām ǁ

    agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti |
    yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām ||

    अ॒ग्निम् । अच्छ॑ । दे॒व॒ऽय॒ताम् । मनां॑सि । चक्षूं॑षिऽइव । सूर्ये॑ । सम् । च॒र॒न्ति॒ ।
    यत् । ई॒म् । सुवा॑ते॒ इति॑ । उ॒षसा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । श्वे॒तः । वा॒जी । जा॒य॒ते॒ । अग्रे॑ । अह्ना॑म् ॥

    अग्निम् । अच्छ । देवऽयताम् । मनांसि । चक्षूंषिऽइव । सूर्ये । सम् । चरन्ति ।
    यत् । ईम् । सुवाते इति । उषसा । विरूपे इति विऽरूपे । श्वेतः । वाजी । जायते । अग्रे । अह्नाम् ॥

    agním ǀ áccha ǀ deva-yatā́m ǀ mánāṃsi ǀ cákṣūṃṣi-iva ǀ sū́rye ǀ sám ǀ caranti ǀ
    yát ǀ īm ǀ súvāte íti ǀ uṣásā ǀ vírūpe íti ví-rūpe ǀ śvetáḥ ǀ vājī́ ǀ jāyate ǀ ágre ǀ áhnām ǁ

    agnim ǀ accha ǀ deva-yatām ǀ manāṃsi ǀ cakṣūṃṣi-iva ǀ sūrye ǀ sam ǀ caranti ǀ
    yat ǀ īm ǀ suvāte iti ǀ uṣasā ǀ virūpe iti vi-rūpe ǀ śvetaḥ ǀ vājī ǀ jāyate ǀ agre ǀ ahnām ǁ

    5.1.4 Aṣṭaka 3.8.12.4Anuvāka 5.1.4

  5. Ṛk 5

    जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु ।
    दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥

    जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु |
    दमे-दमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ||

    jániṣṭa hí jényo ágre áhnām hitó hitéṣvaruṣó váneṣu ǀ
    dámedame saptá rátnā dádhāno’gnírhótā ní ṣasādā yájīyān ǁ

    janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu |
    dame-dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān ||

    जनि॑ष्ट । हि । जेन्यः॑ । अग्रे॑ । अह्ना॑म् । हि॒तः । हि॒तेषु॑ । अ॒रु॒षः । वने॑षु ।
    दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑नः । अ॒ग्निः । होता॑ । नि । स॒सा॒द॒ । यजी॑यान् ॥

    जनिष्ट । हि । जेन्यः । अग्रे । अह्नाम् । हितः । हितेषु । अरुषः । वनेषु ।
    दमेऽदमे । सप्त । रत्ना । दधानः । अग्निः । होता । नि । ससाद । यजीयान् ॥

    jániṣṭa ǀ hí ǀ jényaḥ ǀ ágre ǀ áhnām ǀ hitáḥ ǀ hitéṣu ǀ aruṣáḥ ǀ váneṣu ǀ
    dáme-dame ǀ saptá ǀ rátnā ǀ dádhānaḥ ǀ agníḥ ǀ hótā ǀ ní ǀ sasāda ǀ yájīyān ǁ

    janiṣṭa ǀ hi ǀ jenyaḥ ǀ agre ǀ ahnām ǀ hitaḥ ǀ hiteṣu ǀ aruṣaḥ ǀ vaneṣu ǀ
    dame-dame ǀ sapta ǀ ratnā ǀ dadhānaḥ ǀ agniḥ ǀ hotā ǀ ni ǀ sasāda ǀ yajīyān ǁ

    5.1.5 Aṣṭaka 3.8.12.5Anuvāka 5.1.5

  6. Ṛk 6

    अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के ।
    युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥

    अग्निर् होता न्य् असीदद् यजीयान् उपस्थे मातुः सुरभा उ लोके |
    युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ||

    agnírhótā nyásīdadyájīyānupásthe mātúḥ surabhā́ u loké ǀ
    yúvā kavíḥ puruniṣṭhá ṛtā́vā dhartā́ kṛṣṭīnā́mutá mádhya iddháḥ ǁ

    agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke |
    yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ ||

    अ॒ग्निः । होता॑ । नि । अ॒सी॒द॒त् । यजी॑यान् । उ॒पऽस्थे॑ । मा॒तुः । सु॒र॒भौ । ऊं॒ इति॑ । लो॒के ।
    युवा॑ । क॒विः । पु॒रु॒निः॒ऽस्थः । ऋ॒तऽवा॑ । ध॒र्ता । कृ॒ष्टी॒नाम् । उ॒त । मध्ये॑ । इ॒द्धः ॥

