Sūkta 70
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Urucakri Ātreya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī
2nd set of styles gāyatrī
-
Ṛk 1
पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।
मित्र॒ वंसि॑ वां सुम॒तिं ॥पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण |
मित्र वंसि वां सुमतिम् ||purūrúṇā ciddhyástyávo nūnám vām varuṇa ǀ
mítra váṃsi vām sumatím ǁpurūruṇā cid dhy asty avo nūnaṃ vāṃ varuṇa |
mitra vaṃsi vāṃ sumatim ||पु॒रु॒ऽउ॒रुणा॑ । चि॒त् । हि । अस्ति॑ । अवः॑ । नू॒नम् । वा॒म् । व॒रु॒ण॒ ।
मित्र॑ । वंसि॑ । वा॒म् । सु॒ऽम॒तिम् ॥पुरुऽउरुणा । चित् । हि । अस्ति । अवः । नूनम् । वाम् । वरुण ।
मित्र । वंसि । वाम् । सुऽमतिम् ॥puru-urúṇā ǀ cit ǀ hí ǀ ásti ǀ ávaḥ ǀ nūnám ǀ vām ǀ varuṇa ǀ
mítra ǀ váṃsi ǀ vām ǀ su-matím ǁpuru-uruṇā ǀ cit ǀ hi ǀ asti ǀ avaḥ ǀ nūnam ǀ vām ǀ varuṇa ǀ
mitra ǀ vaṃsi ǀ vām ǀ su-matim ǁ5.70.1 Aṣṭaka 4.4.8.1Anuvāka 5.5.101
-
Ṛk 2
ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से ।
व॒यं ते रु॑द्रा स्याम ॥ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धायसे |
वयं ते रुद्रा स्याम ||tā́ vām samyágadruhvāṇéṣamaśyāma dhā́yase ǀ
vayám té rudrā syāma ǁtā vāṃ samyag adruhvāṇeṣam aśyāma dhāyase |
vayaṃ te rudrā syāma ||ता । वा॒म् । स॒म्यक् । अ॒द्रु॒ह्वा॒णा॒ । इष॑म् । अ॒श्या॒म॒ । धाय॑से ।
व॒यम् । ते । रु॒द्रा॒ । स्या॒म॒ ॥ता । वाम् । सम्यक् । अद्रुह्वाणा । इषम् । अश्याम । धायसे ।
वयम् । ते । रुद्रा । स्याम ॥tā́ ǀ vām ǀ samyák ǀ adruhvāṇā ǀ íṣam ǀ aśyāma ǀ dhā́yase ǀ
vayám ǀ té ǀ rudrā ǀ syāma ǁtā ǀ vām ǀ samyak ǀ adruhvāṇā ǀ iṣam ǀ aśyāma ǀ dhāyase ǀ
vayam ǀ te ǀ rudrā ǀ syāma ǁ5.70.2 Aṣṭaka 4.4.8.2Anuvāka 5.5.102
-
Ṛk 3
पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा ।
तु॒र्याम॒ दस्यूं॑त॒नूभिः॑ ॥पातं नो रुद्रा पायुभिर् उत त्रायेथां सुत्रात्रा |
तुर्याम दस्यून् तनूभिः ||pātám no rudrā pāyúbhirutá trāyethām sutrātrā́ ǀ
turyā́ma dásyūntanū́bhiḥ ǁpātaṃ no rudrā pāyubhir uta trāyethāṃ sutrātrā |
turyāma dasyūn tanūbhiḥ ||पा॒तम् । नः॒ । रु॒द्रा॒ । पा॒युऽभिः॑ । उ॒त । त्रा॒ये॒था॒म् । सु॒ऽत्रा॒त्रा ।
तु॒र्याम॑ । दस्यू॑न् । त॒नूभिः॑ ॥पातम् । नः । रुद्रा । पायुऽभिः । उत । त्रायेथाम् । सुऽत्रात्रा ।
तुर्याम । दस्यून् । तनूभिः ॥pātám ǀ naḥ ǀ rudrā ǀ pāyú-bhiḥ ǀ utá ǀ trāyethām ǀ su-trātrā́ ǀ
turyā́ma ǀ dásyūn ǀ tanū́bhiḥ ǁpātam ǀ naḥ ǀ rudrā ǀ pāyu-bhiḥ ǀ uta ǀ trāyethām ǀ su-trātrā ǀ
turyāma ǀ dasyūn ǀ tanūbhiḥ ǁ5.70.3 Aṣṭaka 4.4.8.3Anuvāka 5.5.103
-
Ṛk 4
मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ ।
मा शेष॑सा॒ मा तन॑सा ॥मा कस्याद्भुतक्रतू यक्षम् भुजेमा तनूभिः |
मा शेषसा मा तनसा ||mā́ kásyādbhutakratū yakṣám bhujemā tanū́bhiḥ ǀ
mā́ śéṣasā mā́ tánasā ǁmā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ |
mā śeṣasā mā tanasā ||मा । कस्य॑ । अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू । य॒क्षम् । भु॒जे॒म॒ । त॒नूभिः॑ ।
मा । शेष॑सा । मा । तन॑सा ॥मा । कस्य । अद्भुतक्रतू इत्यद्भुतऽक्रतू । यक्षम् । भुजेम । तनूभिः ।
मा । शेषसा । मा । तनसा ॥mā́ ǀ kásya ǀ adbhutakratū ítyadbhuta-kratū ǀ yakṣám ǀ bhujema ǀ tanū́bhiḥ ǀ
mā́ ǀ śéṣasā ǀ mā́ ǀ tánasā ǁmā ǀ kasya ǀ adbhutakratū ityadbhuta-kratū ǀ yakṣam ǀ bhujema ǀ tanūbhiḥ ǀ
mā ǀ śeṣasā ǀ mā ǀ tanasā ǁ5.70.4 Aṣṭaka 4.4.8.4Anuvāka 5.5.104
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.