Ṛgveda · Maṇḍala 5

Sūkta 4

Agni · Vasuśruta Ātreya · 11 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Vasuśruta Ātreya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles bhurikpaṅkti (1, 10, 11); nicṛttriṣṭup (3, 6, 8); virāṭtrisṭup (2, 9); svarāṭpaṅkti (4, 7); triṣṭup (5)

2nd set of styles triṣṭubh

  1. Ṛk 1

    त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र मं॑दे अध्व॒रेषु॑ राजन् ।
    त्वया॒ वाजं॑ वाज॒यंतो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नां ॥

    त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे अध्वरेषु राजन् |
    त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ||

    tvā́magne vásupatim vásūnāmabhí prá mande adhvaréṣu rājan ǀ
    tváyā vā́jam vājayánto jayemābhí ṣyāma pṛtsutī́rmártyānām ǁ

    tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan |
    tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām ||

    त्वाम् । अ॒ग्ने॒ । वसु॑ऽपतिम् । वसू॑नाम् । अ॒भि । प्र । म॒न्दे॒ । अ॒ध्व॒रेषु॑ । रा॒ज॒न् ।
    त्वया॑ । वाज॑म् । वा॒ज॒ऽयन्तः॑ । ज॒ये॒म॒ । अ॒भि । स्या॒म॒ । पृ॒त्सु॒तीः । मर्त्या॑नाम् ॥

    त्वाम् । अग्ने । वसुऽपतिम् । वसूनाम् । अभि । प्र । मन्दे । अध्वरेषु । राजन् ।
    त्वया । वाजम् । वाजऽयन्तः । जयेम । अभि । स्याम । पृत्सुतीः । मर्त्यानाम् ॥

    tvā́m ǀ agne ǀ vásu-patim ǀ vásūnām ǀ abhí ǀ prá ǀ mande ǀ adhvaréṣu ǀ rājan ǀ
    tváyā ǀ vā́jam ǀ vāja-yántaḥ ǀ jayema ǀ abhí ǀ syāma ǀ pṛtsutī́ḥ ǀ mártyānām ǁ

    tvām ǀ agne ǀ vasu-patim ǀ vasūnām ǀ abhi ǀ pra ǀ mande ǀ adhvareṣu ǀ rājan ǀ
    tvayā ǀ vājam ǀ vāja-yantaḥ ǀ jayema ǀ abhi ǀ syāma ǀ pṛtsutīḥ ǀ martyānām ǁ

    5.4.1 Aṣṭaka 3.8.18.1Anuvāka 5.1.37

  2. Ṛk 2

    ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे ।
    सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥

    हव्यवाऌ अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे |
    सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि श्रवांसि ||

    havyavā́ḷagnírajáraḥ pitā́ no vibhúrvibhā́vā sudṛ́śīko asmé ǀ
    sugārhapatyā́ḥ sámíṣo didīhyasmadryáksám mimīhi śrávāṃsi ǁ

    havyavāḷ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme |
    sugārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi ||

    ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । पि॒ता । नः॒ । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽदृशी॑कः । अ॒स्मे इति॑ ।
    सु॒ऽगा॒र्ह॒प॒त्याः । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ॥

    हव्यऽवाट् । अग्निः । अजरः । पिता । नः । विऽभुः । विभाऽवा । सुऽदृशीकः । अस्मे इति ।
    सुऽगार्हपत्याः । सम् । इषः । दिदीहि । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ॥

    havya-vā́ṭ ǀ agníḥ ǀ ajáraḥ ǀ pitā́ ǀ naḥ ǀ vi-bhúḥ ǀ vibhā́-vā ǀ su-dṛ́śīkaḥ ǀ asmé íti ǀ
    su-gārhapatyā́ḥ ǀ sám ǀ íṣaḥ ǀ didīhi ǀ asmadryák ǀ sám ǀ mimīhi ǀ śrávāṃsi ǁ

    havya-vāṭ ǀ agniḥ ǀ ajaraḥ ǀ pitā ǀ naḥ ǀ vi-bhuḥ ǀ vibhā-vā ǀ su-dṛśīkaḥ ǀ asme iti ǀ
    su-gārhapatyāḥ ǀ sam ǀ iṣaḥ ǀ didīhi ǀ asmadryak ǀ sam ǀ mimīhi ǀ śravāṃsi ǁ