    अग्निः । होता । नि । असीदत् । यजीयान् । उपऽस्थे । मातुः । सुरभौ । ऊं इति । लोके ।
    युवा । कविः । पुरुनिःऽस्थः । ऋतऽवा । धर्ता । कृष्टीनाम् । उत । मध्ये । इद्धः ॥

    agníḥ ǀ hótā ǀ ní ǀ asīdat ǀ yájīyān ǀ upá-sthe ǀ mātúḥ ǀ surabháu ǀ ūṃ íti ǀ loké ǀ
    yúvā ǀ kavíḥ ǀ puruniḥ-stháḥ ǀ ṛtá-vā ǀ dhartā́ ǀ kṛṣṭīnā́m ǀ utá ǀ mádhye ǀ iddháḥ ǁ

    agniḥ ǀ hotā ǀ ni ǀ asīdat ǀ yajīyān ǀ upa-sthe ǀ mātuḥ ǀ surabhau ǀ ūṃ iti ǀ loke ǀ
    yuvā ǀ kaviḥ ǀ puruniḥ-sthaḥ ǀ ṛta-vā ǀ dhartā ǀ kṛṣṭīnām ǀ uta ǀ madhye ǀ iddhaḥ ǁ

    5.1.6 Aṣṭaka 3.8.12.6Anuvāka 5.1.6

  7. Ṛk 7

    प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः ।
    आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजंति वा॒जिनं॑ घृ॒तेन॑ ॥

    प्र णु त्यं विप्रम् अध्वरेषु साधुम् अग्निं होतारम् ईऌअते नमोभिः |
    आ यस् ततान रोदसी ऋतेन नित्यम् मृजन्ति वाजिनं घृतेन ||

    prá ṇú tyám vípramadhvaréṣu sādhúmagním hótāramīḷate námobhiḥ ǀ
    ā́ yástatā́na ródasī ṛténa nítyam mṛjanti vājínam ghṛténa ǁ

    pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḷate namobhiḥ |
    ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena ||

    प्र । नु । त्यम् । विप्र॑म् । अ॒ध्व॒रेषु॑ । सा॒धुम् । अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । नमः॑ऽभिः ।
    आ । यः । त॒तान॑ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । नित्य॑म् । मृ॒ज॒न्ति॒ । वा॒जिन॑म् । घृ॒तेन॑ ॥

    प्र । नु । त्यम् । विप्रम् । अध्वरेषु । साधुम् । अग्निम् । होतारम् । ईळते । नमःऽभिः ।
    आ । यः । ततान । रोदसी इति । ऋतेन । नित्यम् । मृजन्ति । वाजिनम् । घृतेन ॥

    prá ǀ nú ǀ tyám ǀ vípram ǀ adhvaréṣu ǀ sādhúm ǀ agním ǀ hótāram ǀ īḷate ǀ námaḥ-bhiḥ ǀ
    ā́ ǀ yáḥ ǀ tatā́na ǀ ródasī íti ǀ ṛténa ǀ nítyam ǀ mṛjanti ǀ vājínam ǀ ghṛténa ǁ

    pra ǀ nu ǀ tyam ǀ vipram ǀ adhvareṣu ǀ sādhum ǀ agnim ǀ hotāram ǀ īḷate ǀ namaḥ-bhiḥ ǀ
    ā ǀ yaḥ ǀ tatāna ǀ rodasī iti ǀ ṛtena ǀ nityam ǀ mṛjanti ǀ vājinam ǀ ghṛtena ǁ

    5.1.7 Aṣṭaka 3.8.13.1Anuvāka 5.1.7

  8. Ṛk 8

    मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ ।
    स॒हस्र॑शृंगो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥

    मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः |
    सहस्रशृङ्गो वृषभस् तदोजा विश्वां अग्ने सहसा प्रास्य् अन्यान् ||

    mārjālyó mṛjyate své dámūnāḥ kavipraśastó átithiḥ śivó naḥ ǀ
    sahásraśṛṅgo vṛṣabhástádojā víśvām̐ agne sáhasā prā́syanyā́n ǁ

    mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ |
    sahasraśṛṅgo vṛṣabhas tadojā viśvāṃ agne sahasā prāsy anyān ||

    मा॒र्जा॒ल्यः॑ । मृ॒ज्य॒ते॒ । स्वे । दमू॑नाः । क॒वि॒ऽप्र॒श॒स्तः । अति॑थिः । शि॒वः । नः॒ ।
    स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । तत्ऽओ॑जाः । विश्वा॑न् । अ॒ग्ने॒ । सह॑सा । प्र । अ॒सि॒ । अ॒न्यान् ॥

    मार्जाल्यः । मृज्यते । स्वे । दमूनाः । कविऽप्रशस्तः । अतिथिः । शिवः । नः ।
    सहस्रऽशृङ्गः । वृषभः । तत्ऽओजाः । विश्वान् । अग्ने । सहसा । प्र । असि । अन्यान् ॥

    mārjālyáḥ ǀ mṛjyate ǀ své ǀ dámūnāḥ ǀ kavi-praśastáḥ ǀ átithiḥ ǀ śiváḥ ǀ naḥ ǀ
    sahásra-śṛṅgaḥ ǀ vṛṣabháḥ ǀ tát-ojāḥ ǀ víśvān ǀ agne ǀ sáhasā ǀ prá ǀ asi ǀ anyā́n ǁ

    mārjālyaḥ ǀ mṛjyate ǀ sve ǀ damūnāḥ ǀ kavi-praśastaḥ ǀ atithiḥ ǀ śivaḥ ǀ naḥ ǀ
    sahasra-śṛṅgaḥ ǀ vṛṣabhaḥ ǀ tat-ojāḥ ǀ viśvān ǀ agne ǀ sahasā ǀ pra ǀ asi ǀ anyān ǁ

    5.1.8 Aṣṭaka 3.8.13.2Anuvāka 5.1.8

  9. Ṛk 9

    प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ ।
    ई॒ळेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणां ॥

    प्र सद्यो अग्ने अत्य् एष्य् अन्यान् आविर् यस्मै चारुतमो बभूथ |
    ईळेन्यो वपुष्यो विभावा प्रियो विशाम् अतिथिर् मानुषीणाम् ||

    prá sadyó agne átyeṣyanyā́nāvíryásmai cā́rutamo babhū́tha ǀ
    īḷényo vapuṣyó vibhā́vā priyó viśā́mátithirmā́nuṣīṇām ǁ

    pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha |
    īḷenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām ||

    प्र । स॒द्यः । अ॒ग्ने॒ । अति॑ । ए॒षि॒ । अ॒न्यान् । आ॒विः । यस्मै॑ । चारु॑ऽतमः । ब॒भूथ॑ ।
    ई॒ळेन्यः॑ । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । प्रि॒यः । वि॒शाम् । अति॑थिः । मानु॑षीणाम् ॥

    प्र । सद्यः । अग्ने । अति । एषि । अन्यान् । आविः । यस्मै । चारुऽतमः । बभूथ ।
    ईळेन्यः । वपुष्यः । विभाऽवा । प्रियः । विशाम् । अतिथिः । मानुषीणाम् ॥

    prá ǀ sadyáḥ ǀ agne ǀ áti ǀ eṣi ǀ anyā́n ǀ āvíḥ ǀ yásmai ǀ cā́ru-tamaḥ ǀ babhū́tha ǀ
    īḷényaḥ ǀ vapuṣyáḥ ǀ vibhā́-vā ǀ priyáḥ ǀ viśā́m ǀ átithiḥ ǀ mā́nuṣīṇām ǁ

    pra ǀ sadyaḥ ǀ agne ǀ ati ǀ eṣi ǀ anyān ǀ āviḥ ǀ yasmai ǀ cāru-tamaḥ ǀ babhūtha ǀ
    īḷenyaḥ ǀ vapuṣyaḥ ǀ vibhā-vā ǀ priyaḥ ǀ viśām ǀ atithiḥ ǀ mānuṣīṇām ǁ

    5.1.9 Aṣṭaka 3.8.13.3Anuvāka 5.1.9

  10. Ṛk 10

    तुभ्यं॑ भरंति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अंति॑त॒ ओत दू॒रात् ।
    आ भंदि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रं ॥

    तुभ्यम् भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तित ओत दूरात् |
    आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम् ||

    túbhyam bharanti kṣitáyo yaviṣṭha balímagne ántita ótá dūrā́t ǀ
    ā́ bhándiṣṭhasya sumatím cikiddhi bṛhátte agne máhi śárma bhadrám ǁ

    tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt |
    ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram ||