    5.4.2 Aṣṭaka 3.8.18.2Anuvāka 5.1.38

  3. Ṛk 3

    वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निं ।
    नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥

    विशां कविं विश्पतिम् मानुषीणां शुचिम् पावकं घृतपृष्ठम् अग्निम् |
    नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ||

    viśā́m kavím viśpátim mā́nuṣīṇām śúcim pāvakám ghṛtápṛṣṭhamagním ǀ
    ní hótāram viśvavídam dadhidhve sá devéṣu vanate vā́ryāṇi ǁ

    viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim |
    ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi ||

    वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीणाम् । शुचि॑म् । पा॒व॒कम् । घृ॒तऽपृ॑ष्ठम् । अ॒ग्निम् ।
    नि । होता॑रम् । वि॒श्व॒ऽविद॑म् । द॒धि॒ध्वे॒ । सः । दे॒वेषु॑ । व॒न॒ते॒ । वार्या॑णि ॥

    विशाम् । कविम् । विश्पतिम् । मानुषीणाम् । शुचिम् । पावकम् । घृतऽपृष्ठम् । अग्निम् ।
    नि । होतारम् । विश्वऽविदम् । दधिध्वे । सः । देवेषु । वनते । वार्याणि ॥

    viśā́m ǀ kavím ǀ viśpátim ǀ mā́nuṣīṇām ǀ śúcim ǀ pāvakám ǀ ghṛtá-pṛṣṭham ǀ agním ǀ
    ní ǀ hótāram ǀ viśva-vídam ǀ dadhidhve ǀ sáḥ ǀ devéṣu ǀ vanate ǀ vā́ryāṇi ǁ

    viśām ǀ kavim ǀ viśpatim ǀ mānuṣīṇām ǀ śucim ǀ pāvakam ǀ ghṛta-pṛṣṭham ǀ agnim ǀ
    ni ǀ hotāram ǀ viśva-vidam ǀ dadhidhve ǀ saḥ ǀ deveṣu ǀ vanate ǀ vāryāṇi ǁ

    5.4.3 Aṣṭaka 3.8.18.3Anuvāka 5.1.39

  4. Ṛk 4

    जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य ।
    जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥

    जुषस्वाग्न इऌअया सजोषा यतमानो रश्मिभिः सूर्यस्य |
    जुषस्व नः समिधं जातवेद आ च देवान् हविरद्याय वक्षि ||

    juṣásvāgna íḷayā sajóṣā yátamāno raśmíbhiḥ sū́ryasya ǀ
    juṣásva naḥ samídham jātaveda ā́ ca devā́nhavirádyāya vakṣi ǁ

    juṣasvāgna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya |
    juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi ||

    जु॒षस्व॑ । अ॒ग्ने॒ । इळ॑या । स॒ऽजोषाः॑ । यत॑मानः । र॒श्मिऽभिः॑ । सूर्य॑स्य ।
    जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । जा॒त॒ऽवे॒दः॒ । आ । च॒ । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥

    जुषस्व । अग्ने । इळया । सऽजोषाः । यतमानः । रश्मिऽभिः । सूर्यस्य ।
    जुषस्व । नः । सम्ऽइधम् । जातऽवेदः । आ । च । देवान् । हविःऽअद्याय । वक्षि ॥

    juṣásva ǀ agne ǀ íḷayā ǀ sa-jóṣāḥ ǀ yátamānaḥ ǀ raśmí-bhiḥ ǀ sū́ryasya ǀ
    juṣásva ǀ naḥ ǀ sam-ídham ǀ jāta-vedaḥ ǀ ā́ ǀ ca ǀ devā́n ǀ haviḥ-ádyāya ǀ vakṣi ǁ

    juṣasva ǀ agne ǀ iḷayā ǀ sa-joṣāḥ ǀ yatamānaḥ ǀ raśmi-bhiḥ ǀ sūryasya ǀ
    juṣasva ǀ naḥ ǀ sam-idham ǀ jāta-vedaḥ ǀ ā ǀ ca ǀ devān ǀ haviḥ-adyāya ǀ vakṣi ǁ

    5.4.4 Aṣṭaka 3.8.18.4Anuvāka 5.1.40

  5. Ṛk 5

    जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।
    विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥

    जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् |
    विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आ भरा भोजनानि ||

    júṣṭo dámūnā átithirduroṇá imám no yajñámúpa yāhi vidvā́n ǀ
    víśvā agne abhiyújo vihátyā śatrūyatā́mā́ bharā bhójanāni ǁ

    juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān |
    viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni ||

    जुष्टः॑ । दमू॑नाः । अति॑थिः । दु॒रो॒णे । इ॒मम् । नः॒ । य॒ज्ञम् । उप॑ । या॒हि॒ । वि॒द्वान् ।
    विश्वा॑ । अ॒ग्ने॒ । अ॒भि॒ऽयुजः॑ । वि॒ऽहत्य॑ । श॒त्रु॒ऽय॒ताम् । आ । भ॒र॒ । भोज॑नानि ॥

    जुष्टः । दमूनाः । अतिथिः । दुरोणे । इमम् । नः । यज्ञम् । उप । याहि । विद्वान् ।
    विश्वा । अग्ने । अभिऽयुजः । विऽहत्य । शत्रुऽयताम् । आ । भर । भोजनानि ॥

    júṣṭaḥ ǀ dámūnāḥ ǀ átithiḥ ǀ duroṇé ǀ imám ǀ naḥ ǀ yajñám ǀ úpa ǀ yāhi ǀ vidvā́n ǀ
    víśvā ǀ agne ǀ abhi-yújaḥ ǀ vi-hátya ǀ śatru-yatā́m ǀ ā́ ǀ bhara ǀ bhójanāni ǁ

    juṣṭaḥ ǀ damūnāḥ ǀ atithiḥ ǀ duroṇe ǀ imam ǀ naḥ ǀ yajñam ǀ upa ǀ yāhi ǀ vidvān ǀ
    viśvā ǀ agne ǀ abhi-yujaḥ ǀ vi-hatya ǀ śatru-yatām ǀ ā ǀ bhara ǀ bhojanāni ǁ

    5.4.5 Aṣṭaka 3.8.18.5Anuvāka 5.1.41

  6. Ṛk 6

    व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ ।
    पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥

    वधेन दस्युम् प्र हि चातयस्व वयः कृण्वानस् तन्वे स्वायै |
    पिपर्षि यत् सहसस् पुत्र देवान्त् सो अग्ने पाहि नृतम वाजे अस्मान् ||

    vadhéna dásyum prá hí cātáyasva váyaḥ kṛṇvānástanve svā́yai ǀ
    píparṣi yátsahasasputra devā́ntsó agne pāhi nṛtama vā́je asmā́n ǁ

    vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai |
    piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān ||

    वे॒धेन॑ । दस्यु॑म् । प्र । हि । चा॒तय॑स्व । वयः॑ । कृ॒ण्वा॒नः । त॒न्वे॑ । स्वायै॑ ।
    पिप॑र्षि । यत् । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वान् । सः । अ॒ग्ने॒ । पा॒हि॒ । नृ॒ऽत॒म॒ । वाजे॑ । अ॒स्मान् ॥

    वेधेन । दस्युम् । प्र । हि । चातयस्व । वयः । कृण्वानः । तन्वे । स्वायै ।
    पिपर्षि । यत् । सहसः । पुत्र । देवान् । सः । अग्ने । पाहि । नृऽतम । वाजे । अस्मान् ॥

    vedhéna ǀ dásyum ǀ prá ǀ hí ǀ cātáyasva ǀ váyaḥ ǀ kṛṇvānáḥ ǀ tanvé ǀ svā́yai ǀ
    píparṣi ǀ yát ǀ sahasaḥ ǀ putra ǀ devā́n ǀ sáḥ ǀ agne ǀ pāhi ǀ nṛ-tama ǀ vā́je ǀ asmā́n ǁ

    vedhena ǀ dasyum ǀ pra ǀ hi ǀ cātayasva ǀ vayaḥ ǀ kṛṇvānaḥ ǀ tanve ǀ svāyai ǀ
    piparṣi ǀ yat ǀ sahasaḥ ǀ putra ǀ devān ǀ saḥ ǀ agne ǀ pāhi ǀ nṛ-tama ǀ vāje ǀ asmān ǁ

    5.4.6 Aṣṭaka 3.8.19.1Anuvāka 5.1.42

  7. Ṛk 7

    व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे ।
    अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥

    वयं ते अग्न उक्थैर् विधेम वयं हव्यैः पावक भद्रशोचे |
    अस्मे रयिं विश्ववारं सम् इन्वास्मे विश्वानि द्रविणानि धेहि ||

    vayám te agna uktháirvidhema vayám havyáiḥ pāvaka bhadraśoce ǀ
    asmé rayím viśvávāram sáminvāsmé víśvāni dráviṇāni dhehi ǁ

    vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce |
    asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi ||

    व॒यम् । ते॒ । अ॒ग्ने॒ । उ॒क्थैः । वि॒धे॒म॒ । व॒यम् । ह॒व्यैः । पा॒व॒क॒ । भ॒द्र॒ऽशो॒चे॒ ।
    अ॒स्मे इति॑ । र॒यिम् । वि॒श्वऽवा॑रम् । सम् । इ॒न्व॒ । अ॒स्मे इति॑ । विश्वा॑नि । द्रवि॑णानि । धे॒हि॒ ॥

    वयम् । ते । अग्ने । उक्थैः । विधेम । वयम् । हव्यैः । पावक । भद्रऽशोचे ।
    अस्मे इति । रयिम् । विश्वऽवारम् । सम् । इन्व । अस्मे इति । विश्वानि । द्रविणानि । धेहि ॥

    vayám ǀ te ǀ agne ǀ uktháiḥ ǀ vidhema ǀ vayám ǀ havyáiḥ ǀ pāvaka ǀ bhadra-śoce ǀ
    asmé íti ǀ rayím ǀ viśvá-vāram ǀ sám ǀ inva ǀ asmé íti ǀ víśvāni ǀ dráviṇāni ǀ dhehi ǁ

    vayam ǀ te ǀ agne ǀ ukthaiḥ ǀ vidhema ǀ vayam ǀ havyaiḥ ǀ pāvaka ǀ bhadra-śoce ǀ
    asme iti ǀ rayim ǀ viśva-vāram ǀ sam ǀ inva ǀ asme iti ǀ viśvāni ǀ draviṇāni ǀ dhehi ǁ

    5.4.7 Aṣṭaka 3.8.19.2Anuvāka 5.1.43

  8. Ṛk 8

    अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यं ।
    व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥

    अस्माकम् अग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् |
    वयं देवेषु सुकृतः स्याम शर्मणा नस् त्रिवरूथेन पाहि ||

    asmā́kamagne adhvarám juṣasva sáhasaḥ sūno triṣadhastha havyám ǀ
    vayám devéṣu sukṛ́taḥ syāma śármaṇā nastrivárūthena pāhi ǁ

    asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam |
    vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi ||

    अ॒स्माक॑म् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । सह॑सः । सू॒नो॒ इति॑ । त्रि॒ऽस॒ध॒स्थ॒ । ह॒व्यम् ।
    व॒यम् । दे॒वेषु॑ । सु॒ऽकृतः॑ । स्या॒म॒ । शर्म॑णा । नः॒ । त्रि॒ऽवरू॑थेन । पा॒हि॒ ॥

    अस्माकम् । अग्ने । अध्वरम् । जुषस्व । सहसः । सूनो इति । त्रिऽसधस्थ । हव्यम् ।
    वयम् । देवेषु । सुऽकृतः । स्याम । शर्मणा । नः । त्रिऽवरूथेन । पाहि ॥

    asmā́kam ǀ agne ǀ adhvarám ǀ juṣasva ǀ sáhasaḥ ǀ sūno íti ǀ tri-sadhastha ǀ havyám ǀ
    vayám ǀ devéṣu ǀ su-kṛ́taḥ ǀ syāma ǀ śármaṇā ǀ naḥ ǀ tri-várūthena ǀ pāhi ǁ

    asmākam ǀ agne ǀ adhvaram ǀ juṣasva ǀ sahasaḥ ǀ sūno iti ǀ tri-sadhastha ǀ havyam ǀ
    vayam ǀ deveṣu ǀ su-kṛtaḥ ǀ syāma ǀ śarmaṇā ǀ naḥ ǀ tri-varūthena ǀ pāhi ǁ

    5.4.8 Aṣṭaka 3.8.19.3Anuvāka 5.1.44

  9. Ṛk 9

    विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिंधुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।
    अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूनां॑ ॥

    विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि |
    अग्ने अत्रिवन् नमसा गृणानो ऽस्माकम् बोध्य् अविता तनूनाम् ||

    víśvāni no durgáhā jātavedaḥ síndhum ná nāvā́ duritā́ti parṣi ǀ
    ágne atrivánnámasā gṛṇānó’smā́kam bodhyavitā́ tanū́nām ǁ

    viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi |
    agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām ||

    विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।
    अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥

    विश्वानि । नः । दुःऽगहा । जातऽवेदः । सिन्धुम् । न । नावा । दुःऽइता । अति । पर्षि ।
    अग्ने । अत्रिऽवत् । नमसा । गृणानः । अस्माकम् । बोधि । अविता । तनूनाम् ॥

    víśvāni ǀ naḥ ǀ duḥ-gáhā ǀ jāta-vedaḥ ǀ síndhum ǀ ná ǀ nāvā́ ǀ duḥ-itā́ ǀ áti ǀ parṣi ǀ
    ágne ǀ atri-vát ǀ námasā ǀ gṛṇānáḥ ǀ asmā́kam ǀ bodhi ǀ avitā́ ǀ tanū́nām ǁ

    viśvāni ǀ naḥ ǀ duḥ-gahā ǀ jāta-vedaḥ ǀ sindhum ǀ na ǀ nāvā ǀ duḥ-itā ǀ ati ǀ parṣi ǀ
    agne ǀ atri-vat ǀ namasā ǀ gṛṇānaḥ ǀ asmākam ǀ bodhi ǀ avitā ǀ tanūnām ǁ

    5.4.9 Aṣṭaka 3.8.19.4Anuvāka 5.1.45

  10. Ṛk 10

    यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।
    जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्यां ॥

    यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि |
    जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ||

    yástvā hṛdā́ kīríṇā mányamānó’martyam mártyo jóhavīmi ǀ
    jā́tavedo yáśo asmā́su dhehi prajā́bhiragne amṛtatvámaśyām ǁ

    yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi |
    jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām ||

    यः । त्वा॒ । हृ॒दा । की॒रिणा॑ । मन्य॑मानः । अम॑र्त्यम् । मर्त्यः॑ । जोह॑वीमि ।
    जात॑ऽवेदः । यशः॑ । अ॒स्मासु॑ । धे॒हि॒ । प्र॒ऽजाभिः॑ । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वम् । अ॒श्या॒म् ॥

    यः । त्वा । हृदा । कीरिणा । मन्यमानः । अमर्त्यम् । मर्त्यः । जोहवीमि ।
    जातऽवेदः । यशः । अस्मासु । धेहि । प्रऽजाभिः । अग्ने । अमृतऽत्वम् । अश्याम् ॥

    yáḥ ǀ tvā ǀ hṛdā́ ǀ kīríṇā ǀ mányamānaḥ ǀ ámartyam ǀ mártyaḥ ǀ jóhavīmi ǀ
    jā́ta-vedaḥ ǀ yáśaḥ ǀ asmā́su ǀ dhehi ǀ pra-jā́bhiḥ ǀ agne ǀ amṛta-tvám ǀ aśyām ǁ

    yaḥ ǀ tvā ǀ hṛdā ǀ kīriṇā ǀ manyamānaḥ ǀ amartyam ǀ martyaḥ ǀ johavīmi ǀ
    jāta-vedaḥ ǀ yaśaḥ ǀ asmāsu ǀ dhehi ǀ pra-jābhiḥ ǀ agne ǀ amṛta-tvam ǀ aśyām ǁ

    5.4.10 Aṣṭaka 3.8.19.5Anuvāka 5.1.46

  11. Ṛk 11

    यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नं ।
    अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रवं॑तं॒ गोमं॑तं र॒यिं न॑शते स्व॒स्ति ॥

    यस्मै त्वं सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् |
    अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ||

    yásmai tvám sukṛ́te jātaveda u lokámagne kṛṇávaḥ syonám ǀ
    aśvínam sá putríṇam vīrávantam gómantam rayím naśate svastí ǁ

    yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam |
    aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti ||