    तुभ्य॑म् । भ॒र॒न्ति॒ । क्षि॒तयः॑ । य॒वि॒ष्ठ॒ । ब॒लिम् । अ॒ग्ने॒ । अन्ति॑तः । आ । उ॒त । दू॒रात् ।
    आ । भन्दि॑ष्ठस्य । सु॒ऽम॒तिम् । चि॒कि॒द्धि॒ । बृ॒हत् । ते॒ । अ॒ग्ने॒ । महि॑ । शर्म॑ । भ॒द्रम् ॥

    तुभ्यम् । भरन्ति । क्षितयः । यविष्ठ । बलिम् । अग्ने । अन्तितः । आ । उत । दूरात् ।
    आ । भन्दिष्ठस्य । सुऽमतिम् । चिकिद्धि । बृहत् । ते । अग्ने । महि । शर्म । भद्रम् ॥

    túbhyam ǀ bharanti ǀ kṣitáyaḥ ǀ yaviṣṭha ǀ balím ǀ agne ǀ ántitaḥ ǀ ā́ ǀ utá ǀ dūrā́t ǀ
    ā́ ǀ bhándiṣṭhasya ǀ su-matím ǀ cikiddhi ǀ bṛhát ǀ te ǀ agne ǀ máhi ǀ śárma ǀ bhadrám ǁ

    tubhyam ǀ bharanti ǀ kṣitayaḥ ǀ yaviṣṭha ǀ balim ǀ agne ǀ antitaḥ ǀ ā ǀ uta ǀ dūrāt ǀ
    ā ǀ bhandiṣṭhasya ǀ su-matim ǀ cikiddhi ǀ bṛhat ǀ te ǀ agne ǀ mahi ǀ śarma ǀ bhadram ǁ

    5.1.10 Aṣṭaka 3.8.13.4Anuvāka 5.1.10

  11. Ṛk 11

    आद्य रथं॑ भानुमो भानु॒मंत॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ समं॑तं ।
    वि॒द्वान्प॑थी॒नामु॒र्वं१॒॑तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥

    आद्य रथम् भानुमो भानुमन्तम् अग्ने तिष्ठ यजतेभिः समन्तम् |
    विद्वान् पथीनाम् उर्व् अन्तरिक्षम् एह देवान् हविरद्याय वक्षि ||

    ā́dyá rátham bhānumo bhānumántamágne tíṣṭha yajatébhiḥ sámantam ǀ
    vidvā́npathīnā́murvántárikṣaméhá devā́nhavirádyāya vakṣi ǁ

    ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam |
    vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi ||

    आ । अ॒द्य । रथ॑म् । भा॒नु॒ऽमः॒ । भा॒नु॒ऽमन्त॑म् । अग्ने॑ । तिष्ठ॑ । य॒ज॒तेभिः॑ । सम्ऽअ॑न्तम् ।
    वि॒द्वान् । प॒थी॒नाम् । उ॒रु । अ॒न्तरि॑क्षम् । आ । इ॒ह । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥

    आ । अद्य । रथम् । भानुऽमः । भानुऽमन्तम् । अग्ने । तिष्ठ । यजतेभिः । सम्ऽअन्तम् ।
    विद्वान् । पथीनाम् । उरु । अन्तरिक्षम् । आ । इह । देवान् । हविःऽअद्याय । वक्षि ॥

    ā́ ǀ adyá ǀ rátham ǀ bhānu-maḥ ǀ bhānu-mántam ǀ ágne ǀ tíṣṭha ǀ yajatébhiḥ ǀ sám-antam ǀ
    vidvā́n ǀ pathīnā́m ǀ urú ǀ antárikṣam ǀ ā́ ǀ ihá ǀ devā́n ǀ haviḥ-ádyāya ǀ vakṣi ǁ

    ā ǀ adya ǀ ratham ǀ bhānu-maḥ ǀ bhānu-mantam ǀ agne ǀ tiṣṭha ǀ yajatebhiḥ ǀ sam-antam ǀ
    vidvān ǀ pathīnām ǀ uru ǀ antarikṣam ǀ ā ǀ iha ǀ devān ǀ haviḥ-adyāya ǀ vakṣi ǁ

    5.1.11 Aṣṭaka 3.8.13.5Anuvāka 5.1.11

  12. Ṛk 12

    अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ वं॒दारु॑ वृष॒भाय॒ वृष्णे॑ ।
    गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॑व रु॒क्ममु॑रु॒व्यंच॑मश्रेत् ॥

    अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे |
    गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ||