    यस्मै॑ । त्वम् । सु॒ऽकृते॑ । जा॒त॒ऽवे॒दः॒ । ऊं॒ इति॑ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः॑ । स्यो॒नम् ।
    अ॒श्विन॑म् । सः । पु॒त्रिण॑म् । वी॒रऽव॑न्तम् । गोऽम॑न्तम् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥

    यस्मै । त्वम् । सुऽकृते । जातऽवेदः । ऊं इति । लोकम् । अग्ने । कृणवः । स्योनम् ।
    अश्विनम् । सः । पुत्रिणम् । वीरऽवन्तम् । गोऽमन्तम् । रयिम् । नशते । स्वस्ति ॥

    yásmai ǀ tvám ǀ su-kṛ́te ǀ jāta-vedaḥ ǀ ūṃ íti ǀ lokám ǀ agne ǀ kṛṇávaḥ ǀ syonám ǀ
    aśvínam ǀ sáḥ ǀ putríṇam ǀ vīrá-vantam ǀ gó-mantam ǀ rayím ǀ naśate ǀ svastí ǁ

    yasmai ǀ tvam ǀ su-kṛte ǀ jāta-vedaḥ ǀ ūṃ iti ǀ lokam ǀ agne ǀ kṛṇavaḥ ǀ syonam ǀ
    aśvinam ǀ saḥ ǀ putriṇam ǀ vīra-vantam ǀ go-mantam ǀ rayim ǀ naśate ǀ svasti ǁ

    5.4.11 Aṣṭaka 3.8.19.6Anuvāka 5.1.47

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.4 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

O Fire, O king, towards thee the Wealth-master of the riches I turn and delight in thee in the pilgrim-sacrifice; replenishing thee may we conquer the plenitude, may we overcome the battle-hosts of mortals. (261)

Ṛk 2

The ageless Fire that carries the offering is the father of us, he in us is pervasive in his being, extended in light, perfect in vision. Accomplished in the works of the master of the house blaze out thy forces, form and turn towards us thy inspirations. (261)

Ṛk 3

The seer, the master of men, lord of the human peoples, Fire, pure and purifying with its back of light set within you as the omniscient priest of the call; he shall win our desirable things in the godheads. 261)

Ṛk 4

Of one mind with the goddess of revelation take pleasure in us, O Fire, labouring with the rays of the sun; accept with pleasure our fuel, O knower of all things born, and bring the gods to us to partake of our sacrifice. (261)

Ṛk 5

A cherished guest domiciled in our gated house come to this sacrifice of ours as the knower; O Fire, slaying all who assail us bring to us the enjoyments of those who make themselves the enemy. (262)

Ṛk 6

Drive away from us the Destroyer with thy stroke making free space for thy own body; when thou carriest the gods over safe, O son of force, us, O Fire, strongest godhead, guard in the plenitude. (262)

Ṛk 7

O Fire, may we worship thee with our words, thee with our offerings, O purifier, O happy light; into us bring the treasure in which are all desirable things, in us establish substance of every kind of riches. (262)

Ṛk 8

Accept our pilgrim-sacrifice, O Fire, accept, O son of force, Oh older of the triple world of thy session, our offering. May we be doers of good deeds before the godheads, protect us with a triple armour of peace. (262)

Ṛk 9

O knower of all things born, carry us through all difficult passages, through all calamities as a ship over the ocean. O Fire, voiced by us with our obeisance even as did Atri, awake and be the guardian of our bodies. (262)

Ṛk 10

I think of thee with a heart that is thy bard and mortal I call to thee immortal; O knower of all things born, establish the glory in us, by the children of my works, O Fire, may I win immortality. (263)

Ṛk 11

He for whom, because he does well his works, O Agni Jatavedas, thou willest to make that other world of bliss, attains to a felicity full of the Horses, the Sons, the Heroes, the Cows, all happy being. (SABCL, Vol. 10, p.144)

O Knower of the Births, the man perfect in his works for whom thou createst that other blissful world, reaches a felicity that is peopled happily with his life’s swiftnesses, his herds of Light, the children of his soul, the armies of his energy. (SABCL, Vol. 10, p.375)

The doer of the great deeds for whom thou shalt make that happy other world. O Knower of all things born, reaches in peace a wealth in which are the Horses of swiftness, the Ray-Cows, the Son, the Horses. (SABCL, Vol. 11, p.211)