    ávocāma kaváye médhyāya váco vandā́ru vṛṣabhā́ya vṛ́ṣṇe ǀ
    gáviṣṭhiro námasā stómamagnáu divī́va rukmámuruvyáñcamaśret ǁ

    avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe |
    gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret ||

    अवो॑चाम । क॒वये॑ । मेध्या॑य । वचः॑ । व॒न्दारु॑ । वृ॒ष॒भाय॑ । वृष्णे॑ ।
    गवि॑ष्ठिरः । नम॑सा । स्तोम॑म् । अ॒ग्नौ । दि॒विऽइ॑व । रु॒क्मम् । उ॒रु॒ऽव्यञ्च॑म् । अ॒श्रे॒त् ॥

    अवोचाम । कवये । मेध्याय । वचः । वन्दारु । वृषभाय । वृष्णे ।
    गविष्ठिरः । नमसा । स्तोमम् । अग्नौ । दिविऽइव । रुक्मम् । उरुऽव्यञ्चम् । अश्रेत् ॥

    ávocāma ǀ kaváye ǀ médhyāya ǀ vácaḥ ǀ vandā́ru ǀ vṛṣabhā́ya ǀ vṛ́ṣṇe ǀ
    gáviṣṭhiraḥ ǀ námasā ǀ stómam ǀ agnáu ǀ diví-iva ǀ rukmám ǀ uru-vyáñcam ǀ aśret ǁ

    avocāma ǀ kavaye ǀ medhyāya ǀ vacaḥ ǀ vandāru ǀ vṛṣabhāya ǀ vṛṣṇe ǀ
    gaviṣṭhiraḥ ǀ namasā ǀ stomam ǀ agnau ǀ divi-iva ǀ rukmam ǀ uru-vyañcam ǀ aśret ǁ

    5.1.12 Aṣṭaka 3.8.13.6Anuvāka 5.1.12

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.1 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

Fire is awake by the kindling of the peoples, he fronts the dawn that comes to him like a fostering milch-cow; like the mighty ones casting upward their branching his lustres spread towards heaven (252)

Ṛk 2

The priest of the call is awake for sacrifice to the gods, Fire with his right thinking has stood up high ablaze in the dawn. He is kindled, the red-glowing mass of him is seen: a great god has been delivered out of the darkness.(252)

Ṛk 3

When he has put out the long cord of his troop, Fire in his purity reveals all by the pure herds of his rays; the goddess of understanding grows in plenitude and is yoked to her works; she supine, he standing high, he has drunkfrom her breasts with his tongues of flame.(252)

Ṛk 4

The minds of men who seek the godhead converge towards the flame even as their seeings converge in the sun; when two dawns of different forms give birth to this Fire the white Horse is born in front of the days (253)

Ṛk 5

He was born victorious in front of the days, established in established things, ruddy-bright in the woodlands of our pleasure; in house and house founding the seven ecstasies the Fire took up his session as a priest of the call strong for sacrifice. (253)

Ṛk 6

Fire the priest of the call has taken his seat strong to sacrifice in the lap of the Mother, in that rapturous other world, the youth, the seer, manifold in his fixed knowledge, possessed of the Truth, the upholder of the peoples; in between too is he kindled. (253)

Ṛk 7

Men pray with their prostrations of surrender that illumined seer, who achieves perfection in the pilgrim-sacrifices, Fire, the priest of the call, for he has extended earth and heaven by the Truth, they rub bright with the Light the eternal Horse of power. (253)

Ṛk 8

The purifier he is rubbed bright and pure, he who is proclaimed by the seers, one who is the dweller in his own house, and is our benignant guest; the bull of the thousand horns because thou hast the strength of That, O Fire, thou precedest in puissance all others. (254)

Ṛk 9

At once thou goest forward, O Fire, and overpassest all others in whomsoever thou hast become manifest in all the glory of thy beauty; adorable, great of body, wide of light thou art the beloved guest of human beings. (254)

Ṛk 10

To thee, O ever youthful Fire, all the worlds and their peoples bring the offering from near and from far; awake to that right-mindedness of man’s happiest state: vast and great and happy is that peace of thee,1 O Fire. (254)

Ṛk 11

Today, O luminous one, mount the luminous wholeness of thy car with the lords of sacrifice; thou knowest the wide mid-world with all its paths, bring here the gods to partake of our sacrifice. (254)

Ṛk 12

To the seer, the understanding one, we have uttered the word of our adoration, to the Bull, the male; the Steadfast in Light has taken refuge in his laud as in a far-reaching mass of gold. (254)